SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १९७ भूतेषु प्राणिषु जंगमत्वं द्वीन्द्रियादित्वं तेष्वपि पञ्चेन्द्रियत्वमुस्कृष्टं प्रधानं तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यों देश उत्कृष्ट इति देसे कुलं पहाणं कुले पहाणे य जाइ उक्कोसा । तीइवि रूवसमिद्धी रूवे य बलं पहाणयरं ॥३५७॥ [देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा।. तस्यामपि रूपसमृद्विः रूपे च बलं प्रधानतरम् ॥३५॥] देशे आर्ये कुलं प्रधानं उग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः रूपे च सति बलं प्रधानतरं सामर्थ्य मिति होइ बले वि य जीयं जीए वि पहाणयं तु विन्नाणं । विनाणे सम्मतं सम्मते सीलसंपत्ती ॥३५॥ भवति बलेऽपि च जीवितं प्रधानतरमिति योगः, जीवितेऽपि च प्रधानतरं विज्ञानं विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति सीले खाइयभावो खाइयभावे य केवलं नाणं। केवलिए पडिपुन्ने पते परमरकरे मुक्खो ॥ ३५९ ॥ शीले क्षायिकभावः प्रधानः क्षायिकभावे च केवलज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्ष इति ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy