________________
पवयणसारी ]
[ ४३१ तात्पर्यवत्ति अथ द्रव्यरूपपुण्यपापबन्धकारणत्वाच्छुभाशुभपरिणामयोः पुण्यपापसंज्ञां शुभाशुभरहितशुद्धोपयोगपरिणामस्य मोक्षकारणत्वं च कथयति
___ सुहपरिणामो पुण्ण द्रव्यपुण्यबपधकारणत्वाच्छुभपरिणामः पुण्यं भव्यते असुहो पावत्ति भणियं द्रव्यपापबन्धकारणत्वादशुभपरिणामः पापं भण्यते । केषु विषयेषु योऽसौ शुभाशुभपरिणाम: ? अण्णेसु निजशुद्धात्मनः सकाशादन्येषु शु'भाशुभबहिर्द्रव्येषु परिणामो णण्णगदो परिणामो नान्यगतोऽनन्यगत: स्वस्वरूपस्थ इत्यर्थः । स इत्थंभूतः शुद्धोपयोगलक्षणः परिणाम: दुक्खक्खयकारणं दुःखक्षयकारणं दुःखक्षयाभिधानमोक्षस्य कारणं भणितः । क्व भणितः ? समये परमागमे लब्धिकाले वा।
लिंच । मिथ्यादष्टिसासादनमिश्रगुणस्थानत्रये तारतम्येनाशुभपरिणामो भवतीति पूर्व भणितमस्ति, अविरतदेशविरतप्रमत्तसंयतसंज्ञगुणस्थानत्रये तारतम्येन शुभपरिणामएच भणित:, अप्रमत्तादिक्षीणकषायान्तगुणस्थानेषु तारतम्येन शुद्धोपयोगोऽपि भणितः। नयविवक्षायां मिथ्यादृष्टयादिक्षीणकषायान्तगुणस्थानेषु पुनरशुद्धनिश्चयनयो भवत्येव । तत्राशुद्धनिश्चयमध्ये शुद्धोपयोग: कथं लभ्यत इति शिष्येण पूर्वपक्षे कृते सति प्रत्युत्तरं ददाति--वस्त्वेकदेशपरीक्षा तावन्नयलक्षणं शुभाशुभशुद्धद्रव्यालम्बनमुपयोगलक्षणं । चेति तेन कारणेनाशुद्धनिश्चयमध्येऽपि शुद्धात्मावलम्बनत्वात् शुद्धध्येयत्वात् शुद्धसाधकत्वाच्च शुद्धोपयोगपरिणामो लभ्यत इति नयलक्षणमुपयोगलक्षणं च यथासम्भवं सर्वत्र ज्ञातव्यम् । अत्र' योसौ रागादिविकल्पोपाधिरहितसमाधिलक्षणशुद्धोपयोगो मुक्तिकारण भणित: स शुद्धात्मद्रव्यलक्षणाद्ध्येयभूताच्छुद्धपारिणामिकभावादभेदप्रधानद्रव्याथिकनयेनाभिन्नोऽपि भेदप्रधानपर्यायाथिकनयेन भिन्नः कस्मादिति चेत् ? अयमेकदेश निरावरणत्वेन क्षायोपशमिकखण्डज्ञानव्यक्तिरूप: स च पारिणामिकः सकलावरणरहितत्वेनाखण्डज्ञानव्यक्तिरूपः । अयं तु सादिसान्तत्वेन विनश्वरः, स च अनाद्यनन्तत्वेनाविनश्वरः। यदि पुनरेकान्तेनाभेदो भवति तहि घटोत्पत्तौ मृत्पिण्डविनाशवद् ध्यानपर्यायविनाशे मोक्षे जाते सति ध्येयरूपपारिणामिकस्यापि विनायो भवतीत्यर्थः । तत एव जायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानभावनारूपो न भवति । कस्मात् ? ध्यानस्य विनश्वरत्वा दिति ।।१८१॥
एवं द्रव्यबन्धकारणत्वात् मिथ्यात्वरागादिविकल्परूपो भावबन्ध एव निश्चयेन बन्ध इति कथनमुख्यतया गाथात्रयेण चतुर्थस्थलं गतम् ।।
उत्थानिका-आगे कहते हैं कि द्रव्य रूप पुण्य पाप बन्ध का कारण होने से शुभ अशुभ परिणामों को पुण्य पाप की संज्ञा है तथा शुभ अशुभ से रहित शुद्धोपयोगमय परिणाम मोक्ष का कारण है___अन्वय सहित विशेषार्थ-(अण्णेसु) अपने आत्मा से अन्य द्रव्यों में (सुहपरिणामो) शुभ रागरूप भाव (पुण्णं) द्रव्य पुण्य बन्ध का कारण होने से भाव पुण्य है (असुहो) व अशुभ रागरूप भाव (पावत्ति भणियं) द्रव्य पाप बन्ध का कारण होने से भाव पाप कहा है तथा (अणण्णगदो परिणामो) अन्य द्रव्य में नहीं रमता हुआ स्वस्वरूपस्थ शुद्धभाव