________________
२९६ न्यायालोके व्दितीय: प्रकाश:
चिन्तामणिकारमतमीमांसा *
अस्तु तर्हि अभावाभावोऽप्यतिरिक्त एव, तृतीयाभावादेः प्रथमाभावादिरूपत्वेनाऽनवस्थापरिहारादिति चेत् ? तर्हि अभावेष्वेकधर्मकल्पनाऽपेक्षयाऽधिकरणेषु कथश्चिदेकत्वमेव कल्प्यतां लाघवात् ।
नैयायिक आह - अस्तु तर्हि अभावाभावोऽपि = घटाद्यभावप्रतियोगिकाभावोऽपि अतिरिक्त: = प्रथमाभावप्रतियोगिघटादिभिन्न एव । ततश्च नानुगतबुदि-व्यवहारानुपपत्तिप्रसङ्गः । न चैवमपि घटशून्ये घटाभावाभावो नास्ती'त्यादिपतीत्या तृतीयाद्यभावकल्पनयाऽनवस्था दुष्परिहार्येति वक्तव्यम्, तृतीयाभावादेः = घटाभावाभावाभावादेः प्रथमाभावादिरूपत्वेन = घटाभावादिस्वरूपत्वेन अनवस्थापरिहारात, तृतीयाभाव-पश्चमाभावसयमाभावादेः प्रथमाभावस्वरूपत्वात् चतुर्थाभाव-षष्ठाभावाऽष्टमाभावादेः व्दितीयाभावात्मकत्वादिति चेत् ?
स्यादवादी प्रत्युत्तरयति -> तर्हि अनन्तानां घटपटाद्यभावानां घटाभावाभाव-पटाभावाभावादीनामतिरिक्तानां कल्पनेऽपि तद्वत्तरं अभावेषु = घटाद्यभावेषु एकधर्मकल्पनाऽपेक्षया = अवश्यमभावत्वस्य कल्पनीयत्वे तदपेक्षया क्लोष अधिकरणेषु कश्चिदेकत्वं = अभावत्वपरिणाम एव कल्प्यतां = अनुमीयतां लाघवात् = 'धर्मिकल्पनाऽपेक्षया धर्मकल्पना लघीयसी'ति वचनात, तथानुभवाच्च । न हि 'अयमभाव'इति स्वातन्त्र्येण कस्याऽप्यनुभवोऽस्ति कित्त्वधिकरणस्वरूपमेव तत्तदारोप-ततत्प्रतियोगिग्रहादिमहिम्ना ततदभावत्वेनानुभूयते ।
अथ तदभावलौकिकप्रत्यक्षे तदविषयकज्ञानस्य हेतुत्वात् न स्वातळयेणाऽभावभानम्, अन्यप्रतियोगिकत्वेनान्याभावभानं तु नेष्यते, 'प्रमेयत्वं नास्ति', 'प्रमेयो न' इत्यादौ संयोगाद्यवच्छिन्नप्रमेयत्वाभाव: स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकत्वेन तत्तत्प्रमेयभेद एव च प्रमेयत्वावच्छिन्नप्रतियोगिताकत्वेन प्रतिभासते । न च तथापि तदधटाऽज्ञानोऽपि घटान्तरज्ञानात् घटाभावप्रत्यक्ष समनियताभावस्यैक्ये एकधर्मावच्छिनाऽज्ञानेऽन्यधर्मावच्छिन्नज्ञानेऽपि तदभावप्रत्यक्ष व्यभिचार: तदभावप्रत्यक्षे तदभावज्ञानत्वेन हेतुत्वादिति न दोष इति चेत् ? न, द्रव्यत्वादिना तदभावाभावज्ञानेऽपि तदभावाऽप्रत्यक्षात् ।
तदभावप्रतियोगितावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वे तु कम्बुग्रीवादिमत्वस्य गुरुधर्मतया प्रतियोगितानवच्छेदकत्वेन 'कम्बुग्रीवादिमान् न' इति प्रत्यक्षाऽनापत्तेः, तम:प्रत्यक्षे व्यभिचारात्, अभावे प्रतियोगितया घटादिबाधानन्तरं 'न' इत्याकारकप्रत्यक्षापतेश्च । बदरादौ कुण्डसंयोगादिधीकाले कुण्डाद्यभावधीवदभावे प्रतियोगितासम्बन्धावच्छिन्नप्रतियोगितया घटवैशिष्ट्यधीकालेऽपि प्रतियोगितासामान्येन तदभावधीसम्भवात् ।
अपि चैतादृशानन्तप्रतियोगिज्ञानानामिन्द्रियसम्बन्दविशेषणता-रूपाऽऽलोकादीनां पृथगनन्त-हेतुहेतुमद्भावकल्पनापेक्षया लाघवादधिकरणस्यैव घटाभाववत्वेन गहे क्लप्पविशिष्टवैशिष्ट्यबोधस्थलीयमर्यादया निर्वाहः किं न कल्प्यते ? अधिकरणस्वरूपाभावमात्रग्रहे इष्टापत्ते:, अभावत्वस्य च सप्रतियोगिकत्वेन प्रतियोगिग्रहं विनाऽग्रहात्, 'भावाऽभावरूपं जगदि'त्युपदेशसहकृतेन्द्रिोण पद्मरागत्वग्रहवत् तदाहेऽपीष्टापतेर्वा ।
ઘટત્વસ્વરૂપ માનવામાં આવે તો ઘટત્વાદિનું ભાન ઘટાભાવસ્વરૂપ પ્રતિયોગિજ્ઞાન વિના થઈ નહિ શકે, કારણ કે અભાવપ્રત્યક્ષમાં યોગ્યધર્માવછિન્ન પ્રતિયોગીનું જ્ઞાન કારાગ હોય છે. જો આવો કાર્યકારણભાવ સ્વીકારવામાં ન આવે તો અભાવત્વના નિર્વિકલ્પ પ્રત્યક્ષની આપત્તિ આવશે. પરંતુ અભાવત્વનું નિ: ૫ પ્રત્યક્ષ અનુભવ અને તૈયાયિકસિદ્ધાંત - બન્નેની વિરુદ્ધ છે.
* अलावाभावने अतिरित भानवाभां गौरव - न * अस्तु.। ये 34रोत आपत्तिना परिवार माटे नेयाय सेम -> तो पछी अमे मनापानाने प्रथम अनाना ભાવાત્મક પ્રતિયોગીસ્વરૂપ માનવાના બદલે અતિરિકત અભાવસ્વરૂપ જ માનશું, કારણ કે અભાવાભાવને પ્રતિયોગીથી ભિન્ન માનવામાં વિભિન્ન અભાવની કલ્પનામાં જે અનવસ્થા દોષ આવે છે, તેનો પરિવાર તૃતીય અભાવને પ્રથમઅભાવસ્વરૂપ માનીને થઈ શકે છે. અર્થાત્ ઘટાભાવાભાવ ઘટાત્મક નથી પરંતુ અતિરિક્ત છે. તથા ઘટાભાવાભાવાભાવ તો ઘટાભાવાત્મક જ છે કે જે સર્વત્ર અનુગત હોવાથી અનુગત બુદ્ધિ અને વ્યવહારના નિયામક બની શકે છે. <– તો તે પણ યુક્ત નથી, કારણ કે છતાં પણ પ્રથમ ઘટાભાવ વગેરે અનંતા અભાવ તેમ જ તેમાં અભાવત્વ, ભાવભિન્નત્વ, અધિકરણસંબંધ વગેરેની કલ્પના કરવામાં અધિક ગૌરવ છે. તેના બદલે અવશ્યસ્વીકાર્ય પ્રમાણાન્તરસિદ્ધ ભૂતલ વગેરે અધિકરણોમાં જ અભાવત્વસ્વરૂપ માત્ર એક ધર્મની કલ્પના કરવામાં જ લાઘવ છે, કારણ કે અધિકરણોમાં અભાવત્વાત્મક પર્યાય અનુભવસિદ્ધ છે.