________________
३२८ ]
[ पवयणसारो विशद्ध ज्ञान दर्शन स्वभावधारी परमात्म-द्रथ्य को आदि लेकर अमृतिकद्रव्यों के होते हैं। के अमूर्तिकगुण केवलज्ञान आदि होते हैं। इस तरह मूर्त और अमूर्त गुणों के लक्षण और सम्बन्ध जानने योग्य हैं ॥१३१॥
इस तरह ज्ञान आदि विशेष गुणों के भेद से द्रव्यों में भेद होता है, ऐसा कहते हुए दूसरे स्थल में दो गाथाएँ पूर्ण हुई।
अप मूर्तस्य पुद्गल द्रव्यस्य गुणान गृणाति
वण्णरसगंधफासा विज्जंते पुग्गलस्स सुहुमादो । पुढवीपरियंत्तस्स य सद्दो सो पोग्गलो चित्तो ॥१३२॥
वर्णरसगंधस्पर्शा विद्यन्ते पुद्गलस्य सूक्ष्मात् ।
पृथिवीपर्यन्तस्य च शब्दः स पुद्गलप्रिचत्रः ।।१३२।। इन्द्रियग्राह्याः किल स्पर्शरसगन्धवर्णास्तद्विषयत्वात, ते चेन्द्रियग्राह्यत्वव्यक्तिशक्तिवशात् गृह्यमाणा अगृह्यमाणाश्च आ एकद्रध्यात्मकसूक्ष्मपर्यायात्परमाणोः आ अनेकद्रव्यात्मकस्थूलपर्यायात्पृथियोस्कन्धाच्च सकलस्यापि पुद्गलस्याविशेषेण विशेषगुणत्वेन विद्यन्ते। ते च मूर्तत्वादेव शेषद्रव्याणामसंभवन्तः पुद्गलमधिगमयन्ति । शब्दस्यापोन्द्रियग्राह्यत्वाद्गुणत्वं न खल्वाशनीयं, तस्य वैचित्र्यप्रपञ्चितवैश्वरूपस्याप्यनेकद्रव्यात्मकपुद्गलपर्यायत्वेनाभ्युपगम्यमानत्वात् । गुणत्वे वा न तावदमूर्तद्रव्यगुणः शब्दः गुणगृणिनोरविभक्तप्रदेशत्वेनेकवेदनवेद्यत्वावमूर्तद्रव्यस्यापि श्रवणेन्द्रियविषयत्वापत्तेः । पर्यायलक्षणेनोत्खातगुणलक्षणत्वान्मर्तद्रव्यगुणोऽपि न भवति । पर्यायलक्षणं हि कायाचिकत्वं गुणलक्षणं तु नित्यत्वम् । ततः कादाचित्कत्वोत्खातनित्यत्वस्य न शब्दस्यास्ति गुणत्वम् । यत्तु तत्र नित्यत्वं तत्तदारम्भकपुद्गलानां तद्गुणानां च स्पर्शादीनामेव न शब्दपर्यायस्येति दृढतरं ग्राह्यम् । न ध पुद्गलपर्यायत्वे शब्दस्य पृथिवीस्कन्धस्येव स्पर्शनादीन्द्रियविषयत्वम् । अपां नाणेन्द्रियाविषयत्वात्, ज्योतिषो प्राणरसनेन्द्रियाविषयवात्, मरुतो घ्राणरसनचक्षुरिन्द्रियाविषयत्वाच्च । न चागन्धागन्धरसागन्धरसवर्णाः, एवमपज्योतिमारुतः, सर्वपुद्गलानां स्पर्शादिचतुष्कोपेतत्वाभ्युपगमात् । व्यक्तस्पर्शादिचतुष्कानां च चन्द्रकान्तारणियवानामारम्भकैरेव पुद्गलरव्यक्तगन्धाव्यक्तगन्धरसाव्यक्तगन्धरसवर्णानामपज्योतिरुदरमरुतामारम्भदर्शनात् । न च स्वचित्कस्यचित् गुणस्य व्यक्ताव्यक्तत्वं कावाचित्कपरिणामवैचित्र्यप्रत्ययं नित्यद्रव्यस्वभावप्रतिघाताय । ततोऽस्तु शब्दः पुद्गलपर्याय एवेति ॥१३॥