SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । २१३ जंमाभावे न जरा न य मरणं न य भयं न संसारो। एएसिमभावाओ कहं न सुक्खं परं तसिं ॥ ३९७॥ [जन्माभावे नजरा न च मरणं न च भयं न संसारः। एतेषामभावात्कथं न सौख्यं परं तेषाम् ॥ ३९७ ॥] जन्माभावे न जरा वयोहानिलक्षणा आश्रयाभावान्न च मरणं प्राणत्यागरूपं तदभावादेव न च भयमिहलोकादिभेदं निबन्धनाभावान्न च संसारः कारणाभावादेव एतेषां जन्मादीनामभावात्कथं न सौख्यं परं तेषां सिद्धानां किन्तु सौख्यमेव जन्मादीनामेव दुःखरूपत्वादिति अव्याबाधमिति यदुक्तं तदाह अवाबाहाउ च्चिय सयलिंदियविसयभोगपजते । उस्सुक्कविणिवतीइ संसारसुहं व सद्धेयं ॥ ३९ ॥ [अव्यावाधत एव सकलेन्द्रियविषयभोगपर्यन्ते । औत्सुक्यविनिवृत्तेः संसारसुखमिव श्रद्धेयम् ॥३९८॥] अव्याबाधत एव अव्याबाधादेव सकलेन्द्रियविषयभो. गपर्यन्ते अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यविनिवृत्तेरभिलाषव्यावृत्तेः कारणात्संसारसुखमिव श्रद्धेयं तस्यापि तत्त्वतो विषयोपभोगतस्तदौत्सुक्यविनिवृत्तिरूपत्वात्तदर्थ भोगक्रियाप्रवृत्तेरिति । उक्तं च . वेणुवीणामृदंगादिनादयुक्तेन हारिणा। श्लाघ्यस्मरकथाबद्धगीतेन स्तिमितं सदा ॥१॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy