SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ८० . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। सिय जीवजाइमहिगिच्चअस्थि किं तीइ अपडिकुट्ठाए। भूअगहणेवि एवं दोसो अणिवारणिज्जो ओ॥१२८॥ [स्थाजीवजातिमधिकृत्यास्ति किं तया अप्रतिकुष्टया । भूतग्रहणे ऽप्येवं दोषो ऽनिवारणीय एव ॥ १२८ ॥] स्याजीवजातिमधिकृत्यास्ति जात्यनुच्छेदः द्वयोरपि जीवत्वानुच्छेदादित्याशङ्कयाह किं तया जीवजात्या अप्रतिकुष्टया अनिषिद्धया न तेन जीवजातिवधविरतिः कृता येन सा चिन्त्यते ततश्च भूतग्रहणेऽप्येवमुक्तन्यायात् दोषोऽनिवारणीय एवेति, किंच॥ तसभूयावि तसच्चिय जं ता किं भूयसद्दगहणेणं । तब्भावओ अ सिद्धे हंत विसेसत्थभावम्मि ॥१२९॥ [सभूता अपि वसा एव यत्तत्किं भूतशब्दग्रहणेन । तद्भावत एव सिद्धे हंत विशेषार्थभावे ॥ १२९ ॥] त्रसभूता अपि वस्तुस्थित्या त्रसा एव नान्ये यद्यस्मादेवं तत्तस्मात्किं भूतशब्दग्रहणेन न किंचिदित्यर्थः तद्भावत एव त्रसभावत एव सिद्धे हन्त विशेषार्थभावे त्रसपर्यायलक्षणे, न हि त्रसपर्यायशून्यस्य त्रसत्वमिति ॥ किं च । थावरसंभारकडेण कम्मणा जं च थावरा भणिया। इयरेणं तु तसा खलु इतो च्चिय तेसि भेओउ॥१३०॥ स्थावरसंभारकृतेन कर्मणा यच्च स्थावरा भणिताः । इतरेण तु नसाः खलु अत एव तयोर्भेदः ॥ १३० ॥ ]
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy