SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । देवाज्ञाननिवृत्तेरेवापगमस्तस्य निवृत्तिस्तस्य कर्मणः कारणाभावात् कार्याभाव इति न्यायात्किं वधक्रियया ततः अप्रतिपक्षत्वातस्या विपर्ययः तस्या वधक्रियायाः अथ हेतुरवधक्रियैवेति एतदाशङ्कयाह । मुताण कम्मबंधो पावइ एवं निरत्यगा मुत्ती । अह तस्स पुन्नबंधो तओ वि न अंतरायाओ ॥ १४२ ॥ [ मुक्तानां कर्मबन्धः प्राप्नोति एवं निरर्थका मुक्तिः । अथ तस्य पुण्यबन्धः तकोऽपि नान्तरायात् ॥ १४२ ॥ ] मुक्तानां कर्मबन्धः प्राप्नोति तस्यावधक्रियानिमित्तत्वात् मुक्तानां चावधक्रियोपेतत्वात् एवं निरर्थका मुक्तिर्बन्धोपद्रुतत्वात् । अथैवं मन्यसे तस्य दुःखितसत्त्व व्यापादकस्य पुण्यबन्धो गुणो न तु कर्मक्षय इत्येतदाशङ्कयाह तकोऽपि न असावपि गुणो नान्तरायात्कारणादिति । एतदेव भावयति । " ८६ वहमाणो ते नियमा करेइ वहपुन्नमंतराय से | ता कह णु तस्स पुन्नं तेसिं रकवणं व हेऊओ ॥१४३॥ [नन् तान् नियमात्करोति वधपुण्यान्तरायममीषाम् । तत्कथं तु तस्य पुण्यं तेषां क्षपणवदहेतुकत्वात् ॥ १४३ ॥ ] घ्नन् व्यापादयंस्तान् दुःखितसत्त्वान्नियमादवश्यमेव करोति निर्वर्तयति असौ व्यापादकः वधपुण्यान्तरायममीषां दुःखितसत्वानां जीवन्तो हि तेऽन्यदुःखितवधेन पुण्यं कुर्वन्ति व्यापादने च तेषां अन्यवधाभावात्पुण्यान्तरायं यस्मादेवं तत्तस्मात्कथं नु
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy