________________
चार्याः सततमाचर्याश्च ततो ऽविरतं विभवविराजितैर्विभागविरतैर्यावज्जीवं स्वान्ते स्मर्तव्याः ।
ग्रन्थेऽस्मिन्प्राङ्गमङ्गलाभिधेयाभिधानानन्तरं श्रावकशब्दो व्याख्यायत । तद्यथा-यः सम्यक्त्वादिधरो यश्च प्रतिदिनं साधुसमीपे समागत्य स्वकीयां सामाचारीमाकर्णनात्कर्णयोः पावयित्रीमाकर्णयति स श्रावक इति श्रवणविषयेणाभिधीयते । यतः श्राचकलक्षणे सम्यक्त्वं श्रावकाणुव्रतानि चायान्त्यतस्तत्स्वरूपमत्र यथाक्रममभिधाय सामाचारी कथिता । सम्यक्त्वस्वरूपकथनावसरे प्रसङ्गेन कर्माष्टकस्वरूपं तत्त्वविवरणं सम्यक्त्वातिचाराश्चाकथ्यन्त । अनन्तरं सम्यक्त्वोदयान्मानसी परिणतिः कायव्यापृतिश्च कीदृक्स्वरूपमवलम्बत इत्येतदभिदधे ।
द्वादशाणुव्रतसमर्थनावसरे च प्रथमस्य प्राणापातविरतिसमाख्यस्य तथा नवमस्य सामायिकनामधेयस्याणुव्रतस्यातीवप्रशस्यता प्रतिपादिता समुपलभ्यते । प्राणातिपातविरति - प्रतिपत्तिप्रतिपादनावसरे च प्रत्याख्यातिनिराकृतिवादिनां परकीयप्राणहृत्प्राणभृत्प्राणव्यपरोपणं न दुष्कृतिकृतिबन्धकं प्रत्युत श्रेयोनिबन्धनमिति विवदमानानां, एकान्ततो नित्योऽनित्यो वा जीव इति प्रतिपन्नानाम्, मोचकवाचकवाच्यानामज्ञानिनां मतानि तत्तद्युक्तिसमालम्बनेन समर्थ्य तत्खण्डनं सुखावबोधमकारि । अवसाने चाविरतिरेव कर्मबन्धहेतुत्वात्कर्मेत्युक्तम् । नवमे च सामायिकाख्याणुत्रते देशविरतानां त्रिविधत्रिविधप्रत्याख्यानाभावः कथमस्तीति सम्यक्प्रतिपादितम्। सामायिकं शश्वद्विधेयमिति प्रतिपाद्य