________________
सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं ।
र्शादिभिः । असमासकरणं धर्मादीनां त्रयाणामप्यमूर्तत्वेन भिन्नज्ञातीयख्यापनार्थम् । इत्येष गाथाक्षरार्थः । भावार्थस्तु धर्मादिग्रहणेन पदैकदेशेऽपि पदप्रयोगदर्शनाद्धर्मास्तिकायादयो गृह्यन्ते । स्वरूपं चैतेषां ।
५०
जीवानां पुद्गलानां च गत्युपष्टम्भकारणं । धर्मास्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा ॥ १ ॥ जीवानां पुद्गलानां च स्थित्युपष्टम्भकारणं । अधर्मः पुरुषस्येव तिष्ठासोरवनिस्समा ॥ २ ॥ जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः बादरापां घटो यद्वदाकाशमवकाशम् ॥ ३ ॥ स्पर्शरसगन्धवर्णशब्दा मूर्तस्वभावकाः । संघातभेद निष्पन्नाः पुद्गला जिनदेशिताः ॥ ४ ॥ इति कृतं विस्तरेण । उक्ता अजीवाः सांप्रतमास्रवद्वारमाह । कायवयमणोकिरियाजोगो सो आसवो सुहो सो अ । पुन्नस्स मुणेयो विवरीओ होइ पावस्स ॥ ७९ ॥ [ कायवाङ्मनः क्रियायोगः स आश्रवः शुभः स च । पुण्यस्य मुणितव्यो विपरीतो भवति पापस्य ॥ ७९ ॥ ] कायवाङ्मनःक्रियायोगः । क्रिया कर्म व्यापार इत्यनर्थान्तरं युज्यत इति योगः युज्यते वानेन करणभूतेनात्मा कर्मणेति योगो व्यापार एव स आस्रवः । आस्रवत्यनेन कर्मेत्यास्रवः सरःसलिला वाहिस्रोतोवत् । शुभः स चास्रवः पुण्यस्य मुणितव्यो विपरीतो भवति पापस्येति । आत्मनि कर्माणुप्रवेशमात्रहेतुरास्रव इति ।