________________
मनायो: चेतना-शक्तिचैतन्ययोमेदपनान्वयं शक्ति: चेतना
___e६ व्यायालोके प्रथम: प्रकाश: * शासवार्तासमुच्चय-सांख्यसूत्र-विष्णुपुराण-योगशास्त्रवृतिसंवाद: *
'शक्तिरूपेण प्रत्येक भूतेषु सत्येव चेतना नोपलभ्यते' इति चेत् ? नन्वियं शक्तिश्चेतनातो भिन्नाऽभिन्ना वा ? आये चेतनाशक्त्योरसम्बन्धः,प्रत्येकं भूतानां तच्छक्तियोगित्वेऽपि चेतनायोगानुपपत्तिश्च । ___अन्त्ये इरीर इव तत्र तदुपलम्भप्रसङ्गः । ------------------भानुमती------------------ प्रत्येकं तेषु सर्वदा । उपलटोत सत्वादि-कठिनत्वादयो यथा ॥ (२/३५-३२)। यथोक्तं साइख्यसूत्रेऽपि - देहादिव्यतिरिक्तोऽसौ, वैचित्र्यात् (६/२)। विष्णुपुराणेऽपि - समस्तावयवेभ्यस्त्वं पृथम्भूय व्यवस्थितः । कोऽहमित्यत्र निपुणो भूत्वा चित्त्य पार्थिव ! ॥ (२/93/9e) इत्युक्तम् । योगशास्त्रवृत्तो अपि -> शरीरमेव चेत् कर्तृ, न कर्त तदचेतनम् । भूतचैतन्ययोगात् चेतनं तदसङ्गतम् ॥ मया दृष्टं श्रुतं स्पृष्टं घातमास्वादितं स्मृतम् । इत्येककर्तृकाभावात् भूतचिदवादिनः कथम् ॥ (प्र.२/गा.१९)
अथ शक्तिरूपेण = शक्त्यात्मना प्रत्येकं असङ्घातावस्थायां पृथिव्यादिषु भूतेषु सती = वर्तमाना एव, व्यक्तिरूपाक्रातस्यैव योग्यत्वादळ्यक्तरूपा सा चेतना नोपलभ्यते । न च शक्तिरूपेण सती चेतना अस न ह्यनुपलब्धिमागादेवाभाव: सिध्यति, किन्तु योग्यानुपलब्ध्या । न चात्र साऽस्तेि, तत्र तदूपावच्छिनायास्तस्था अयोग्यत्वादिति चेत् ?
प्रदर्शितं प्रत्टोकभतचैतन्यवादिमतमपाकर्त स्यादवादी काक्वा ब्रूते -> नन्वियं शक्ति: चेतनातो भिन्नाऽभिन्ना वा ? इति पक्षन्दयी प्रतिष्ठते । आधे = शक्तिचैतन्ययोर्भेदपक्षे चेतना-शक्त्योरसम्बन्ध: । न हि वि
ध्य- हिमाचलयोरिव सर्वथा भिन्नयो: चेतना-शक्त्योः सम्बन्धः सम्भवति । दोषान्तरमावेदयति -> प्रत्येक असड्यातदशायां भूतानां तच्छक्तियोगित्वेऽपि = चेतनाशक्तियोगित्वेऽपि चेतनायोगानुपपत्तिश्च = चैतव्यसम्बन्धासइतिश्च । न हि सर्वथा चेतनाभितनायाः शक्तेः प्रत्येकं भूतेषु सत्त्वे सिध्दे चैतन्यसत्वमापद्यते ।
अन्त्ये = चेतनाशक्त्योरभेदपक्षे शरीरे = सघातावस्थायां इव तत्र = प्रत्येकमसंहतावस्थायां भूतेषु तदुपलम्भप्रसङ्गः = चैतन्योपलब्ध्यापतिः । चैतन्याऽभिन्नशते: योग्यत्वे प्रागपि चैतन्योपलब्धिप्रसङ्गः, तदयोग्यत्वे तु पश्चादपि चेतनाजुपलब्धिप्रसङ्ग इति तात्पर्यम् । न च चेतनाया: स्वाभिव्यक्तिरूपा तज्जनकताख्या शक्तिः स्वरूपतो निर्विकल्पकविषयिण्यपि तदरूपेण सविकल्पगोचरेतरेति न दोष इति वाच्यम्, व्यक्तचेतनाया अप्युतरचेतनाजनकतया शक्तिरूपेणाऽयोग्यत्वप्रसङ्घात् । न च चेतनात्वेनैव सा योग्या न तु शक्तिरूपेणेति वाच्यम्, प्रत्येकदशायामपि चेतनात्वेन योग्यत्वापते: यदवा चेतनाया: चेतनाशून्यत्वापत्तेरिति व्यक्तं स्यादवादकल्पलतायाम् (स्त. " का. ३४) । तदक्तं स्यादवादरत्नाकरेऽपि -> 'नवशक्तिरूपता व्यक्तचैतन्याद व्यतिरिक्ताऽव्यतिरिक्ता वा ? व्यतिरेके परित्यक्तोऽभिव्यक्तिपक्षः, समुदितावस्थभूतेभ्य: शक्तिव्यतिरिक्तस्याऽपूर्वस्वास्प समुत्पतेः । अव्यतिरेर चैतन्यमेव, न काचिच्छक्ति म । तथा कथं तदानीमपि तदपलम्भो न भवेत् ?' <- (स्या. र. ७/११. पू. १०८६) इत्यादिकम् ।
नल प्रत्येकमसंहतावस्थायां भूतेषु अनभिव्यक्तत्वात् तदानीं तदनुपलम्भः = चेतनाजुपलब्धिः इति चेत् ?
