SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ૨૮ सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । ह नैतदेवं कुतस्तस्य कर्मणस्तन्निमित्तत्वात्तद्विरुद्धवधक्रियाजन्यत्वात्, यदि नामैवं ततः किमिति अत्राह अविरुद्धहेतुजस्य च निवृत्तिहेतुत्वाभिमताविरुद्धकारणजन्यस्य च वस्तुनो न निवृ तिर्न विनाशः इतरभावेऽपि विनाशकारणाविरोधिपदार्थभावेऽपीति । एतदेव भावयति ॥ हिमजणियं सीयं चिय अवेइ अनलाओ नायवो वेइ । एवं अणन्भुवगमे अइप्पसंगो बला होइ ॥ १४६ ॥ [ हिमजनितं शीतमेवापैत्यनलात् नातपोऽपैति । एवमनभ्युपगमेऽतिप्रसङ्गो बलाद्भवति ।। १४६ ॥ ] हिमजनितं शीतमेवापैत्यनलात् शीतकारणविरोधित्वादनलस्य नातपोऽपैति तत्कारणाविरोधित्वादनलस्य एवमनभ्युपगमे कारणविरोधिनः सकाशान्निवृत्तिरित्यनङ्गीकरणेऽतिप्रसङ्गो बलाद्भवति तन्निवृत्तिवत्तदन्यनिवृत्तिलक्षणा अव्यवस्था नियमेनापद्यत इति । एतदेवाह । तभावंमि अजं किंचि वत्थु जत्तो कुओ वि न हविज्जा एवं च सवभावो पावर अन्नुन्नविका ॥ १४७ ॥ [ तदभावेऽपि च यत्किंचित् वस्तुजातं कुतश्चित् न भवेत् । एवं च सर्वाभावः प्राप्नोत्यन्योन्यापेक्षया ॥ १४७ ॥ ] तद्भावेऽपि चातिप्रसङ्गभावे च यत्किंचिदत्र वस्तुजातं यतः कुतश्चित्सकाशान्न भवेत् अप्रतिपक्षादपि निवृत्त्यभ्युपगमात् । अत्रानिष्टमाह, एवं च सति सर्वाभावः प्राप्नोति अशेषपदार्थाभाव
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy