________________
४२
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
लोके य एव सिद्धिगमनयोग्याः खलुशब्दस्यावधारणार्थत्वात् तुशब्दोऽप्येवकारार्थः योग्या एव । न तु सर्वे सिद्धिगामिन एव । यथोक्तं " भवा वि न सिज्जिस्सन्ति केइ ” इत्यादि । भव्यत्वे निबन्धनमाह । ते पुनरनादिपरिणामभावतो भवन्ति ज्ञातव्याः । अनादिपारिणामिकभव्यभावयोगाद्भव्या इति ॥
विवरिया उ अभव्वा न कयाइ भवन्नवस्स ते पारं । गच्छं जंति व तहा तत्तु च्चिय भावओ नवरं ॥ ६७॥ [ विपरीतास्त्वभव्या न कदाचिद्भवार्णवस्य ते पारं । गतवन्तो यान्ति वा तथा तत एव भावात् नवरं ॥ ६७ ॥ |]
विपरीतास्त्वभव्याः । तदेव विपरीतत्वमाह । न कदाचिद्भवार्णवस्य संसारसमुद्रस्य ते पारं पर्यन्तं गतवन्तो यान्ति वा वाशब्दस्य विकल्पार्थत्वात् यास्यन्ति वा । तथेति कुतो निमित्तादिति आह । तत एव भावात् तस्मादेव अनादिपारिणामिकादभव्यत्वभावादिति भावः । नवरमिति साभिप्रायकं अभिप्रायश्च नवरमेतावता वैपरीत्यमिति ।
भव्यद्वारानन्तरमाहारकद्वारमाह ।
विग्गहगइमावन्ना केवलिणो समुहया अजोगीय । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ ६८ ॥ [ विग्रहगतिमापन्नाः केवलिनः समवहता अयोगिनश्च । सिद्धाश्चानाहारकाः शेषा आहारका जीवाः ॥ ६८ ॥ ]