दर्शितलोकायतिकाशहायां स्यादवादी पुनः काक्वा प्रत्युत्तरगति -> ननु केयमनभिव्यक्ति: १ अनुपलब्धिर्वाऽऽवरणं वा ? इति पक्षोभयी प्रत्यक्षीबोभवीति । आधे अनुपलब्धिरुपानभिव्यक्तिस्वीकारपक्षे 'कथं न प्रत्येकं भूतेषु चेतनोपलब्धि: ?' इति पर्यनुयोगे 'अनभिव्यक्तत्वातदनुपलंभ इत्येवं प्रत्युत्तरस्य 'अनुपलब्ध्या ------------------------------ --- ------
शठित३पे प्रत्येऽभूतभा येतनाना अस्तित्वनी विधारणा शक्ति.। अली भूतथैतन्यपाहीरथी म वामां आवे छ -> येतना प्रत्ये असंत भूतमा राखे छे. ५ અસંહત = સ્વતંત્ર ભૂતમાં તે શક્તિરૂપે = અવ્યક્તરૂપે રહે છે. આથી અસંહત અવસ્થામાં ભૂત સાથે ઇન્દ્રિયસન્નિકર્ષ થવા છતાં તેમાં ચેતનાના સાક્ષાત્કારની આપત્તિને અવકાશ નથી રહેતો. વ્યક્ત ચૈતન્ય જ સાક્ષાત્કારયોગ્ય છે, જે ભૂતપદાર્થોના સમુદાયમાં જ હોય છે. <- પરંતુ આ વાત વ્યાજબી નથી, કારણ કે અમારો અહીં પ્રશ્ન એ છે કે પ્રત્યેક ભૂતમાં ચેતના જે શક્તિરૂપે રહેલી છે, તે શક્તિ શું છે ? આ શક્તિ ચેતનાથી ભિન્ન છે કે અભિન્ન છે ? એ પ્રથમ વિકલ્પ સ્વીકારીને એમ કહેવામાં આવે કે – શક્તિ ચેતનાથી ભિન્ન છે, <– તો તે અસંગત છે, કારણ કે ચેતનાને શક્તિથી સર્વથા ભિન્ન માનવામાં આવે તો ચેતના અને શક્તિનો સંબંધ જ નહીં થઈ શકે. વિંધ્યાચલ અને હિમાચલ બન્ને પરસ્પર સર્વથા ભિન્ન છે તો પરસ્પરથી અસંબદ્ધ છે. તે જ રીતે ચેતના અને શક્તિ પરસ્પર સર્વથા ભિન્ન હોય તો પરસ્પર અસંબદ્ધ જ રહેશે. વળી, બીજી વાત એ છે કે ચૈતન્યને શક્તિથી એકાંતે ભિન્ન માનવામાં આવે તો પ્રત્યેક ભૂતપદાર્થમાં ચેતનાશક્તિનો સંસર્ગ હોવા છતાં તેનાથી પ્રત્યેક ભૂતમાં ચૈતન્યનો યોગ = સંબંધ સિદ્ધ થઇ ના શકે. તથા ચેતના અને શક્તિ વચ્ચે એકાંતે અભેદ માનવામાં આવે તો શરીરમાં જેમ ચેતના ઉપલબ્ધ થાય છે તેમ પ્રત્યેક ભૂતપદાર્થમાં પણ ચેતનાનો સાક્ષાત્કાર થવાની આપત્તિ આવશે, કેમ કે પૂર્વોત્તરકાલીન ચૈતન્ય તો સમાન જ છે.