________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। १०१ जीवाः किल नित्या वा स्युरनित्या वेत्युभयथापि दोषः नित्यानां वधाभावात् प्रकृत्यनित्यानां चैव स्वभावभङ्गुराणां चैव वधाभावात् निर्विषया निरालंबना एकान्तेनैव अत्र पक्षद्वये का वधविरतिः संभवाभावात् केचन वादिनो मन्यन्त इति । एतदेव भावयति
एगसहावो निच्चो तस्स कह वहो अणिच्चभावाओ। पयइअणिच्चस्स वि अन्नहेऊभावाणवेकाओ॥१७७॥ [एकस्वभावो नित्यः तस्य कथं वधः अनित्यभावात् । प्रकृत्यनित्यस्यापि अन्यहेतुभावानपेक्षातः ॥ १७७॥]
एकस्वभावोऽप्रच्युतानुत्पन्नस्थिरैकधर्मा नित्यः तस्य कथं वधः -जिघांसनमनित्यभावादतादवस्थो नानित्यत्वापत्तेरित्यर्थः प्रकृत्यनित्यस्यापि स्वभावतोऽप्यनित्यस्य कथं वध इति वर्तते कथं च नेत्याह अन्यहेतुभावानपेक्षातः स्वव्यतिरिक्तहेतुसत्तानपेक्षत्वातू तत्स्वभावत्वे च स्वत एव निवृत्तेरिति । प्रक्रान्तोपचयमाह ।
किं च सरीरा जीवो अन्नो णन्नो व हुज्ज जइ अन्नो
ता कह देहवहंमि वि तस्स वहो घडविणासेव १७६ [किं च शरीरात् जीवः अन्योऽनन्यो वा भवेत् यद्यन्यः। तत्कथं देहवधेऽपि तस्य वधः घटविनाश इव ॥१७८॥] किं चान्यच्छरीरात्सकाशाजीवोऽन्योऽनन्यो वा भवेत् द्वयी गतिः किं चातः यद्यन्यस्तत्कथं देहवधे प्रकृतिविकारत्वेनार्थान्त