SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञस्याख्यप्रकरणं । एवं अनुभवलोकागमविरुद्धमेतत् न ज्ञातसमयानाम्। मतिविभ्रमस्य हेतुः वचनं भावार्थनिस्सारम् ॥१७४॥] इय एवं अनुभवलोकागमविरुद्धमेतत् । निवृत्तौ परिणामशुद्ध्यनुभवादनुभवविरुद्धं समुद्रादिप्रतरणादिप्रवृत्तेर्लोकविरुद्धं यस्य कस्यचिद्विधानादागमविरुद्धं एतत्पूर्वपक्षवादिवचनमिति योगः। न ज्ञातसमयानां नावगतसिद्धान्तानां मतिविभ्रमस्य हेतुः कथमेतच्छोभनं मतिविप्लवस्य कारणं किं विशिष्टं वचनं भावार्थनिस्सारं अभिप्रेतगर्भार्थशून्यमिति । यस्मादेवं । तम्हा विसुद्धचिता जिणवयणविहीइ दोवि सद्धाला। वहविरइसमुज्जुता पावं छिदंति धिइबलिणो॥१७॥ तस्माद्विशुद्धचित्तौ जिनवचनविधिना द्वावपि श्रद्धावन्तौ वधविरतिसमुद्युक्तौ पापं छित्तः धृतिबलिनौ ॥१७॥] तस्माद्विशुद्धचित्तौ अपेक्षारहितौ जिनवचन विधिना प्रवचनोकेन प्रकारेण द्वावपि प्रत्याख्यातृप्रत्याख्यापयितारौ श्रद्धावन्तौ वधविरतिसमुद्युक्तौ यथाशक्त्या पालनोद्यतौ पापं छित्तः कर्म क्षपयतः धृतिबलिनौ अप्रतिपतितपरिणामाविति ॥ - सांप्रतमन्यद्वादस्थानकम् । निच्चाण वहाभावा पयइअणिचाण चेव निविसया। एगंतेणेव इहं वहविरई केइ मन्नंति ॥ १७६ ॥ [नित्यानां वधाभावात्प्रकृत्यनित्यानां चैव निर्विषया। एकान्तेनैव इह वधविरतिः केचन मन्यन्ते ॥ १७६ ॥]
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy