SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०४ सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं । एवं च विहरिऊणं दिक्खाभावंमि चरणमोहाओ । पत्तंमि चरमकाले करिज्ज कालं अहाकमसो ३७७ [ एवं च विहृत्य दीक्षाभावे चरणमोहात् । प्राप्ते चरमकाले कुर्यात्कालं यथाक्रमशः ॥ ३७७ ॥ ] एवं यथोक्तविधिना विहृत्य नियतानियतेषु क्षेत्रेषु कालं नीत्वा दीक्षाभाव इति प्रव्रज्याभावे सति चरणमोहादिति चारित्र - मोहनीयात्कर्मणः प्राप्ते चरमकाले क्षीणप्राये आयुषि सतीत्यर्थः कुर्यात्कालं यथाक्रमशो यथाक्रमेण परिकर्मादिनेति भणिया अपच्छिमा मारणंतिया वीयरागदोसेहिं । संलेहणाझोसणमो आराहणयं पवक्खामि ॥ ३७८ ॥ [ भणिता अपश्चिमा मारणान्तिकी वीतरागदोषैः । संलेखनाजोषणा आराधना तां प्रवक्ष्यामि ॥ ३७८ ॥ भणिता. चोक्ता च कैवीतरागद्वेषैरर्हद्भिरिति योगः का अपच्छिमा मारणान्तिकी संलेखना जोषणाराधनेति । पश्चिमवानिष्टाशयपरिहारायापश्चिमा मरणं प्राणपरित्यागलक्षणं इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते किं तर्हि सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बहुच - इति ठञ, संलिख्यतेऽनया शरीरकषायादीति संलेखना तपोविशेषलक्षणा तस्या जोषणं सेवनं मो इति निपातस्तत्कालश्लाध्यत्वप्रदर्शनार्थः तस्या आराधना अखण्डना कालस्य करणमित्यर्थः तां प्रवक्ष्यामीति । एत्थ सामायारी
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy