SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सटीकश्श्रावकप्रज्ञप्त्याख्यप्रकरणं । १११. कदाचिन्नेति क्षपकश्रेणिपरिणामादावन्यथापि भोगसिद्धेरन्यथा निर्मोक्षप्रसङ्गात् तेन कारणेन अवश्यानुभवे प्रदेशतया नियमवेदने के कृतनाशादयः नैव कृतनाशादय इति । किं च उदयक्खयक्खओवसमोवसमा जं च कंमुणो भणिया । दवा पंचयं पर जुत्तमुवक्कामणमओ वि ॥ १९७ ॥ [ उदयक्षपक्षयोपशमोपशमाः यच्च कर्मणो भणिताः । द्रव्यादिपंचकं प्रति युक्तमुपक्रामणमतोऽपि ॥ १९७ ॥] उदयक्षयक्षयोपशमोपशमाः यच्च यस्मात्कारणात्कर्मणो भणितास्तीर्थकरगणधरैः द्रव्यादिपञ्चक प्रति द्रव्यं क्षेत्रं कालं भवं भावं च प्रतीत्य यथा द्रव्यं माहिषं दधि क्षेत्रं जांगलं कालं प्रावृडुक्षणं भवमेकेन्द्रियादिकं भावमौदयादिकादिकमालस्यादिकं वा प्रतीत्योदयो निद्रावेदनीयस्य एवं व्यत्ययादिना क्षयादियोज - ना कार्या युक्तमुपक्रमणमतोऽपि अनेन कारणेन कर्मण उपक्रमो युज्यत इति इत्थं चैतदङ्गीकर्तव्यम् । अन्यथेदमनिष्टमापद्यते इति दर्शयन्नाह । जइ याणुभूइओ च्चिय खविज्जए कम्म नन्नहाणुमयं । तेणासंखभवज्जियनाणागइकारणत्तणओ ॥ १९४ ॥ [ यदि चानुभूतित एव क्षप्यते कर्म नान्यथा अनुमतम् । तेनासंख्यातभवार्जितनानागतिकारणत्वात् ॥ १९८ ॥ ] यदि चानुभूतित एव विपाकानुभवेनैव क्षप्यते कर्म नान्यथानुमतमुपक्रमद्वारेण तेन प्रकारेणासङ्ख्यातभवार्जितनानागतिकार
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy