________________
३७० ]
[ पवयणसारो
अथ प्राणानां पौद्गलिककर्मकारणत्वमुन्मीलयतिपाणाबाधं जीवो मोहपदेसेहिं कुर्णादि जीवाणं । जदि सो हवदि हि बंधो णाणावरणादिकम्मे हि ॥ १४६ ॥ प्राणाबाधं जीवी मोहद्वेषाभ्यां करोति जीवयोः ।
यदि स भवति हि बन्धो ज्ञानावरणादिकर्मभिः ॥ १४६ ॥
प्राणहि तावज्जीवः कर्मफलमुपभुंक्ते, तदुपभुञ्जानो मोहप्रद्वेषाचाप्नोति ताभ्यां स्वजीवपरजीवयोः प्राणाबाधं विदधाति । तवा कदाचित्परस्य द्रव्यप्राणानाबाध्य कदाचिदनाबाध्य स्वस्य भावणानुपरतेन नाधमानो ज्ञानावरणादीनि कर्माणि बध्नाति । एवं प्राणाः पौद्गलिक कर्मकारणतामुपयान्ति ॥ १४६॥
भूमिका – अब, प्राणों के पौद्गलिक कर्म का कारणत्व प्रगट करते हैं
अन्वयार्थ – [ यदि ] यदि [ स जीवः ] वह (प्राण-संयुक्त ) जीव [ मोहप्रद्वेषाभ्यां ] मोह और द्वेष के द्वारा [ जीवयो: ] ( स्व तथा पर ) जीवों के ( प्राणाबाधं करोति ] प्राणों को बाधा पहुंचाते हैं, [हि ] तो निश्चय से ( ज्ञानावरणादिकर्मभिः बंध : ] ज्ञानावरणादिक कर्मों के द्वारा बंध [ भवति ] होता है ।
टीका-- पहले तो प्राणों से जीव कर्मफल को भोगता है, उसे भोगता हुआ मोह तथा द्वेष को प्राप्त होता है और उनसे स्वजीव तथा परजीव के प्राणों को बाधा पहुंचाता है । वहाँ कदाचित् दूसरे के द्रश्य प्राणों को बाधा पहुँचाकर और बाधा न पहुंचाकर, उपरक्तता (रागादिक रूप विकरिता ) से ( अवश्य ही ) अपने भाव प्राणों को बाधा पहुँचाता हुआ, जीव ज्ञानावरणादि कर्मों को बांधता है। इस प्रकार प्राण पौद्गलिक कर्मों के कारणत्व को प्राप्त होते हैं ।। १४६ ॥
तात्पर्यवृत्ति
अथ प्राणा नवतरपुद्गलकर्मबन्धस्य कारणं भवन्तीति पूर्वोक्तमेवार्थं विशेषेण समर्थयतिपाणाबाधं आयुरादिप्राणानां बाधां पीडां कुणदि करोति । स कः ? जीवो जीवः । काभ्यां कृत्वा ? मोहपदेसेहिं सकलविमलकेवलज्ञानप्रदीपेन मोहान्धकारविनाशकात्परमात्मनो विपरीताभ्यां । मोहप्रद्वेषाभ्यां । केषां प्राणवाधां करोति ? जीवाणं एकेन्द्रियप्रमुखजीवानाम् । जवि यदि चेत् सो हवदि बंधो तदा स्वात्मोपलम्भप्राप्तिरूपान्मोक्षाद्विपरीतो मूलोत्तरप्रकृत्यादिभेदभिन्नः स परमागमप्रसिद्धो हि स्फुटं बन्धो भवति । कः कृत्वा ? णाणावरणादिकम्मे हि ज्ञानावरणादिकर्मभिरिति । ततो ज्ञायते प्राणा पुद्गलकर्मबन्धकारणं भवन्तीति ।