________________
१३० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
नियमो न संभव इहावश्यता न संभव इहोच्यते यदुत यजातीय एको हतस्तज्जातीयाः सर्वे ऽपि हन्तव्या यज्जातीयस्तु न हतस्तजातीया न हन्तव्या एव किन्तु शक्तिमात्रमेव तजातीयेतरेषु व्यापादनशक्तिमात्रमेव संभवः । तत्कथं दोषो ऽनन्तरोदितो नैवेत्यभिप्राय इति एतदाशङ्कयाह ॥ सा येन कार्यगम्येति सा शक्तिर्यस्मात्कार्यगम्या वर्तते अतो दोष इति वधमन्तरेण तदपरिज्ञानात् सति च तस्मिन् किं तयेत्यभिहितमेवैतत् । अथ सा कार्यमन्तरेणाप्यभ्युपगम्यते इति एतदाशङ्कयाह । तदभावे कार्याभावे किं न शेषेषु सत्त्वेषु साभ्युपगम्यते तथा च सत्यविशेपत एव निवृत्तिसिद्धिरिति । स्यादेतन्न सर्वसत्त्वेषु सा अतो नाभ्युपगम्यत इति आह च
नारगदेवाईसुं असंभवा समयमाणसिद्धीओ।
इतु च्चिय तस्सिद्धी असुहासयवजणमदुट्ठा ॥२४३॥ [नारकदेवादिष्वसंभवात्समयमानसिद्धेः।
अत एव तत्सिद्धिः अशुभाशयवर्जनमदुष्टा ॥२४३॥]
नारकदेवादिष्वसंभवाद्व्यापादनशक्तेर्निरुपक्रमायुषस्त इति आदिशब्दादेवकुरुनिवास्यादिपरिग्रहः कुत एतदिति चेत् समयमानसिद्धेरागमप्रामाण्यादिति । एतदाशङ्कयाह । अत एव समयमानसिद्धेः तसिद्धिः सर्वप्राणातिपातनिवृत्तिसिद्धिः "सव्वं भंते पाणाइवायं पच्चक्खामि" इत्यादिवचनप्रामाण्याद् आगमस्याप्यविषयप्रवृतिर्दुष्टैवेति एतदाशङ्कयाह अशुभाशयवर्जनमिति