________________
४६६ ]
[ पवयणसारो आवश्यक, अचेलकत्त्व (नग्नता), अस्नान, भूमिशयन, अदंतधावन (वांतुन न करना), खड़े खड़े भोजन, और एकबार आहार लेना, इस प्रकार यह (अट्ठाईस) एक अभेद सामायिक संयम के विकल्प (भेद) होने से श्रमणों के मूलगुण ही हैं । जय श्रमण एक सामायिक संयम में आरूढता के कारण जिसमें भेवरूप आचरण सेवन नहीं है, ऐसी दशा से च्युत होता है, तब 'केवल सुवर्ण मात्र के अर्थी को कुण्डल, कंकण, अंगूठी आदि को ग्रहण करना (भी) श्रेय है, किन्तु ऐसा नहीं है कि (कुण्डल इत्यादि का ग्रहण कभी न करके) सर्वथा स्वर्ण को ही प्राप्ति परम हो श्रेष है ऐसा विचार करके यह मूलगुणों में भेवरूप से अपने को स्थापित करता हुआ अर्थात् मूलगुणों में भेद रूप से आचरण करता हुआ छेदोपस्थापक होता है ॥२०८-२०६॥
तात्पर्यवृत्ति अथ निर्विकल्पसामायिकसंयमे यदा च्युतो भवति तदा सविकल्पं छेदोपस्थापनचारित्रमारोहतीति प्रतिपादयति
वसमिदिवियरोधो अतानि च समितयश्चेन्द्रियरोधश्च व्रतसमितीन्द्रियरोधः । लोचावस्सयं लोचंश्चावश्यकानि च लोनावश्यकम् । "समाहारस्यकवचन" अचेलमण्हाणं खिदिसयणमदंतवणं ठिदिक्षायणमेयभत्तं च अचेलकास्नानक्षितिशयनादन्तधावनस्थितिभोजनकभक्तानि। एवे खलु मूलगुणा समणाणं जिनवरेहिं पण्णत्ता एते खलु स्फुटं अष्टाविंशतिमूलगुणाः श्रमणानां जिनवरैः प्रज्ञप्ताः तेसु पमत्तो समणो छेदोवट्ठावगो होदि लेषु मूलगुणेषु यदा प्रमत्तः च्युतो भवति । सः कः ? श्रमणस्तपोधनस्तदाकाले छेदोपस्थापको भवति । छेदे व्रतखण्डने सति पुनरप्युपस्थापकश्छेदोपस्थापक इति । तथाहि-निश्चयेन मूलमात्मा तस्य केवलज्ञानाद्यनन्तगुणा मुलगुणास्ते च निर्विकल्प-समाधिरूपेण परमसामायिकाभिधानेन निश्चयैकद्रतेन मोक्षबीजभूतेन मोक्षे जाते सति सवें प्रकटा भवन्ति । तेन कारणेन तदेव सामायिक मूलगुणव्यक्तिकारणत्वात् निश्चयमूलगुणो भवति । यदा पुनर्निर्विकल्पसमाधी समर्थो न भवत्ययं जीवस्तदा यथा कोऽपि सुवर्णार्थी पुरुष: सुवर्णमलभमानस्तत्पर्यायानपि कुण्डलादीन् ग्रह्णाति न च सर्वथा त्यागं करोति, तथायं जीवोऽपि निश्चयमूलगुणाभिधानपरमसमाध्यभावे छेदोपस्थापनं चारित्रं गृह्णाति । छेदे सत्युपस्थापन छेदोपस्थापनम् । अथवा छेदेन बतभेदेनोपस्थापनं छेदोपस्थापनम् । तच्च संक्षेपेण पंचमहाव्रतरूपं भवति । तेषां वतानां च रक्षणार्थ पंचसमित्यादिभेदेन पुनरष्टाविंशतिमूलगुणभेदा भवन्ति । तेषां च मुलगुणानां रक्षणार्थ द्वाविंशतिपरोषहजयद्वादश विधतपश्चरणभेदेन चतुस्त्रिशदुत्तरगुणा भवन्ति तेषां च रक्षणार्थं देवमनुष्यतिर्यगचेतनकृतचतुर्विधोपसर्गजयद्वादशानुप्रेक्षाभावनादयश्चेत्यभिप्रायः ।।२०८-२०६।।
एवं मूलोत्तरगुणकथनरूपेण द्वितीयस्थले सूत्रद्वयं गतम् ।
उत्थानिका—आगे कहते हैं कि जब अभेदरूप सामायिकसंयम में ठहरने को असमर्थ होकर साधु उससे गिरता है तब भेदरूप छेदोपस्थापनाचारित्र में जाता है