________________
१०८ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । शरीरस्य वधे घाते एवमुक्तन्यायाजीवानुवेधसिद्धौ, तस्य जीवस्य वधो भवति ज्ञातव्य इति । अधुना वधलक्षणमेवाह तप्पज्जायविणासो दुकुप्पाओ अ संकिलेसो य।
एस वहो जिणभणिओ. वज्जेयच्चो पयत्तेणं ॥१९१॥ [तत्पर्यायविनाशः दुःखोत्पादश्च संक्लेशश्च । एष वधो जिनभणितः वर्जयितव्यः प्रयत्नेन ॥१९१॥]
तत्पर्यायविनाशः मनुष्यादिजीवपर्यायविनाशः, दुःखोत्पादश्च व्यापाद्यमानस्य, चित्तसंक्लेशश्च क्लिष्टचित्तोत्पादश्चात्मनः एष वधो व्यस्तः समस्तो वा ओघतो जिनभणितः तीर्थकरोक्तो वर्जयितव्यः प्रयत्नेनोपयोगसारेणानुष्ठानेनेति ॥
इदानीमन्यद्वादस्थानकम् । अन्ने अकालमरणसभावओ वहनिवितिमो मोहा वंझासुअपिसियासणनिवितितुलं ववइसंति ॥१९२॥ [अन्येऽकालमरणस्याभावात् वधनिवृत्तिर्मोहात् । वंध्यासुतपिशिताशननिवृत्तितुल्यां व्यपदिशन्ति१९२]
अन्ये वादिनः स्वकृतकर्मफलं प्रत्युपभोगभावेन अकालमरणस्याभावाद्वधनिवृत्तिमेव मोहाद्धेतोर्वन्ध्यासुतपिशिताशननिवृत्तितुल्यां व्यपदिशन्ति। वन्ध्यासुतस्यैवाभावात्तत्पिशितस्याप्यभावः, पिशितं मांसमुच्यते, तदभावाच्च कुतस्तस्याशनं भक्षणं, असति