________________
५६२ ]
[ पबयणसारो अथ शुभोपयोगिनामेवैवंविधाः प्रवृत्तयो भवन्तीति प्रतिपादयति
दसणणाणुवदेसो सिस्सग्गहणं च पोसणं तेसि । चरिया हि सरागाणं जिणिदपूजोवदेसो य ॥२४८।।
दर्शनज्ञानोपदेशः शिष्यग्रहणं च पोषणं तेषाम् ।
चर्या हि सरागाणां जिनेन्द्रपूजोपदेशश्च ।।२४८॥ अनुजिघृक्षापूर्वकदर्शनज्ञानोपदेशप्रवृत्तिः शिष्यसंग्रहणप्रवृत्तिस्तत्पोषणप्रवृत्तिजिनेन्द्रपूजोपदेशप्रवृत्तिश्च शुभोपयोगिनामेव भवन्ति न शुद्धोपयोगिनाम् ॥२४॥
भूमिका--अब, यह प्रतिपादन करते हैं कि शुमोपयोगियों के ही ऐसी प्रवृत्तियां होती हैं____ अन्वयार्थ- [दर्शनज्ञानोपदेशः ] सम्यग्दर्शन और सम्यग्ज्ञान का उपदेश, [शिष्यग्रहणं] शिष्यों का ग्रहण, [च] तथा [तेषाम् पोषणं] उनका पोषण [च] और [जिनेन्द्रपूजोपदेशः] जिनेन्द्र की पूजा का उपदेष्ण हि! वास्तव में [मगगाणां चर्या ] सरागियों को चर्या है।
टीका-अनुग्रह करने की इच्छापूर्वक दर्शनशान के उपदेश की प्रवृत्ति, शिष्यग्रहण की प्रवृत्ति, उनके पोषण को प्रवृत्ति और जिनेन्द्रपूजन के उपदेश को प्रवृत्ति, शुभोपयोगियों के ही होती है, शुद्धोपयोगियों के नहीं ॥२४॥
तात्पर्यवृत्ति अथ शुभोपयोगिनामेवेत्थंभूताः प्रवृत्तयो भवन्ति न च शुद्धोपयोगिनामिति प्ररूपयति;--
दसणणाणुवदेसो दर्शनं मूढनयादिरहितं सम्यक्त्वं ज्ञानं परमागमोपदेशः तयोरुपदेशो दर्शनज्ञानोपदेश: सिस्सग्गहणं च पोसणं तेसि रत्नत्रयाराधनाशिक्षाशीलानां शिष्याणां ग्रहणं स्वीकारस्तेषामेव पोषणमशनशयनादिचिन्ता चरिया हि सरागाणं इत्थंभूता चर्या चारित्रं भवति हि स्फुटं । केषां ? सरागाणां धर्मानुरागचारित्रसहितानाम् । न केवलमित्थंभूता चर्या जिणिदपूजोयसो य यथासम्भव जिनेन्द्रपूजादिधर्मोपदेशश्चेति । ननु शुभोपयोगिनामपि क्वापि काले शुद्धोपयोगभावना दृश्यते शुद्धोपयोगिनामपि क्वापि काले शुभोपयोगभावना दश्यते । श्रावकाणामपि सामाथिकादिकाले शुद्धभावना दश्यते तेषां कथं विशेषो भेदो ज्ञायत इति । परिहारमाह - युक्तमुक्त भवता परं किन्तु ये प्रचुरेण शुभोपयोगेन वर्तन्ते। ते यद्यपि क्वापि काले शुद्धोपयोगभावनां कुर्वन्ति तथापि शुभोपयोगिन एव भण्यन्ते। येऽपि शुद्धोपयोगिनस्ते यद्यपि क्वापि काले शुभोपयोगेन वर्तन्ते तथापि शुद्धोपयोगिन एव। कस्मात् ? बहुपदस्य प्रधानत्वादावनिम्बवनवदिति ॥२४८||
उत्थानिका-आग फिर भी कहते हैं कि शुभोपयोगी साधुओं को ऐसी प्रवृत्तियां होती हैं न कि शुद्धोपयोगी साधुओं की