SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४८ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं । हेण, श्रूयते च बाह्यप्रत्ययवृषभादिसयव्यपेक्षा करकंडादीनां प्रत्येकबुद्धानां बोधिरिति । उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः । स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः प्रत्येकबुद्धानां नियमतो भवत्येव । लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण ॥ बुद्धबोधिता इति बुद्धबोधितसिद्धाः बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते ॥ स्वान्यगृहिलिङ्गा इति स्वलिङ्गसिद्धा अन्यलिङ्गसिद्धा गृहिलिङ्गसिद्धाः। तत्र स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छकधारिणः । अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः । गृहिलिङ्गसिद्धा मरुदेवीप्रभृतय इति ॥ . इत्थीपुरिसनपुंसग एगाणेग तह समयभिन्ना य । एसो जीवसमासो इतो इयरं पवकामि ॥ ७७ ॥ [स्त्रीपुरुषनपुंसका एकानेके तथा समयभिन्नाश्च । एष जीवसमसोऽत इतरं प्रवक्ष्यामि ॥ ७७॥ ] एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुंलिङ्गसिद्धाः केचिन्नपुंसकलिङ्गसिद्धाः। आह किं तीर्थकरा अपि स्त्रीलिगसिद्धा भवन्ति । भवन्तीत्याह । यत उक्तं सिद्धप्राभृते “सखत्थोवा तित्थगरिसिद्धा तित्थगरितित्थे नोतित्थसिद्धा असङ्घयेयगुणा तित्थगरितित्थे णोतित्थगरिसिद्धा उ असङ्खयेयगुणा- उ तित्थ
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy