Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतुजसूरिविरचित श्रीनामाकराजाचरितम् / निश्चित्येत्यवदद् भ्रातः। पातकात् श्वभ्रपातुकात्। न किं बिभेषि यद्देवद्रव्यभोगमपीच्छसि // 53 // अन्वयः- इति निश्चित्य स: अवदत् - भ्रात:! त्वं श्वभ्रपातुकात् पातकात् न बिभेषि किम्। यद् देवद्रव्यभोगमपि इच्छसि // 53 // विवरणम्:- इति एवमुपर्युक्तं निश्चित्य स: समुद्रः अवदत् अवोचत् हे भ्रातः। त्वं श्वभ्रे नरके पातयतीति पातुकं, तस्मात् श्वभ्रपातुकात् नरकपातुकात् पातकात् पापात् न बिभेषि किम्? यद् त्वं देवद्रव्यस्य अपि भोगं इच्छसि अभिलषसि॥५३॥ सरलार्थ:- इति अनन्तरोक्तं निश्चित्य स समुद्रः अवदत् - हे भ्रात:! त्वं नरकपातनसमर्थात् पापात् न बिभेषि किम्? यद् देवद्रव्यस्यापि भोगम् कर्तुमिच्छसि / / 5 / / ગુજરાતી :- એમ નિશ્ચય કરીને નાના ભાઈને કહ્યું કે - બન્યુ નરકાદિ ભયંકર ગતિમાં પાડનાર પાપથી શું ડરતો નથી કે જેથી દેવદ્રવ્યના પણ ઉપભોગની ઇચ્છા કરે છે. પડા हिन्दी :- ऐसा निश्चय कर के उसने छोटे भाई को कहा कि, "नरकादि भयंकर गति में गिरानेवाले पापसे भी क्या तू डरता नही है? कि जिससे तू देवद्रव्य का उपभोग करने की इच्छा करता है?"||५३|| मराठी :- असा निश्चय करून पाकट्या भावाला सांगितले, "नरकादि भयंकर गतिमध्ये ढकलणान्या पापापासून सुब्दा तुला भीती वाटत नाही? की जेणे करून देवद्रव्याच्या उपभोगाची इच्छा करतोस?"||५३|| English:- Having decided thus, he asks his brother, whether he feels afraid or not to experience the agonies of hell for having cherished the thought, for using God's money for his own personal desires. देवद्रव्येण यत्सौख्यं, यत्सौख्यं परदारतः। अनन्तानन्तदु:खाय, तत्सौख्यं जायते ध्रुवम् // 54 // अन्वयः- देवद्रव्येण यत् सौख्यं, परदारत: यत् सौख्यं तत् सौख्यंध्रुवम् अनन्तानन्तदु:खाय जायते भवति // 54 // PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust