Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 276
________________ * चाक्षुषं प्रति चक्षुः संयोगकारणतानिराकरणम् दूरासन्नतिमिररोगावयविन उपलम्भप्रसङ्गात् । अत्यन्ताऽऽसत्त्यभावस्यापि सहकारित्वे चाधिष्ठानसंयु-काञ्जनशलाकाया अप्यप्रत्यक्षत्वप्रसङ्गात् । अग्रावच्छेदेन चक्षुःसंयोगस्य हेतुत्वेऽप्युदीचीं प्रति व्यापारितनेत्रस्य काञ्चनोचलोपलम्भप्रसङ्गात् दूरत्वेन नेत्रगतिप्रतिबन्धकत्वे च शशधरस्याऽप्यनवलोकनप्रसङ्गात्, तदभीषुभिरिव तिग्मकराभ्युभिरपि तदभिवृद्धेश्वाऽविशेषात्, भानुमती - ------ २५३ = वसत्वेऽप्युद्भूतरूपस्याभावादिति वाच्यम्, तथापि समाकलितसकलनेत्रगोलकस्य = समाच्छादिकृत्स्नाकृष्णसारस्य दूरासन्नतिमिररोगावयविन: दूरदर्शनप्रतिबन्धकद्दूरतिमिराभिधान-समीपस्थसाक्षात्कारविघातकाऽऽसनतिमिराख्यगद्ग्रस्तावयविन: उपलम्भप्रसङ्गात् चाक्षुषापतेः दुर्वारत्वात्, यतः तिमिररोगस्योद्भूतरूपवत्वमबाधितं, अन्यथा सम्पूर्णनयनगोलकच्छादकत्वानुपपतेः । अत एव तस्य महत्वेऽप्यविवाद: । 'अवयवे' पदोपादानादपि तज्ज्ञायत एव । तस्य चक्षुः सन्निकृष्टत्वमपि स्पष्टमेव, अन्यथा सकलनेत्रगोलकव्यापकत्वानुपपतेः । किञ्च सामानाधिकरण्यसम्बन्धेन महत्वविशिष्टोद्भूतरूपवत्वस्य सहकारित्वे विशेषणविशेष्यभावे विनिगमनाविरहोऽपि दुर्वारः । न च पाकेन रूपनाशक्षणेऽपि घटादिचाक्षुषोत्पतिरेव सामानाधिकरण्येनोद्भूतरूपविशिष्ट महत्वस्यैव हेतुत्वे विनिगमिकेति वाच्यम्, तत्र रूपनाशक्षण एव चाक्षुषं न तु तदुतरोपजायमान रूपोत्तरमित्यस्य कोशपानप्रत्यायनीयत्वात् । न च महत्वोद्भूतरूपयो: पृथगेवाऽस्तु कारणता, उद्भूतरूपजन्यतावच्छेदकं द्रव्यचाक्षुषत्वमेव, महत्वजन्यतावच्छेदकस जन्यसाक्षात्कारत्वमेव, अत एवात्मसाक्षात्कार एवात्मनि महत्वे मानमिति वक्तव्यम् तथापि चक्षुर्गोलकपरिकलिता अनाद्यनुपलब्धेर्दुर्वारत्वादिति व्यक्तं स्यादवादरहस्ये' । नाय अथात्यन्तसामीप्यस्य प्रतिबन्धकत्वाज्ञायं दोष इति चेत् ? न, प्राप्यकारित्वपक्षे सर्वेषामेव चाक्षुषविषयाणामत्यासात्वात् । न चात्यासत्यभाव: चक्षुर्गोलक - विषयोरत्र सम्मत इति वाच्यम्, नादृशस्य अत्यन्तासत्यभावस्यापि प्रतिबन्धकाभावविधया सहकारित्वे च = हि अधिष्ठानसंयुक्ताऽअनशलाकाया: = चक्षुगलकसंयुक्ता अनशलाकाया अपि अप्रत्यक्षत्वप्रसङ्गात् = चाक्षुषत्वानापतेः । न च नयनरश्रागभागावच्छेदेन चक्षुर्विषयसंयोगस्य हेतुत्वाला अनादिप्रत्यक्षापतिर्न वा चक्षुर्गोलकसंयुक्ता अनशलाकाया चाक्षुषत्वानापतिः, ननयनगोलकपरिकलिता अनादावगावच्छेदेन चक्षुः संयोगस्य विरहात्, अधिष्ठानसंयुक्ता अनशलाकायामग्रा उच्छेदेन च चक्षुःसंयोगस्य सत्वादिति नैयायिकेन वक्तव्यम्, लौकिकविषयतया चाक्षुषं प्रति अग्रावच्छेदेन = नरश्म्यग्रभागावच्छेन्नस्य चक्षुः संयोगस्य = चक्षुर्विषयसंयोगस्य हेतुत्वेऽपि उदीचीं = उत्तरां दिशं प्रति व्यापारितनेत्रस्य इह स्थितस्य पुरुषादेः काञ्चनाचलोपलम्भप्रसङ्गात् = उत्तरदिवस्थमेरुगिरिचाक्षुषाप े:, अग्रावच्छेदेन चक्षुः संयोगस्य पर्वताधिराजे सत्वात् । न च चक्षुर्गतिं प्रति अतिदूरत्वेन प्रतिबन्धकत्वाभ्युपगमाडा सुवर्ण= हि गिरिचाक्षुषप्रसङ्ग, ता नयनसंयोगस्यैवाऽसत्वादिति वक्तव्यम्, दूरत्वेन नेत्रगतिप्रतिबन्धकत्वे च शशधरस्यापि = शशिलोऽपि अतिदूरत्वेन चक्षुर्गतिप्रतिबन्धकतया अनवलोकनप्रसङ्गात् = चाक्षुषत्वानापतेः । न चातिदूरत्वस्य नेत्रगतिप्रतिबन्धकत्वेऽपि स्वतः प्रकाशकस्य चन्द्रमसः किरणानामुतेजकतया चक्षुः किरणाभिवृध्देश्चन्दमसश्चाक्षुषमनाविलमेव, तदानीमालोकासंयुक्तत्वेन कनकाचलाचाक्षुषोपपतेरित्यारेक णीयम्; एवं सति मध्याह्नकालादौ मेरुचाक्षुषापतिः पुनरपि प्रत्यावर्तते तदभीषुभिः = चन्द्रकिरणैः इव तिग्मकराभीषुभिरपि = सूर्यकिरणैरपि तदभिवृध्देः नायनरश्म्यभिवृद्धेः च = हि अविशेषात् । न च तिग्मत्वेत सूर्याशूनां को ————— = છે. આથી અત્યંત સામીપ્સવિરહ પણ દ્રવ્યચાક્ષુષ પ્રત્યે પ્રતિબંધકાભાવવિધયા સહકારીકારણ છે. દૂરતિમિર, અસન્નતિમિર નયનગત અંજન, જેને કમળો થયેલ છે તેની આંખમાં રહેલ પિત્ત દ્રવ્ય વગેરે આંખની અત્યંત નજીક હોવાથી તે બધાનું ચાક્ષુષ પ્રત્યક્ષ થવાની આપત્તિને અવકાશ નથી. <— તો તે બરાબર નથી, કારણ કે ચક્ષુગોલક અને વિષય વચ્ચે અત્યંત નજીકપણાના અભાવને દ્રવ્યવિષયક ચાક્ષુષમાં પ્રતિબંધકાભાવસ્વરૂપે સહકારી માનવામાં આવે તો આંખના ડોળા સાથે જે અંજનની સળી સંયુક્ત છે તેનું પણ ચાક્ષુષ પ્રત્યક્ષ નહિ થઈ શકે, કારણ કે અંજનની સળીમાં અત્યંત આસત્તિ સ્વરૂપ પ્રતિબંધક હાજર છે. * अग्रावरछेहेन यक्षुसंयोगनी राता व्यलियारग्रस्त - ઞપ્રા.। તૈયાયિક તરફથી જો એમ કહેવામાં આવે કે —> અગ્રભાગઅવચ્છેદેન ચક્ષુસંયોગ દ્રવ્યચાક્ષુષનું કાર ગ છે. માટે આંખના ડોળામાં રહેલ દૂરતિમિર, આસન્નતિમિર, પિત્તદ્રવ્ય, અંજન, મેલ વગેરેનું ચાક્ષુષ પ્રત્યક્ષ થવાની આપત્તિને કોઈ અવકાશ રહેતો નથી, કારણ કે દૂતિમિર વગેરેમાં મૂલઅવચ્છેદેન ચક્ષુસંયોગ છે, અગ્રાવચ્છેદેન ચક્ષુસંયોગ નથી. તથા આંખના ડોળા સાથે સંયુક્ત અંજનસળીનું ચાક્ષુષ પ્રત્યક્ષ થવામાં કોઈ વાંધો નથી, કારણ કે અંજનની સળી સાથે ચક્ષુરશ્મિનો અગ્રભાગાવચ્છેદેન સંયોગ રહેલો છે. કારણ હોવાથી કાર્ય ઉત્પન્ન થવામાં વાંધો નથી. <← તો તે પણ નિરર્થક છે, કારણ કે આવું માનવામાં આવે તો જે વ્યક્તિએ १. सुमो स्याद्वाहरहस्य (मध्यम) प्रथमानं ४.

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366