________________
१८८
सटीकश्रावकप्रज्ञघ्याख्यप्रकरणं ।
आह चोदकः कथं पुनर्मनसा करणं कारणमनुमतिश्चान्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वादनुपपत्तिरित्यभिप्रायः । गुरुराह । यथा वाक्तनुयोगाभ्यां करणादयः करणकारणानुमोदनानि तथा भवेद मनसापीति कथमित्याह ।
तयहीणता वयतणुकरणाईण अहवा उ मणकरणं । सावज्जजोगमणणं पन्नत्तं वीयरागेहिं ॥ ३३७ ॥ [ तद्धीनत्वात् वाक्तनुकरणादीनां अथवा तु मनःकरणं । सावद्ययोगमननं प्रज्ञप्तं वीतरागैः ॥ ३३७ ॥ ]
तदधीनत्वादिति मनोयोगाधीनत्वात् वाक्तनुकरणादीनां तेन ह्यालोच्य वाचा कायेन वा करोति कारयति चेत्यादि अभिसंधिमन्तरेण प्रायस्तदनुपपत्तेः । प्रकारान्तरं चाह । अथवा मनःकरणं किं सावद्ययोगमननं करोम्यहं एतदिति सपापव्यापारचिन्तनं प्रज्ञप्तं वीतरागैरिति ॥
कारवणं पुण मणसा चिंतेइ करेउ एस सावज्जं । चिंतेई य कए पुण सुट्ठकथं अणुमई होइ ॥ ३३४ ॥ [ कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यम् । चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति ॥ ३३८ ॥ ]
कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यं असावपि चेङ्गितज्ञोऽभिप्रायात्प्रवर्तत एव, चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति मानसी अभिप्रायज्ञो विजानात्यपीति ।
उक्तः प्रत्याख्यानविधिरधुना श्रावकस्यैव निवासादिविषयां सामाचारीं प्रतिपादयन्नाह ॥