SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ संटीकश्श्रावकप्रज्ञप्त्याख्यप्रकरणं । ४३ 1 : विग्रहगतिमापन्ना अपान्तरालगतिवृत्तय इत्यर्थः । केवलिनः समवहताः समुद्घातं गताः । अयोगिनश्च केवलिन एव शैलेश्वस्थायामिति । सिद्धाश्च मुक्तिभाजः । एते ऽनाहारका ओजाद्याहाराणामन्यतमेनाप्यमी नाहारयन्तीत्यर्थः । शेषा उक्तविलक्षणा आहारका जीवा ओजलोमप्रक्षेपाहाराणां यथासंभवं येन केनचिदाहारेणेति । तेऽपि यावन्तं कालमनाहारकाः तांस्तथाभिधातुकाम आहे ॥ ॥६९॥ गाइ तिन्निसमया तिन्नेव ऽन्तोमुहुत्तमित्तं च । साई अपज्जवसियं कालमणाहारगा कमसो ॥ ६९ ॥ [ एकाद्यांस्त्रीन्समयान् त्रीनेव अन्तर्मुहूर्तमात्रं च । साद्यपर्यवसितं कालमनाहारकाः क्रमशः ॥ ६९ ॥ ] एकाद्यांस्त्रीन्समयान् विग्रहगतिमापन्ना अनाहारकाः । उक्तं च " एकं द्वौ वानाहारकः" इति ( तत्त्वार्थाधिगमसूत्रं २ - ३१ ) वाशब्दात्रिसमयग्रहः । त्रीनेव समयाननाहारकाः समुद्घाते केवलिनः । यथोक्तम् ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । ( प्रशमरति - ३७३ ) समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ १ ॥ अन्तर्मुहूर्तं चानाहारका अयोगिकेवलिनः तत ऊर्ध्वमयोगिकेवलित्वाभावादपवर्गप्राप्तेः । साद्यपर्यवसितं कालमनाहारकाः सिद्धा व्यक्त्यपेक्षया तेषां सादित्वादपर्यवसितत्वाच्च । अत एवाह क्रमश एवंभूतेनैव क्रमेणेति गाथार्थः । व्याख्यातमाहारकद्वारं सांप्रतं पर्याप्तकद्वारमाह ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy