SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। नारयदेवा तिरिमर्णय गन्भया जे असंखवासाऊ। एए य अपज्जता उववाए चेव बोद्धव्वा ॥ ७० ॥ [नारकदेवाः तिर्यमनुष्या गर्भजा येऽसंख्येयवर्षायुषः । एते चापयोप्ता उपपात एव बोडव्याः ॥ ७० ॥] नारकाश्च देवाश्च नारकदेवास्तथा तिर्यमनुष्याः तिर्यञ्चश्च मनुष्याश्चेति विग्रहः गर्भजा गर्भव्युत्क्रान्तिकाः, संमूछिमव्यवच्छेदार्थमेतत् । ते च सङ्घयेयवर्षायुषोऽपि भवन्ति तद्वयवच्छेदार्थमाह । येऽसङ्घयेयवर्षायुष इति । एते चापर्याप्ता आहारशरीरेन्द्रियप्राणापानभाषामनःपर्याप्तिभी रहिता उपपात एव उत्पद्यमानावस्थायामेव बोद्धव्या विज्ञेया न तूत्तरकालं पर्याप्ता लब्धितोऽपीति सेसा उ तिरियमणुया लद्धिं पप्पोववायकाले य। उभओ विअभइअव्वा पज्जतियरेति जिणवयणं७१ [शेषास्तु तिर्यमनुष्या लब्धि प्राप्योपपातकाले च । उभयतोऽपि भाज्याः पर्याप्तरे इति जिनवचनम्॥७१॥] शेषास्तु तिर्यअनुष्याः संमूर्छनजाः सङ्खयेयवर्षायुषश्च गर्भजाः। किं लब्धि प्राप्य पर्याप्तकलब्धिमधिकृत्य उपपातकाले चोत्पद्यमानावस्थायां च । किं । उभयतोऽपि भाज्या विकल्पनीयाः पर्याप्तका इतरे वापयताकाः। एतदुक्तं भवति । लब्धितोऽपि पयोप्ता अपर्याप्तका अपि भवन्ति । उपपातावस्थायां त्वपर्याप्तका एव । इति जिनवचनं इत्येष आगम इति । व्याख्यातं पर्याप्तकद्वार तदनन्तरं शुक्लपाक्षिकद्वारमाह ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy