Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 343
________________ ३२० न्यायालोके तृतीयः प्रकाशः ***षद्रव्यविभागव्यवस्थोपपादनम् तृतीयः प्रकाशः अथ किंस्वरूपो भावः ? इति चेत्; द्रव्यपर्यायोभयात्मा । तत्र द्रव्याणि धर्माधर्माकाशकालजीवपुद्गलभेदात् षोढा । तत्र गतिलक्षणो धर्मास्तिकायः । प्रमाणञ्च तत्र - गतिपरिणतयोर्जीव - पुद्गलयोरलोके गमनविरहान्यथाऽनुपपत्तिरेव । भानुमती -. विधिनिषेधरूपत्वे, प्रमेयस्य विनिश्चिते । व्याख्यातो हि निषेधांशो विध्यंशोऽत्र निरूप्यते ॥१॥ उपोद्घात. सङ्गतिमाविष्करोति > अथेति । वस्तुनि किंस्वरूपः = किंलक्षण: भावः = विध्यंश: ? इति चेत्, उच्यते स्यादवादिभिः द्रव्यपर्यायोभयात्मा । तत्र = 'द्रव्यपर्यायोभयात्मके प्रमेये द्रव्याणि धर्माऽधर्माऽऽकाशकाल- जीव- पुद्गलभेदात् स्यादवादिमते षोढा । अत्र यद्यपि उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण 'धूमतान् वह्निमान्' इत्यादी विधेयस्य व्यापकत्वलाभो दृष्टः तथापि अत्र धर्मत्वादिना तदसम्भवादविधेयतासमव्याप्तरूपेण व्यापकत्वं संसगंतया लभ्यत इति धर्माधत्यतमत्वादिना व्यापकत्वलाभ इत्येके । तदसत्, 'द्रव्यं गुण-कर्माल्यत्वविशिष्टसत्तावत्' इत्यत्र द्रव्यान्यत्वविशिष्टसतात्वेन व्यापकतालाभप्रसङ्गात्, विधेयतावच्छेदकतावच्छेन्नसमव्यापकतावच्छेदकधर्माव चन्नव्यापकत्वस्य संसर्गत्वे बाधात् । न हि धर्माद्यन्यतमत्वं धर्मत्वाद्यवच्छिन्न- समव्यापकतावच्छेदकम् । विधेयतावत्समव्यापकतावच्छेदकरूपार्वाच्छेन्नव्यापकत्वस्य तथात्वे तु वन्यादेः द्रव्यत्वादिना व्यापकत्वलाभप्रसङ्गात् । अथ विध्यतावच्छेदकातिरिक्तधर्मानवच्छिन्ना व्यापकता ग्राह्येति नातिप्रसङ्गो न वा वह्निभिन्नभेदादिना व्यापकत्वलाभप्रसङ्गः गुरोरावच्छेदकत्वादिति चेत् ? न, एवं सति प्रकृते विधेयान्वयितावच्छेदकसंसर्गस्य बाधात्, तत्र समव्यापकताया द्रव्यत्वाद्यतिरिक्तावच्छिन्नत्वात्, 'सत् द्रव्यं संयोगी 'त्यादौ संयोगादे: द्रव्यत्वादिना व्यापकत्वलाभप्रसङ्गाच्च । एतेन विधेयतावच्छिन्नसमव्यापकतागृहे नातिप्रसङ्गो, लघुवहित्वोदेरेवावच्छेदकत्वेऽपि विधेयतायां पारिभाषिकावच्छेदकत्वानपायात् । न चैवं गौरवं समव्यापकतावच्छेदकत्वेनोपलक्षणीभूतेनैव ततद्धर्मानुगमादि' त्यप्यपारुऩम्, तादृशधर्मे विधेयतासमानाधिकरणत्वविशेषणेऽपि संयोगादेर्गुणत्वाद्यर्वाच्छेन्न-व्यापकतालाभप्रसङ्गात् । विध्यत्वाभाववदवृतितादृशधर्मोपादानेऽपि संयोगरूपयोन्यतरत्वेन विधेयत्वे संयोगत्वेन व्यापकत्वलाभप्रसङ्गाच्च । 'सर्वत्र विभागवाक्ये चरमपदे तावदन्यतमत्वेन लक्षणा स्वीकार्या, धर्मादिपदानां तु तात्पर्यग्राहकत्वान वैयर्थ्यम्' इत्यादि न युक्तम्, प्रथमादिपदेष्वपि तत्स्वीकारसम्भवेन विनिगमनाविरहात् । तस्मात् 'चित्रगुः' इत्यादाविव सर्वेषामेव लक्षकत्वमित्यपरे । 'अन्यतमत्व एव लक्षणा, धर्मादीनां तु तदेकदेशे भेदे प्रतियोगितयाऽन्तय इत्यन्ये । वस्तुतो भेदें एवास्तु लक्षणा, लाघवात् । तस्य च धर्मादिभिः समं स्वयञ्च त्रिधान्वयो व्युत्पतिवैचित्र्यादित्यधिकं स्यादवादरहस्ये ऽस्मत्कृततट्टीकायाञ्चावगन्तव्यम् । प्रमाणञ्चात्र कइ णं भंते दव्वा पण्णता ? गोयमा ! छ दव्वा पण्णत्ता । तं जहा धम्मत्थिकाए, अधम्मत्थेिकाए, आगासत्थिकाए, पुग्मलत्थेिकाए, जीवत्थेकाए, अदासमए यति' (व्या. प्र. ) इति व्याख्याप्रज्ञप्तिप्रभुतिवचनानि । तत्र = षविधद्रव्येषु मध्ये गतिलक्षणो धर्मास्तिकाय: । अस्तिपदेन प्रदेशा: कायपदेन च तत्समूहः प्रतिपाद्यत इति सम्प्रदायः । न च घटादावतिप्रसङ्ग इति शङ्कनीयम्, स्वयं गतिरहितत्वे सति परद्रव्यगतिसहायकत्वस्यैव तल्लक्षणत्वात् । न च तथापि हस्तसंयोगादावतिव्याप्तिर्दुवरिति वक्तव्यम्, द्रव्यत्वे सति गतिसमवायिकारणभिन्नत्वे सति गतिनिमित्तकारणत्वस्यैव धर्मलक्षणत्वेनाभिमतत्वात् । न च हस्त-दण्डादिनैव परद्रव्यगत्युपपतौ तां प्रति धर्मस्यान्यथासिद्धत्वमाशङ्कनीयम्, हस्तत्वादिना तत्वेऽननुगमात् लाघवेनाऽनुगतकारणताश्रयविधयैव तत्सिद्धेः । प्रमाणञ्च तत्र = धर्मास्तिकाये -> गतिपरिणतयोः जीव- पुद्गलयो: अलोके = अलोकाभिधानाकाशे गमनविरहान्यथानुपपत्तिरेव = गत्यभावस्य धर्मविरहेऽसङ्गतिरेव । तदुक्तं नियमसारे जीवाणं पुग्लाणं प्रीतिधायिनी (गुर्नव्याज्या) अथ । ज्ञानविषयीभूत पार्थ विधि निषेधात्मा छे. निषेधांश अभावनुं निइयाग द्वितीय प्राशमां रेल होवाथी तृतीय પ્રકાશમાં અવશિષ્ટ વધિઅંશ ભાવનું નિરૂપણ કરવા માટે મહોપાધ્યાય ન્યાયવિશારદ યશોવિજયજી ગણિવર્ય ‘ગય’ શબ્દ દ્વારા ઉપોદ્ઘાત સંગતિને વ્યક્ત કરતાં જિજ્ઞાસાને પ્રગટ કરે છે કે - ભાવપદાર્થ કિંસ્વરૂપ છે ? અર્થાત્ ભાવપદાર્થનું સ્વરૂપ શું છે ? આનું समाधान से छेडे लावयधार्थ द्रव्य-पर्याय उभयात्मा छे. द्रव्य ७ (१) धर्मास्तिडाय (२) अधर्मास्तिय ( 3 ) आमश ( ४ )

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366