Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * श्रीमरुतगरिविरयित श्रीनामाकशजायरितम् ] * RA हक्ष्वाकुभूमौ भरतेऽत्र पूर्व श्रीनाभिनामा कुलकृद् बभूव।. सवल्लभाऽभून्मरुदेवी तस्याः कुक्षौ जिन: श्री वृषभोऽवतीर्णः॥१५॥ अन्वयः- पूर्वमत्र भरते इक्ष्वाकुभूमौ श्रीनाभिनामा कुलकृद बभूवा तस्य मरुदेवी सवल्लभा आसीत्। तस्याः कुक्षौ श्रीवृषभ: जिन: अवतीर्णः॥१५॥ रणमः- पूर्व पुरातनकाले अत्र अस्मिन् भरते भरतक्षेत्रे इश्याको भूमिः इक्ष्वाकुभूमि: तस्यामिक्ष्याकुभूमौ श्रिया युत: नाभिः श्रीनाभिः। श्रीनाभिः नाम यस्य सः श्रीनाभिनामा। कुलं करोतीति कुलकृत कुलकरः बभूव / तस्य श्रीनाभे: कुलकरस्य मरुदेवी नाम सती चासौ वल्लभा च सवल्लभा सत्पत्नी अभूत् / तस्या:मरुदेव्याः कुक्षौ उदरे श्रिया युतः वृषभ: श्रीवृषभ: जिन: अवतीर्णः अवातरत् // सरलार्थ:- पुरा अस्मिन भरतक्षेत्रे इक्ष्वाकुभूमौ श्रीनाभिनामा कुलकर: बभूव / तस्य मरुदेवी नाम प्रिया पत्नी आसीत् / तस्याः उदरे श्रीवृषभ: जिन: अवातरत्॥१५॥ ગુજરાતી:- “પહેલાં આ ભરતક્ષેત્રમાં ઈશ્વાકુભૂમિને વિશે શ્રીનાભિ નામના કુલકર થયા, તેમને મરુદેવી નામની શ્રેષ્ઠ પત્ની હતી. તેમની કુણિએ શ્રી ઋષભદેવ જિનેન્દ્રનો જન્મ થયો.’ પા. "पहले इस भरतक्षेत्रमें इक्ष्वाकुभूमि पर श्रीनाभि नामके कुलकर हुए। उनकी मरुदेवी नामकी श्रेष्ठ पत्नी थी। उसकी कुक्षि से श्रीऋषभदेव जिनेन्द्र का जन्म हुआ।"||१५॥ . मराठी:- "पूर्वी या भरतक्षेत्रांत इक्ष्वाकुमीवर श्रीनाभि नावाचे कुलकर झाले. त्यांना मरुदेवी नावाची श्रेष्ठ पत्नी होती. तिच्या उदरातून श्री ऋषभदेव जिनेन्द्राचा जन्म झाला." English:- Once long back, in this Bharatshetra and in the kingdom of Ishvaku, there used to be a Kulkar (judge) named ShriNabhi. He had an eminent wife named Marudevi. Lord Rishebhdev Jinendra, 1st Tirthankar- the founder of a new age, was born from her womb." हिन्दी : English - judge than