Page #1
--------------------------------------------------------------------------
________________
स्वामिचरित
श्रीवज
रम्यरेणुः
D
Page #2
--------------------------------------------------------------------------
________________
श्री परिशिष्टपर्वान्तर्गतम् श्रीवज्रस्वामिचरितम्
(द्वादशः सर्गः)
कर्तारः - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याः
2) आशीर्दायकाः र प.पू. श्रीअरविन्दसूरिमहाराजाः । प.पू. श्रीयशोविजयसूरिमहाराजाः । प.पू. श्रीमुनिचन्द्रसूरिमहाराजाः । प.पू. श्रीभाग्येशविजयसूरिमहाराजाः ।
20 प्रेरणापीयूषपायकाः र प.पू. श्रीवज्रसेनविजयमहाराजाः
MM
KAM
KH 17 PM
» सम्पादिका र रम्यरेणुः
RON HT
HERPRIO
8 द्रव्यसहायकः र खारोइ जैन श्वे.मू.पू. संघः
खारोइ (कच्छ)
Page #3
--------------------------------------------------------------------------
________________
- द्रव्यसहायकः खारोइ जैन श्वे.मू.पू. संघः
खारोइ (कच्छ)
सम्पादिका संवत-२०६५ वीर सं. २०३६ रम्यरेणुः प्रथमावृत्ति नकल : १०००
इ.सन् : २००९ डि. ३. ५०-००
प्रकाशक: विजयभद्र चेरीटेबल ट्रस्ट श्री पार्श्वभक्तिनगर, हाईवे,
भीलडी (बनासकांठा) फोन : (०२७४४) २३३१२९
प्राप्तिस्थान भरत ग्राफिक्स चन्द्रकान्तभाई एस. संघवी न्यु मार्केट, पांजरापोळ, बी-६, अशोका कोम्पलेक्ष, रिलीफ रोड, अहमदाबाद-१. रेल्वे गरनाळा पासे, फोन : ९९२५०२०१०६ पाटण (उगु.)
मो : ९९०९४६८५७२ (તા.ક. આ પુસ્તક જ્ઞાનદ્રવ્યમાંથી તૈયાર થયું હોવાથી ગૃહસ્થોએ મૂલ્ય આપીને જ માલિકી કરવી.)
मुद्रक : भरत ग्राफिक्स न्यु मार्केट, पांजरापोळ, रिलीफ रोड, अहमदाबाद-१. Sta फोन : ०७९-२२१३४१७६, मो : ९९२५०२०१०६ GY
Page #4
--------------------------------------------------------------------------
________________
શ્રી શંખેશ્વર પાર્શ્વનાથાય નમઃ
ETICS
रम्यास्य-दिव्यदीपस्य, हेमज्योतिः सुहर्षदम्। स्यात्सदा भव्यलोकानां, श्रीशङ्केश्वरपार्श्व ! ते ॥
Page #5
--------------------------------------------------------------------------
________________
પૂ. આ. શ્રી ભદ્રસૂરિ મ.
凉茶茶茶
પૂ. આ. શ્રી ૐૐકારસૂરિ મ.
મ.
પૂ. આ. યશોવિજયસૂરિ
*
પૂ આ. અરવિંદસૂરિ મ.
પૂ આ. શ્રી ભાગ્યેશવિજયસૂરિજી મ.
29 ૢ 2,
nazllege
29 ૢ 4,
પૂ. શ્રી મુનિચંદ્રસૂરિ મ.
Page #6
--------------------------------------------------------------------------
________________
યત્કિંચિત
“વ: ઉતિ વ ર #તિ.”
મારે વજસ્વામીજીને મળવું છે. ક્યાં મળશે? બહાર ચોકમાં રમતા એક બાળમુનિને એક ભાઈએ પૂછ્યું...
બાળમુનિએ કહ્યું – “સામે ઉપાશ્રય છે તેનું મુખદ્વાર પેલી બાજુ છે તે બાજુથી ઉપાશ્રયમાં જાવ... ભાઈ સૂચન પ્રમાણે આગળ વધ્યા... ને બાળમુનિ ઉપાશ્રયના પાછળના દ્વારથી ઉપાશ્રયમાં પ્રવેશી આસન પર બેસી ગયા... પેલી તરફ ભાઈ ઉપાશ્રયમાં આવ્યા... પૂછ્યું એક મહાત્માને કે વજસ્વામીજી ક્યાં છે?
આ સામે આસન ઉપર બિરાજતાં બાળમુનિ એ વજસ્વામી છે... ઓહ! આ તો પેલા મહારાજ જે બહાર રમતાં હતાં...
ત્યાં ગયો... વંદન કર્યું. પૂછ્યું – આપ વજસ્વામીજી...? હા...' તો આપ તો રમતા હતા ને... ના.” હું ક્યાં રમતો હતો? મારી ઉંમર રમતી હતી... “વય: શ્રીહતિ વસ્ત્રો ને શ્રીહતિ...'
આવી પ્રચંડ પ્રજ્ઞાના સ્વામિ, જન્માંતરીય ક્ષયોપશમ ને વૈરાગ્યની પ્રચંડ ધારાને લઈને જન્મેલા, જન્મતાં જેમને જાતિસ્મરણ જ્ઞાન થયું છે તેવા. જન્મથી આ જીવન જેમને કાચું પાણી પીધું નથી એવા.. જ્ઞાનદષ્ટિ સંપન્ન મેધાવી, મર્યાદી, અપ્રમત્તી મહાપુરુષ શ્રી વજસ્વામિજી મહારાજનું જીવન ચરિત્ર પરિશિષ્ટ પર્વમાં સર્ગ નં. ૧૨ માં પૂજયપાદ સિદ્ધહસ્ત લેખક કલિકાલસર્વજ્ઞ,. આચાર્ય ભગવંત શ્રી હેમચંદ્રસૂરીશ્વરજી મહારાજાએ આલેખ્યું છે. સરળ ને સુબોધ સંસ્કૃત ભાષા છે. શ્લોકે શ્લોકે ઉપમાઓ છે. આ વજસ્વામિજી ચરિત્ર પર સંસ્કૃત
Page #7
--------------------------------------------------------------------------
________________
ભાષાના પ્રાથમિક અભ્યાસી જેમને બે બુક થયેલી છે તેવા અભ્યાસુકો પણ સરળતાથી વાંચી વ્યાકરણ સંબંધી બોધને સુદઢ બનાવે તે હેતુથી પૂજ્યપાદ સંઘ એકતાશિલ્પી આ.ભ. શ્રી ૐકારસૂરીશ્વરજી મહારાજાના સમુદાયના સાધ્વીજી શ્રી માતૃહૃદયા પૂ. રમ્યગુણાશ્રીજી મહારાજના શિષ્યા સાધ્વી શ્રી દિવ્યગુણાશ્રીજી મહારાજે સરળ સંસ્કૃત બોધાત્મક સમાસાદિ બનાવ્યા છે. પ્રયાસ સ્તુત્ય છે. ઉદ્દેશ્ય એક સામાન્ય અભ્યાસુ સુધી પહોંચવાનો છે ને તે દ્વારા જૈન ચરિત્ર ગ્રંથનો પ્રચાર-પ્રસાર થાય સાથે સાથે વાચક આવા વજસ્વામિજી જેવા મહાપુરુષોના ગુણોથી ભાવિત થઈ સ્વગુણ ઉદ્દઘાટનનો ક્ષયોપશમ પ્રાપ્ત કરે એ મંગલ આશય છે... આ આશય સાર્થક બને એ જ મંગલ કામના. પૂજ્યપાદ પરોપકારી પં. શ્રી વજસેનવિજયજી મ.સા.ની મંગલ પ્રેરણા પુસ્તક તૈયાર કરવા પાછળનું પીઠબળ છે.
આ પ્રસ્તુત પુસ્તક પ્રકાશનનો લાભ કચ્છવાગડમાં રહેલા અમારા શ્રી ખારોઈ જૈન સંઘને મળેલ છે. તે અમારું અહોભાગ્ય છે. મનફરા ચાતુર્માસ બિરાજમાન પૂજ્ય આ.ભ. શ્રી અરવિંદસૂરિ મ.સા. તથા પૂ.આ.ભ. શ્રી યશોવિજયસૂરિ મ.સા.ની આજ્ઞાથી અમારે ત્યાં પર્યુષણ માટે પધારેલા પૂ. મુનિરાજ શ્રી મોક્ષેશવિજયજી મહારાજ તથા સાધ્વીજી શ્રી રમ્યગુણાશ્રીજી મ. આદિએ ખૂબ સુંદર આરાધના કરાવી. એ આરાધનાની અનુમોદનાર્થે પ્રસ્તુત પ્રકાશનનો લાભ અમારા શ્રી સંઘને મળ્યો છે. અમારો શ્રી સંઘ હર્ષની લાગણી અનુભવે છે. આપ સૌ આ ગ્રંથના વાંચન દ્વારા મુનિભાવ-મૌનભાવ-સમત્વભાવને આત્મસાત્ કરો એ જ મંગલ પ્રાર્થના...
- લિ. શ્રી ખારોઈ જૈન સંઘ.
Page #8
--------------------------------------------------------------------------
________________
समाससंकेतसूचिः
(१) अव.पू.क. - अवधारणपूर्वपदकर्मधारयसमासः ।
(२) अव्य. ब. व्री. अव्ययबहुव्रीहिसमासः ।
(३) अव्य.भा. अव्ययीभावसमासः ।
(४) इ.द्व. - इतरेतरद्वन्द्वसमासः ।
(५) उप.उत्त.क. - उपमानोत्तरपदकर्मधारयसमासः ।
-
-
(६) उप. त.पु. - उपपदतत्पुरुषसमासः । (७) उप.पू.क. - उपमानपूर्वपदकर्मधारयसमासः । (८) उप.ब. व्री. उपमानबहुव्रीहिसमासः । (९) एक. द्व. एकशेषद्वन्द्वसमासः । (१०) कु.पू.क. - कुपूर्वपदकर्मधारयसमासः । (११) च.त.पु. - चतुर्थीतत्पुरुषसमासः । (१२) तृ.त.पु. - तृतीयातत्पुरुषसमासः । (१३) द्विगु. क. द्विगुकर्मधारयसमासः । (१४) द्वि.त.पु. - द्वितीयातत्पुरुषसमासः । (१५) नञ्.त.पु. - नञ्तत्पुरुषसमासः । (१६) नञ्. ब. व्री. - नञ्बहुव्रीहिसमासः । (१७) पं.त.पु. - पञ्चमीतत्पुरुषसमासः । (१८) प्रादिक. - प्रादिकर्मधारयसमासः । (१९) प्रादितत्पु. - प्रादिविभक्तितत्पुरुषसमासः । (२०) प्रादि . ब. व्री. प्रादिबहुव्रीहिसमासः । (२१) म.प.लो.क. - मध्यमपदलोपिकर्मधारयसमासः ।
-
-
-
Page #9
--------------------------------------------------------------------------
________________
(२२) मयू.व्यं.क.- मयूरव्यंसकादिकर्मधारयसमासः । (२३) वि. उत्त. क. - विशेषणोत्तरपदकर्मधारयसमासः । (२४) वि. उभ.क.
विशेषणोभयपदकर्मधारयसमासः ।
(२५) वि. पू. क. विशेषणपूर्वपदकर्मधारयसमासः ।
(२६) व्यधि. ब. व्री.
व्यधिकरणबहुव्रीहिसमासः ।
-
6
-
(२७) व्यधि.ब.प.ब.व्री. - व्यधिकरणबहुपदबहुव्रीहिसमासः ।
( २८ ) ष.त. पु. षष्ठीतत्पुरुषसमासः ।
(२९) संख्या.ब.व्री. - संख्यार्थबहुव्रीहिसमासः ।
(३०) स.त.पु. - सप्तमीतत्पुरुषसमासः ।
(३१) समा.. - समाहारद्वन्द्वसमासः ।
(३२) समा. ब. व्री. - समानाधिकरणबहुव्रीहिसमासः । (३३) समा.ब.प.ब.व्री. - समानाधिकरणबहुपदबहुव्रीहिसमासः । (३४) सह.ब.व्री. - सहार्थबहुव्रीहिसमासः ।
(३५) सु.पू.क.- सुपूर्वपदकर्मधारयसमासः ।
(३६) सुप्सुप्स.
सुप्सुप्समासः ।
-
...... Ha
www
Page #10
--------------------------------------------------------------------------
________________
श्री परिशिष्ट पर्व
द्वादशः सर्गः सुहस्तिनोऽन्वयें वज्रस्वार्मी चॅ क्रमयोगतः । अर्भूत्प्रवचनाधारस्तत्कर्थाऽर्थं प्रपञ्च ॥ १ ॥
-
अन्वय :- अथ सुहस्तिनः अन्वये क्रमयोगतः प्रवचनाधारः वज्रस्वामी च अभूत् तत्कथा प्रपञ्च्यते ।
अन्वये - वंशे, 'अन्वयो जननं वंश:' इत्यभिधाने (५०३) । (१) वज्रस्वामी - वज्रश्चासौ स्वामी च इति वज्रस्वामी । (वि.उ.क.)
(२) क्रमयोगतः
समास :
-
क्रमस्य योगः इति क्रमयोगः,
तस्मात् क्रमयोगत: । (ष. त. पु.)
(३) प्रवचनाधारः
-
प्रवचनस्य आधार : इति
प्रवचनाधारः । (ष. त. पु.)
(४) तत्कथा तस्य कथा इति तत्कथा । (ष.त.पु.) इहैं जम्बूद्वीपें, प्राग्भरतार्धविभूषणम् । अवन्तिरिति देशोऽस्तिं, स्वर्गदेशीय ऋद्धिभिः ॥ २ ॥
अन्वय :- इह जम्बूद्वीपे एव प्राग्भरतार्धविभूषणम् ऋद्धिभिः स्वर्गदेशीयः अवन्तिः इति देश: अस्ति ।
समास :- (१) जम्बूद्वीपे - (A) जम्ब्वा (वृक्षेण) उपलक्षितः इति जम्बूपलक्षितः । (तृ.त.पु.)
(B) जम्बूपलक्षितः द्वीप : इति जम्बूद्वीप:, तस्मिन् जम्बूद्वीपे । (मं.प.लो.क.)
Page #11
--------------------------------------------------------------------------
________________
-
(२) प्राग्भरतार्धविभूषणम् – (A) भरतस्य अर्धम् इति भरतार्धम् । (ष.त.पु.)
(B) प्राक् च तद् भरतार्द्ध च इति प्राग्भरतार्द्धम् । (वि.पू.क.)
(C) प्राग्भरतार्द्धस्य विभूषणम् इति प्राग्भरतार्द्धविभूषणम् । (ष. त. पु.) (३) स्वर्गदेशीयः - ईषद् असमाप्तः स्वर्ग: इति स्वर्गदेशीयः ।
"अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्" (७|३|११) इति देशीयर् प्रत्ययः ।
११
तत्र तुम्बवर्नमिति, विद्यते॑ सन्निवेशनम् । निवेशनैमिवँ श्रीणाम्, सदमपिं हर्षदम् ॥ ३ ॥
अन्वय :- तत्र श्रीणां निवेशनम् इव द्युसदाम् अपि हर्षदं तुम्बवनम् इति सन्निवेशनं विद्यते ।
निवेशनम् - स्थानम् "निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च" । इत्यभिधाने (९७२) ।
-
समास :- (१) तुम्बवनम् – (A) तुम्ब: प्रधानः यस्मिन् तद् इति तुम्बप्रधानम्। (समा.ब.व्री.)
(B) तुम्बप्रधानं वनम् इति तुम्बवनम् । (म.प.लो.क.)
(२) सदाम् - दिवि सीदन्ति इति द्युसद:, तेषां द्युसदाम् । (उप. त. पु.) क्विप् प्रत्ययः ।
।
(३) हर्षदम् – हर्षं ददाति इति हर्षदः, तं हर्षदम् । (उप. त. पु.) आतो डोऽह्वा० ५।१।७६ ड प्रत्ययः ।
Page #12
--------------------------------------------------------------------------
________________
बभूर्व श्रावकंस्तत्रं, श्रियों देव्या इवात्मजः । इभ्यपुत्री धनगिरिंगिरीकृतधनोच्चयः ॥ ४ ॥ अन्वय :- तत्र श्रियः देव्याः आत्मजः इव गिरीकृतधनोच्चयः
इभ्यपुत्रः धनगिरिः श्रावकः बभूव । इभ्यः - धनाढ्यः । “इभ्य आढ्यो धनीश्वरः । ऋद्धे"
इत्यभिधाने (३५७) । उच्चयः - राशिः। समास :- (१) आत्मजः - आत्मनो जातः इति आत्मजः ।
(उप.त.पु.)अजातेः पञ्चम्याः ५।१।१७० ड प्रत्ययः। (२) गिरीकृतधनोच्चयः - (A) न गिरिः इति अगिरिः।
(नञ्.त.पु.) (B) अगिरिः गिरिः कृतः इति गिरीकृतः। (गति. त.पु.) (C) धनस्य उच्चयः इति धनोच्चयः । (ष.त.पु.) (D) गिरीकृतः धनोच्चयः येन सः इति
गिरीकृतधनोच्चयः । (समा. ब.वी.) (३) इभ्यपुत्रः - इभ्यस्य पुत्रः इति इभ्यपुत्रः । (ष.त.पु.) मध्यमेनापि वयसा, तस्य भूषितवर्मणः । हृदयें नाविर्शकामः, प्रशमद्वाःस्थरक्षितॆ ॥५॥ अन्वय :- मध्यमेन वयसा अपि भूषितवर्मणः तस्य प्रशमद्वाः
स्थरक्षिते हृदये कामः न अविशत् । वर्ष - शरीरम्, 'वपुः पुद्गलवह्मणी । कलेवरं शरीरम्"
इत्यभिधाने । (५६४) समास :- (१) भूषितवर्मणः - भूषितं वर्म यस्य सः इति
भूषितवा , तस्य भूषितवर्मणः । (समा.ब.वी.)
Page #13
--------------------------------------------------------------------------
________________
४
(२) प्रशमद्वाःस्थरक्षिते
(A) द्वारि तिष्ठति इति द्वाःस्थः। (उप.त. पु.) स्था-पा - स्ना-त्रः कः ५।१।१४२ क प्रत्ययः ।
(B) प्रशम एव द्वाःस्थः इति प्रशमद्वाःस्थः । (अव.पू.क.)
(C) प्रशमद्वाःस्थेन रक्षितम् इति प्रशमद्वाःस्थरक्षितम्, तस्मिन् प्रशमद्वाःस्थरक्षिते । (तृ. त. पु.) धर्मादेर्थो भवर्तीति, न्यायशास्त्रेष्वधीयते । सोऽर्थादपि व्यधद्धर्मम्, पात्रेभ्यो ऽर्थं नियोजयन् ॥ ६ ॥ अन्वय :- न्यायशास्त्रेषु धर्माद् अर्थः भवति इति अधीयते अपि पात्रेभ्यः अर्थं नियोजयन् सः अर्थाद् धर्मं व्यधात् । समास :- (१) न्यायशास्त्रेषु - (A) न्यायं सूचयन्ति इति न्यायसूचकानि । (उप.त.पु.)
(B) न्यायसूचकानि शास्त्राणि इति न्यायशास्त्राणि, तेषु न्यायशास्त्रेषु । (म.प.लो.क.)
ब्रह्मचर्यपरीणामम्, स्वर्गमोक्षफलं विदन्ं । इयेषं कन्यां द्वोढुम्, सोऽर्हद्धर्मपरायणः ॥ ७ ॥ अन्वय :- स्वर्गमोक्षफलं ब्रह्मचर्यपरीणामं विदन् अर्हद्धर्मपरायण: स: कन्याम् उद्वोढुं न इयेष ।
परायणः तत्परः, “अथ तत्परः" ॥ ३८४ ॥ आसक्तः प्रवणः प्रह्वः, प्रसितश्च परायणः । इत्यभिधाने (३८५)
-
समास :- (१) ब्रह्मचर्यपरीणामम् – (A) ब्रह्मणि चरतीति ब्रह्मचरः । (उप.त.पु.) चरेष्टः ५।१।१३८ ट प्रत्ययः ।
Page #14
--------------------------------------------------------------------------
________________
(B) ब्रह्मचरस्य भावः इति ब्रह्मचर्यम् । (तद्धित) (C) ब्रह्मचर्यस्य परीणामः इति ब्रह्मचर्यपरीणामः, तं
___ ब्रह्मचर्यपरीणामम् । (ष.त.पु.) (२) स्वर्गमोक्षफलम् - (A) स्वर्गश्च मोक्षश्च इति
स्वर्गमोक्षौ । (इ.द्वन्द्व) (B) स्वर्गमोक्षौ फलं यस्य सः इति स्वर्गमोक्षफलः,
तं स्वर्गमोक्षफलम् । (समा.ब.वी.) (३) अर्हद्धर्मपरायणः-(A) अर्हतः धर्मः इति अर्हद्धर्मः ।
(ष. त. पु.) __(B) अर्हद्धर्मे परायणः इति अर्हद्धर्मपरायणः ।
___ (स.त.पु.) यत्रं यत्र कुले कन्याम, धनगिर्यर्थमादृतौ । प्रार्थयेते स्म पितरौं, तदुद्वाहमहोत्सवें ॥ ८ ॥ तत्र तत्रं धनगिरिर्गत्वा स्वयमचीकथत् । अहं हि प्रव्रजिष्यामि, दोषोऽस्ति में ने जल्पतः॥९॥
(युग्मम्) अन्वय :- तदुद्वाहमहोत्सवे आदृतौ पितरौ धनगिर्यर्थं यत्र यत्र कुले
कन्यां प्रार्थयेते स्म तत्र तत्र धनगिरिः स्वयं गत्वा अचीकथत् हि अहं प्रव्रजिष्यामि (इति) जल्पतः मे
दोषः न अस्ति । समास :- (१) धनगिर्यर्थम् - धनगिरेः अर्थम् इति धनगिर्यर्थम् ।
(ष.त.पु.) (२) पितरौ-माता च पिता च इति मातापितरौ-पितरौ ।
(एक. द्व.)
Page #15
--------------------------------------------------------------------------
________________
(३) तदुद्वाहमहोत्सवे - (A) तस्य उद्वाह: इति तदुद्वाह: । (ष. त. पु.)
(B) महाश्चासौ उत्सवश्च इति महोत्सवः । (वि.पू.क.)
१०.८
१३
(C) तदुद्वाहस्य महोत्सवः इति तदुद्वाहमहोत्सव:, तस्मिन् तदुद्वाहमहोत्सवे । (ष. त. पु.) इर्तश्च धनपालस्यै, महेभ्यस्य तु नन्दनों । सुनन्दचें धनगिरें यऽहं सोऽस्तु में पतिः ॥ १० ॥ अन्वय :- इतः च महेभ्यस्य धनपालस्य नन्दना सुनन्दा ऊचे अहं धनगिरेः देया तु सः मे पतिः अस्तु । नन्दना - पुत्री ।
समास :- (१) महेभ्यस्य - महाँश्चासौ इभ्यश्च इति महेभ्यः, तस्य महेभ्यस्य । (वि.पू.क.)
महेभ्यो धनपालोंऽपिं, स्वयंवरपरायणाम् । प्रददौं धनगिरयें, दीक्षामेपिं जिघृक्षवें ॥ ११ ॥ अन्वय :- महेभ्यः धनपालः अपि स्वयंवरपरायणां (तां) दीक्षां जिघृक्षवे अपि धनगरये प्रददौ ।
समास :- (१) महेभ्यः - पूर्ववत् ।
(२) स्वयंवरपरायणाम् – (A) स्वयं व्रियतेऽस्मिन् इति स्वयंवरः (उप.त.पु.) पुंनाम्नि घ: ५। ३ | १३० घ प्रत्ययः ।
(B) स्वयंवरे परायणा इति स्वयंवरपरायणा, तां स्वयंवरपरायणाम् । (स.त.पु.)
(३) जिघृक्षवे - ग्रहीतुम् इच्छुः इति जिघृक्षुः, तस्मै जिघृक्षवे | (इच्छार्थक सन् + उ प्रत्यय:)
Page #16
--------------------------------------------------------------------------
________________
भ्राताऽऽर्यशमितो नाम, सुनन्दाया: पुराऽग्रहीत् । परिव्रज्यां सिंहगिरेराचार्यस्याहिसन्निधौं ॥१२॥ अन्वय :- पुरा सिंहगिरेः आचार्यस्य अंहिसन्निधौ आर्यशमितः नाम
सुनन्दायाः भ्राता परिव्रज्याम् अग्रहीत् । समास :- (१) अंहिसन्निधौ-अंहः सन्निधिः इति अंहिसन्निधिः,
___ तस्मिन् अंहिसन्निधौ । (ष. त. पु.) अन्यदा तु ऋतुस्नाताम् , सुनन्दा ब्रह्मधीरपि । भेजें धनगिरि गफलम्, कर्म हि नान्यों ॥१३॥ अन्वय :- अन्यदा तु ब्रह्मधीः अपि धनगिरिः ऋतुस्नातां सुनन्दां
भेजे हि भोगफलं कर्म अन्यथा न (स्यात्) । समास :- (१) ऋतुस्नाताम् - ऋतौ स्नाता इति ऋतुस्नाता, ताम्
ऋतुस्नाताम् । (स.त.पु.) (२) ब्रह्मधीः - ब्रह्मणि धीः यस्य सः इति ब्रह्मधीः ।
(व्यधि.ब.वी.) (३) भोगफलम्-भोगः फलं यस्य तद् इति भोगफलम्।
___ (समा.ब.वी.) इतश्चाष्टापदगिरौं, गौतमस्वामिना किल । प्ररूपितं पुण्डरीकाध्ययनं ावधारितम् ॥१४॥ पुरा येनं वैश्रमणसामानिकदिवौकसा । से प्रच्युविततार, सुनन्दास्तिोंदरे ॥१५॥
... [युग्मम्]
Page #17
--------------------------------------------------------------------------
________________
अन्वय :- इतः च किल पुरा अष्टापदगिरौ गौतमस्वामिना प्ररूपितं
पुण्डरीकाध्ययनं येन वैश्रमणसामानिकदिवौकसा अवधारितं
सः हि तदा प्रच्युत्य सुनन्दायाः उदरे अवततार । समास :- (१) अष्टापदगिरौ- (A) अष्टापदः नाम यस्य सः इति
अष्टापदनामा । (समा.ब. वी.) (B) अष्टापदनामा गिरिः इति अष्टापदगिरिः, तस्मिन्
___ अष्टापदगिरौ । (म.प.लो.क.) (२) गौतमस्वामिना-गौतमश्चासौ स्वामी च इति
गौतमस्वामी, तेन गौतमस्वामिना । (वि.उ.क.) (३) पुण्डरीकाध्ययनम्-(A) पुण्डरीकस्य कथनं यस्मिन्
तद् इति पुण्डरीककथनम् । (समा.ब.वी.) (B) पुण्डरीककथनम् अध्ययनम् इति
पुण्डरीकाध्ययनम् । (म.प.लो.क.) (४) वैश्रमणसामानिकदिवौकसा - (A) वैश्रमणश्चासौ
सामानिकश्च इति वैश्रमणसामानिकः । (वि.उ.क.) (B) दिवा ओकः यस्य सः इति दिवौकाः ।
(अव्य.ब.वी.) (C) वैश्रमणसामानिकश्चासौ दिवौकाश्च इति
वैश्रमणसामानिकदिवौकाः, तेन
वैश्रमणसामानिकदिवौकसा । (वि.पू.क.) अन्तर्वनी धनगिरिस्तां ज्ञात्वोंचे विशुद्धधीः । एष गर्भो द्वितीर्यस्तै, भविती प्रव्रजायंहम् ॥१६॥
Page #18
--------------------------------------------------------------------------
________________
अन्वय :- विशुद्धधीः धनगिरिः ताम् अन्तर्वत्नी ज्ञात्वा ऊचे एषः
गर्भः ते द्वितीयः भविता अहं प्रव्रजामि । अन्तर्वत्लीम् - गर्भवतीम् “अन्तर्वत्नी गुर्विणी स्याद् गर्भवत्युदरिण्यपि" ॥५३८॥ आपन्नसत्त्वा गुर्वीच,
इत्यभिधाने (५३९) समास :- (१) अन्तर्वत्नीम् - अन्तर्विद्यतेऽस्यामन्तर्वत्नी, ताम्
अन्तर्वत्नीम् । तदस्या० ७।२।१.. मतु प्रत्ययः
पतिवत्न्यन्त० २।४।५३.. ङी प्रत्ययः । (२) विशुद्धधी:- विशुद्धा धीः यस्य सः इति
विशुद्धधीः । (समा.ब.वी.) अमनीषित एवाभूत, सम्बन्धोऽपि त्वया सह । प्रव्रज्यैव प्रेयसी मेऽतः परं स्वस्ति ते पुनः॥१७॥ अन्वय :- त्वया सह अमनीषितः एव सम्बन्धः अभूत् अपि अतः . परं प्रव्रज्या एव मे प्रेयसी पुनः ते स्वस्ति । समास :- (१) अमनीषित:-न मनीषितः इति अमनीषितः । (नञ्त.पु.) इत्युक्त्वा तां धनगिरिरवक्रयकुटीमिव । हित्वा सिंहगिरिगुरो:, पार्श्वे गत्वाऽभवद्युतिः ॥१८॥ अन्वय :- इति उक्त्वा धनगिरिः अवक्रयकुटीम् इव तां हित्वा
सिंहगिरिगुरोः पार्श्वे गत्वा यतिः अभवत् । समास :- (१) अवक्रयकुटीम् - (A) अवक्रयेण गृहीता इति
अवक्रयगृहीता । (तृ.त.पु.) (B) अवक्रयगृहीता कुटी इति अवक्रयकुटी, ताम्
अवक्रयकुटीम् । (म.प.लो.क.)
Page #19
--------------------------------------------------------------------------
________________
૧૦
(२) सिंहगिरिगुरो :- (A) सिंहगिरिः नाम यस्य सः
इति सिंहगिरिनामा। (समा.ब.वी.) (B) सिंहगिरिनामा गुरुः इति सिंहगिरिगुरुः, तस्य
सिंहगिरिगुरोः । (म.प.लो.क.) सोऽथ द्वाविंशतिमपि, सहानः परीहान् । सुंदुस्तपं तपस्ते, स्वशरीरेऽपि निःस्प॒हः ॥१९॥ अन्वय :- अथ द्वाविंशतिम् अपि परीषहान् सहमानः स्वशरीरे अपि
निःस्पृहः सः सुदुस्तपं तपः तेपे । समास :- (१) द्वाविंशतिम् - द्वाभ्यामधिका विंशतिः इति
द्वाविंशतिः, तां द्वाविंशतिम् । (म.प.लो.क.) (२) सुदुस्तपम् - अतिशयेन दुःखेन तप्यते इति
सुदुस्तपम्, तद् सुदुस्तपम् । (उप.त.पु.) (३) स्वशरीरे - स्वस्य शरीरम् इति स्वशरीरम्, तस्मिन्
स्वशरीरे । (ष. त. पु.) (४) निःस्पृहः - निर्गता स्पृहा यस्मात् सः इति निःस्पृहः।
__ (प्रा. ब. वी.) सँ स्थैर्यार्जवविनयादिभिः शिष्यगुणैर्वृतः। श्रुतसारं गुरोः पार्थात्, पर्यः कूपोंदिवाँददें ॥२०॥ अन्वय :- स्थैर्यार्जवविनयादिभिः शिष्यगुणैः वृतः सः कूपात् पयः
इव गुरोः पार्थात् श्रुतसारम् आददे । स्थैर्यम् - स्थिरता, आर्जवम् - सरलता।
Page #20
--------------------------------------------------------------------------
________________
૧૧ समास :- (१) स्थैर्यार्जवविनयादिभि :- (A) स्थैर्यं च आर्जवं च
विनयश्च इति स्थैर्यार्जवविनयाः । (इत. द्व.) (B) स्थैर्यार्जवविनयाः आदौ येषां ते इति स्थैर्यार्जव
विनयादयः, तैः स्थैर्यार्जवविनयादिभिः ।
(व्यधि.ब.वी.) (२) शिष्यगुणैः- शिष्यस्य गुणाः इति शिष्यगुणाः, तैः
शिष्यगुणैः । (ष. त. पु.) (३) श्रुतसारम् - श्रुतस्य सारः इति श्रुतसारः, तं
श्रुतसारम् । (ष. त. पु.) नवमास्यां व्यतीतायाम्, सुनन्दाऽपि हि नन्दनम् । अजीजनज्जनानन्दम्, सरीवं सरोरुहम् ॥२१॥ अन्वय :- सुनन्दा अपि नवमास्यां व्यतीतायां हि सरसी सरोरुहम्
इव जनानन्दं नन्दनम् अजीजनत् । सरसी - कासारः जलाशयो वा "पद्मकासारस्तडागः
स्यात् कासारः सरसी सरः" ॥१०९४।। इत्यभिधाने । समास :- (१) नवमास्याम् - नवानां मासानां समाहारः इति
नवमासी, तस्यां नवमास्याम् । (द्विगु.कर्म.)
"द्विगो: समाहारात्" २।४।२९ इति ङी। (२) जनानन्दम् - जनान् आनन्दयतीति जनानन्दः, तं
जनानन्दम् । (उप. त. पु.) (३) सरोरुहम् .- सरसि रोहतीति सरोरुहः, तं
सरोरुहम् । (उप. त. पु.) मूलविभुजादयः ५।१।१४४ कप्रत्ययः ।
Page #21
--------------------------------------------------------------------------
________________
१२
सुनन्दायाः प्रीतिपात्राण्यङ्गनाः सूतिकागृहे । प्रतिजागरणायातस्तं बालमिदमूचिरें ॥२२॥ अन्वय :- सुनन्दायाः प्रीतिपात्राणि सूतिकागृहे प्रतिजागरणायाताः
अङ्गनाः तं बालम् इदम् ऊचिरे । समास :- (१) प्रीतिपात्राणि - प्रीतेः पात्राणि इति प्रीतिपात्राणि ।
(ष. त. पु.) (२) प्रतिजागरणायाताः - प्रतिजागरणाय आयाताः इति
प्रतिजागरणायाताः । (च. त. पु.) यदि जाते ! नं ते तातः, प्रावजिष्यत्तंदोत्सुकः। जातकर्मोत्सवः श्रेया भविष्यत्ततः खलु ॥२३॥ अन्वय :- ततः जात ! यदि ते खलु उत्सुकः तातः न प्राव्रजिष्यत्
तदा जातकर्मोत्सवः श्रेयान् अभविष्यत् । समास :- (१) जातकर्मोत्सव :- (A) जातस्य कर्म इति जातकर्म ।
(ष. त. पु.) (B) जातकर्मणः उत्सवः इति जातकर्मोत्सवः ।
___(ष. त. पु.) स्त्रीजने सत्य िगुहम्, भौति न स्वामिनं विनी।
बह्वीभिरपि ताराभिर्य चन्द्रं विना नभः ॥२४॥ अन्वय :- यथा बहीभिः ताराभिः अपि चन्द्रं विना नभः (तथा) . स्त्रीजने सति अपि स्वामिनं विना गृहं न भाति । समास :- (१) स्त्रीजने - स्त्रीश्चासौ जनश्च इति स्त्रीजनः, तस्मिन्
स्त्रीजने । (वि. पू. क.)
Page #22
--------------------------------------------------------------------------
________________
स तु बोलोऽपिं संज्ञांवाञ्ज्ञानावरणलाघवात् । तासांमाकर्णयमास, तं संलीपं समाहितैः ॥२५॥ अन्वय :- ज्ञानावरणलाघवात् संज्ञावान् समाहितः तु बालः अपि सः तासां तं संलापम् आकर्णयामास ।
समाहित: - दत्तचित्तीभूतः ।
“समाहितः समाधिस्थे संश्रुते" इत्यनेकार्थः । (४।१२९) (१) संज्ञावान् - संज्ञा अस्ति यस्य इति संज्ञावान् । (तद्धित) मतुप्रत्ययः ।
-
(२) ज्ञानावरणलाघवात् – (A) ज्ञानम् आवृणोति इति ज्ञानावरणम् । (उप. त. पु.)
(B) ज्ञानावरणस्य लाघवम् इति ज्ञानावरणलाघवम्, तस्मात् ज्ञानावरणलाघवात् । (ष. त. पु.)
अचिन्तर्यच्च मत्तातः, परिव्रज्यामुपाददे । एवं' च' चिन्तयन्नैव, जातिस्मरणमपि सः ॥२६॥ अन्वय :- अचिन्तयत् च मत्तातः परिव्रज्याम् उपाददे एवं च चिन्तयन् एव सः जातिस्मरणम् आप ।
समास :
૧૩
-
समास :- (१) मत्तात: मम तातः इति मत्तातः । (ष.त.पु.) (२) जातिस्मरणम् - जातिः स्मर्यतेऽनेनेति
जातिस्मरणम्, तद् जातिस्मरणम् । (उप. त. पु.) करणाऽऽधारे ५।३।१२९. अनट् प्रत्ययः
र्स जातजातिस्मरण, संसारासारतां विदन् । इयेषं क्षीरकण्ठोऽपि पित्र्येऽध्वन्यध्वनीनंताम् ॥२७॥
Page #23
--------------------------------------------------------------------------
________________
अन्वय :- जातजातिस्मरणः संसारासारतां विदन् क्षीरकण्ठः अपि
सः पित्र्ये अध्वनि अध्वनीनताम् इयेष । अध्वनीनताम् – पथिकताम् । अध्वनीनोऽध्वगोऽध्वन्यः,
पान्थः पथिकदेशिकौ । प्रवासी... इत्यभिधाने । (४९३) समास :- (१) जातजातिस्मरणः- (A) जातिस्मरणम्-पूर्ववत् ।
(B) जातं जातिस्मरणं यस्य सः इति जातजाति
स्मरणः । (समा.ब.वी.) (२) संसारासारताम्- (A) न सारः इति असारः ।
(नञ्. त.पु.) (B) असारस्य भावः इति असारता । (तद्धित) (C) संसारस्य असारता इति संसारासारता, तां
संसारासारताम् । (ष.त.पु.) (३) क्षीरकण्ठः - क्षीरं कण्ठे यस्य सः इति क्षीर
कण्ठः । (व्य.ब.वी.) (४) पित्र्ये - पितुः अयम् इति पित्र्यः, तस्मिन् पित्र्ये
"पितुर्यो वा" ६।३।१५१ य प्रत्ययः । (तद्धित) (५) अध्वनीनताम् - अध्वानमलंगामी इति अध्वनीनः,
अध्वानं येनौ ७।१।१०३ ईनप्रत्ययः, अध्वनीनस्य
भावः अध्वनीनता, ताम् अध्वनीनताम् । (तद्धित) कथर्मुद्विज्यं मां माता, त्यक्ष्यतीति विचिन्त्यं सः । मातुरङ्कस्थितोऽप्युच्चै, रोदिति स्म दिवानिशम् ॥२८॥ अन्वय :- कथम् उद्विज्य माता मां त्यक्ष्यति इति विचिन्त्य मातुः
अङ्कस्थितः अपि सः दिवानिशम् उच्चैः रोदिति स्म । समास :- (१) अङ्कस्थित :- अङ्के स्थितः इति अङ्कस्थितः ।
(स. त. पु.)
Page #24
--------------------------------------------------------------------------
________________
૧૫ (२) दिवानिशम् - दिवा च निशा च एतयोः समाहारः
इति दिवानिशम्, तद् दिवानिशम् । (समा. द्वन्द्व) नै रागमधुरैर्गानैर्न क्रीडनकदर्शनैः। न वस्त्रदोलाप्रेडाभिन चाटुवचनैरपि ॥२९॥ नोत्सङ्गनृत्यलीलानि मुखातोद्यवादनँ । नं शिरश्चुम्बनेनापि, विशश्रीम स रोदनात् ॥३०॥
(युग्मम्) अन्वय :- रागमधुरैः गानैः न, क्रीडनकदर्शनैः न, वस्त्रदोलाप्रेङ्घाभिः
न, चाटुवचनैः अपि न, उत्सङ्गनृत्यलीलाभिः न, मुखातोद्यवादनैः न, शिरश्चुम्बनेन अपि सः रोदनात् न विशश्राम । क्रीडनकः - कन्दुकादिः। दोला - हिण्डोलकः । प्रेङ्खा - हिण्डोलनम् । “अथ दोला प्रेवादिका भवेत्"
इत्यभिधाने ॥७५८॥ समास :- (१) रागमधुरैः - रागेण मधुराणि इति रागमधुराणि, तैः
रागमधुरैः । (तृ त. पु.) (२) क्रीडनकदर्शनैः - क्रीडनकानां दर्शनानि इति
क्रीडनकदर्शनानि, तैः क्रीडनकदर्शनैः । (ष.त.पु.) (३) वस्त्रदोलाप्रेखाभिः - (A) वस्त्रेण निर्मिता इति
वस्त्रनिर्मिता । (तृ.त.पु.) (B) वस्त्रनिर्मिता दोला इति वस्त्रदोला । (म.प.लो.क.) (C) वस्त्रदोलया (कृताः) प्रेवाः इति वस्त्रदोलाप्रेवाः,
ताभिः वस्त्रदोलाप्रेडाभिः । (तृ. त. पु.)
Page #25
--------------------------------------------------------------------------
________________
૧૬
(४) चाटुवचनैः - चाटूनि च तानि वचनानि च इति
चाटुवचनानि, तैः चाटुवचनैः । (वि. पू. क.) । (५) उत्सङ्गनृत्यलीलाभिः - (A) नृत्यस्य लीलाः इति
नृत्यलीलाः । (ष. त. पु.) (B) उत्सङ्गे कृताः इति उत्सङ्गकृताः । (स.त.पु.) (C) उत्सङ्गकृताः नृत्यलीलाः इति उत्सङ्गनृत्यलीलाः,
ताभिः उत्सङ्गनृत्यलीलाभिः । (म.प.लो.क.) (६) मुखातोद्यवादनैः - (A) मुखैः वाद्यानि इति
मुखवाद्यानि । (तृ.त.पु.). (B) मुखवाद्यानि आतोद्यानि इति मुखातोद्यानि ।
(म.प.लो.क.) (C) मुखातोद्यानां वादनानि इति मुखातोद्य
__ वादनानि, तैः मुखातोद्यवादनैः । (ष. त. पु.) (७) शिरश्चुम्बनेन - शिरसः चुम्बनम् इति शिरश्चुम्बनम्,
तेन शिरश्चुम्बनेन । (ष. त. पु.) एवं च'रुदतस्तस्य , शिशोर्मासाः षर्डत्यः । आससाद सुनन्दाऽपि, निर्वेदं तेन सूनुना ॥३१॥ अन्वय :- एवं च रुदतः तस्य शिशोः षड् मासाः अत्यगुः सुनन्दा
अपि तेन सूनुना निर्वेदम् आससाद । अन्यदा तु सिंहगिरिस्तत्रांगांत्सन्निवेशने । विनेयैर्धनगिर्यार्यशमितादिभिरावृतः ॥३२॥ अन्वय :- अन्यदा तु धनगिर्यार्यशमितादिभिः विनेयैः आवृतः
सिंहगिरिः तत्र सन्निवेशने अगात् ।
अन्वय अपि तेन
सू
स्तत्रागाई
Page #26
--------------------------------------------------------------------------
________________
૧૭ विनेयैः - शिष्यैः "शिष्यो विनेयोऽन्तेवासी" ।
इत्यभिधाने (७९) समास :- (१) धनगिर्यार्यशमितादिभिः - (A) धनगिरिश्च
आर्यशमितश्च इति धनगिर्यार्यशमितौ। (इ.द्व.) (B) धनगिर्यार्यशमितौ आदौ येषां ते इति धन
गिर्यार्यशमितादयः, तैः धनगिर्यार्यशमिता
दिभिः । (व्यधि. ब. वी.) वसत्यां तस्थिवांसंच, नत्वा सिंहगिरि गुरुम् । धनगिर्यार्यशमितावन्वजिज्ञपतामिति ॥३३॥ अन्वय :- वसत्यां च तस्थिवांसं सिंहगिरिं गुरुं नत्वा धनगिर्यार्य
शमितौ इति अन्वजिज्ञपताम् । वसतिः - स्थानकः "वसतिः स्यादवस्थाने निशायां
सदनेऽपि च" ॥३/२८३।। इत्यनेकार्थः । समास :- धनगिर्यार्यशमितौ - पूर्ववत् ।। स्वजनाः सन्ति नावस्मिन्भगवन् ! सन्निवेशने । यौष्माकैण नियोगेन, तान्विवन्दयिषावहे ॥३४॥ अन्वय :- भगवन् ! अस्मिन् सन्निवेशने नौ स्वजनाः सन्ति
यौष्माकेण नियोगेन तान् विवन्दयिषावहे । नौ-आवयोः। नियोग:-आदेशः । "आज्ञा शिष्टिनिरानिभ्यो देशो नियोगशासने" ॥२७७॥ इत्यभिधाने। यौष्माकेण-युष्माकम् अयं यौष्माकः, तेन यौष्माकेण, युष्मदस्मदोऽजीनञौ० ६।३।६७.. अञ् । (तद्धित)
Page #27
--------------------------------------------------------------------------
________________
૧૮
तयोश्च पृच्छतो रेवम्', शकुन शुभसूचकम् । दृष्ट्वा सिंहगिरिगुरुरूंचेनूचानपुङ्गवः ॥३५॥ अन्वय :- एवं च तयोः पृच्छतोः शुभसूचकं शकुनं दृष्ट्वा अनूचा
नपुङ्गवः सिंहगिरिगुरुः ऊचे। अनूचानपुङ्गवः -गणिश्रेष्ठः “अनूचानः प्रवचने साङ्गे
ऽधीती गणिश्च सः" । इत्यभिधाने । (७८) समास :- (१) शुभसूचकम् - शुभं सूचयति इति शुभसूचकम् ।
(उप. त. पु.) (२) सिंहगिरिगुरुः - पूर्ववत् । (३) अनूचानपुङ्गवः - अनूचानेषु पुङ्गवः इति
अनूचानपुङ्गवः । (स.त.पु.) महाल्लाभोऽद्य वां भावी, लभेथे" यावां मुंनी! । सँचित्तं वाऽप्यचित्तं वा, तदादेयं मदाज्ञया ॥३६॥ अन्वय :- मुनी ! वाम् अद्य महान् लाभ: भावी युवां सचित्तं वा
अचित्तं वा यद् अपि लभेथे तद् मदाज्ञया आदेयम् ।
वाम् – युवयोः । समास :- (१) सचित्तम् - चित्तेन सह वर्तते यद् तद् इति
सचित्तम् । (सह. ब. वी.) (२) अचित्तम् - नास्ति चित्तं यस्य तद् इति अचित्तम् ।
(नञ्. ब. वी.) (३) मदाज्ञया - मम आज्ञा इति मदाज्ञा, तया मदाज्ञया ।
(ष.त.पु.)
Page #28
--------------------------------------------------------------------------
________________
૧૯
सदनेऽथ सुनन्दाया, जग्मतुस्तौ महामुनी । तस्यस्तवन्यनारीभिर्द्वार्यायातौ निवेदितौ ॥३७॥
अन्वय :- अथ तौ महामुनी सुनन्दायाः सदने जग्मतुः अन्यनारीभिः तस्याः द्वारि आयातौ तौ निवेदितौ ।
सदने - गेहे "मन्दिरं सदनं सद्म" इत्यभिधाने (९९०) समास :- (१) महामुनी महान्तौ च तौ मुनी च इति महामुनी । (वि. पू. क.)
(२) अन्यनारीभिः - अन्याश्च ताः नार्यश्च इति अन्यनार्यः, ताभिः अन्यनारीभि: । (वि. पू. क.)
महिलांश्चचिरे' सर्वाः, सुनन्दे'! नन्दर्नस्त्वर्या' । अर्पणीयों धनगिरे, वं' नेष्यत्येर्षं दृश्यताम् ॥३८॥ अन्वय :- सर्वाः च महिलाः ऊचिरे सुनन्दे ! त्वया धनगिरेः नन्दनः अर्पणीयः दृश्यताम् एष क्व नेष्यति ? |
-
४
निरानन्दा सुनन्दापि, तमदायं स्तनन्धयम् । तेनं निर्वेदितो दस्र्थादूचे धनगिरिं " च सा ॥३९॥ तेन निर्वेदिता निरानन्दा सा सुनन्दा अपि तं स्तनन्धयम् आदाय उदस्थात् धनगिरिं च ऊचे ।
अन्वय :
(१) निरानन्दा - निर्गतः आनन्दः यस्याः सा इति निरानन्दा |
(प्रा.ब.व्री.)
समास :
३
तं
(२) स्तनन्धयम् स्तनं धयति इति स्तनन्धयः, स्तनन्धयम् । (उप . त . पु.) शुनी - स्तन - मुञ्ज०
५|१|११९ खश् प्रत्ययः ।
Page #29
--------------------------------------------------------------------------
________________
... २० इयन्तं कालमात्मेव, बालकः पालितो मया। नटिताऽहं त्वनेनोंच्चै,रोदित्येष दिवानिशम् ॥४०॥ अन्वय :- मया इयन्तं कालं बालकः आत्मा इव पालितः अनेन तु
अहं नटिता दिवानिशम् एषः उच्चैः रोदिति । समास :- (१) दिवानिशम् – पूर्ववत् । यद्यप्यसि प्रव्रजितस्ताऽप्येनं स्वमात्मजम् । गृहाणं मामिव त्याक्षीहे स्मैनमपि सम्प्रति ॥४१॥ अन्वय :- यद्यपि प्रव्रजितः असि तथापि स्वम् एनम् आत्मजं
सम्प्रति गृहाण माम् इव एनम् अपि मा त्याक्षीः स्म ।
स्वम् - निजम् "स्वं निजे धने" ॥१/१४।। इत्यनेकार्थः । समास :- (१) आत्मजम् - आत्मजः पूर्ववत्, तम् आत्मजम्ः । स्मित्वा धनगिरिरपि, प्रोवाचे वदतांवरः। एवं करिष्ये कल्याणि! पश्चात्तापं तु यास्यसि ॥४२॥ अन्वय :- वदतांवरः धनगिरिः अपि स्मित्वा प्रोवाच कल्याणि !
एवं करिष्ये पश्चात्तापं तु यास्यसि । समास :- (१) वदतांवरः - वदतां वरः इति वदतांवरः ।
__ (अलुप् ष. त. पु.) मा कृथाः सर्वथैदृक्षम् , कुरुषे वा कुरुष्व तत् । समक्षं साक्षिणां भद्रे! 'पुन.नं न" लप्स्यसे ॥४३॥
Page #30
--------------------------------------------------------------------------
________________
૨૧
अन्वय :- भद्रे ! सर्वथा ईदृक्षं मा कृथाः कुरुषे वा हि पुनः एनं न लप्स्यसे तत् साक्षिणां समक्षं कुरुष्व ।
समास :- समक्षम् - अक्ष्णोः समीपम् इति समक्षम् । (अव्य.भा.) तर्तश्च' साक्षिणः कृत्वा', सनिर्वेदं सुनन्दा' । नन्दनो धनगिरयेऽर्पितस्तेनाऽऽददे ३ च सः ॥४४॥ अन्वय :- तत: च साक्षिणः कृत्वा सुनन्दया धनगिरये नन्दनः सनिर्वेदम् अर्पितः तेन च सः आददे ।
२
समास :- (१) सनिर्वेदम् - निर्वेदेन सह वर्तते यद् तद् इति सनिर्वेदम्, तद् सनिर्वेदम् । (सह. ब. व्री.) सोऽर्भको धनगिरिणा', पात्रबन्धे' न्यधायि च । गृहीतसङ्केत' इव', विरराम " च रोदनात् ॥४५॥ अन्वय :- धनगिरिणा च सः अर्भकः पात्रबन्धे न्यधायि गृहीतसङ्केतः इव रोदनात् च विरराम ।
१०
पात्रबन्धे - वस्त्रमयपात्राधारे (लोके 'झोली' इति प्रसिद्धम् ।)
समास :- (१) पात्रबन्धे - पात्राणि बध्यन्तेऽस्मिन् इति पात्रबन्ध:, तस्मिन् पात्रबन्धे । (उप. त. पु.)
(२) गृहीतसङ्केतः - गृहीतः सङ्केतः येन सः इति गृहीतसङ्केतः । (समा. ब. व्री.)
ततः सुनन्दासदनांही तावात्तबालकौ । गुर्वाज्ञापालकौ भूयोऽपेयर्तुर्गुरुसन्निधौ ॥४६॥
३
अन्वय :- ततः सुनन्दासदनात् गुर्वाज्ञापालकौ आत्तबालकौ तौ ऋषी भूयः गुरुसन्निधौ अपेयतुः ।
Page #31
--------------------------------------------------------------------------
________________
૨૨
समास :- (१) सुनन्दासदनात् - सुनन्दायाः सदनम् इति
सुनन्दासदनम्, तस्मात् सुनन्दासदनात् । (ष.त.पु.) (२) आत्तबालकौ - आत्तः बालकः याभ्यां तौ इति
आत्तबालकौ । (समा. ब. वी.) (३) गुर्वाज्ञापालकौ - (A) गुरोः आज्ञा इति गुर्वाज्ञा ।
(ष.त.पु.) (B) गुर्वाज्ञां पालयतः इति गुर्वाज्ञापालको ।
(उप.त.पु.) णकतृचौ ५।१।४८ णक
प्रत्ययः । . (४) गुरुसन्निधौ - गुरोः सन्निधिः इति गुरुसन्निधिः,
तस्मिन् गुरुसन्निधौ । (ष. त. पु.) महासारस्य भारेण', पुत्ररत्नस्य तस्य॑ तु। नमद्बाहुं धनगिरिम् , दृष्ट्वा गुरुरंभाषत" ॥४७॥ अन्वय :- महासारस्य तस्य पुत्ररत्नस्य भारेण तु नमद्बाहुं धनगिरि
दृष्ट्वा गुरुः अभाषत । समास :- (१) महासारस्य - महान् सारः यस्य सः इति महासारः,
तस्य महासारस्य । (समा.ब.वी.) (२) पुत्ररत्नस्य - पुत्रः एव रत्नम् इति पुत्ररत्नम्, तस्य
पुत्ररत्नस्य । (अव.पू.क.) (३) नमदाहुम् - नमन् बाहुः यस्य सः इति नमद्बाहुः,
तं नमद्बाहुम् । (समा. ब. वी.) आयासित इवासि त्वम्', भिक्षाभारेण तं मम । समर्पय महाभाग!', विश्राम्यतु भुजैस्तव ॥४८॥
Page #32
--------------------------------------------------------------------------
________________
૨૩ अन्वय :- महाभाग ! त्वं भिक्षाभारेण आयासित इव असि मम तं
समर्पय तव भुजः विश्राम्यतु । समास :- (१) भिक्षाभारेण - भिक्षायाः भारः इति भिक्षाभारः,
तेन भिक्षाभारेण । (ष. त. पु.) (२) महाभाग! - महान् भागः यस्य सः इति महाभागः,
तत्सम्बोधनं महाभाग ! (समा.ब.वी.) इत्युपादाय यत्नेन', साधुः श्रीपात्रमर्भकम् । कान्त्या सुरकुमाराभम् , अर्पयामास तं गुरोः ॥४९॥ अन्वय :- इति साधुः यत्नेन उपादाय श्रीपात्रं कान्त्या सुरकुमाराभं तम्
अर्भकं गुरोः अर्पयामास । समास :- (१) श्रीपात्रम् - श्रियाः पात्रम् इति श्रीपात्रम्, तद्
श्रीपात्रम् । (ष.त.पु.) (२) सुरकुमाराभम् - (A) सुरश्चासौ कुमारश्च इति
सुरकुमारः । (वि.उ.क.) (B) सुरकुमारस्य आभा इव आभा यस्य सः इति
सुरकुमाराभः, तं सुरकुमाराभम् । (उप.ब.वी.) देदीप्यमानं तेजोभिरधिपं तेजसोमिव । आचार्यवर्यस्तं बालम्, पाणिभ्यां स्वयमाददे ॥५०॥ अन्वय :- आचार्यवर्यः तेजसाम् अधिपम् इव तेजोभिः देदीप्यमानं
तं बालं पाणिभ्यां स्वयम् आददे । समास :- (१) अधिपम् - अधिकं पाति इति अधिपः, तम् अधिपम् ।
(उप.त.पु.) स्था-पा-स्ना. ५।१।१४२ कप्रत्ययः । (२) आचार्यवर्यः - आचार्येषु वर्यः इति आचार्यवर्यः ।
(स.त.पु.)
Page #33
--------------------------------------------------------------------------
________________
૨૪
शिशोस्तस्योतिभारेण, सद्यः सिंहगिरैर्गुरोः । नमति स्म महीपीठम्", वार्यादित्सॉरिवाञ्जलिः ॥५१॥ अन्वय :- तस्य शिशोः अतिभारेण वारि आदित्सोः इव सिंहगिरेः
___ गुरोः अञ्जलिः सद्यः महीपीठं नमति स्म । समास :- (१) अतिभारेण - अतिशयः भारः इति अतिभारः, तेन
अतिभारेण । (प्रादि.कर्म.) (२) महीपीठम् - मह्याः पीठः इति महीपीठः, तं
महीपीठम् । (ष. त. पु.) (३) आदित्सोः - आदातुम् इच्छुः इति आदित्सुः, तस्य
आदित्सोः। (इच्छर्थक सन्+3) सन्-भिक्षा० ५।२।३३
उप्रत्ययः । तद्भारभङ्गुरकरो', गुरुरूचे सविस्मयः। अहाँ! पुंरू पभृद्वमिदं धर्तुं न शक्यते" ॥५२॥ अन्वय :- तद्भारभङ्गुरकरः सविस्मयः गुरुः ऊचे अहो ।
पुंरूपभृद् इदं वज्रं धर्तुं न शक्यते । समास :- (१) तद्भारभङ्गुरकर:- (A) तस्य भारः इति तद्भारः ।
(ष.त.पु.) (B) तद्भारेण भङ्गरौ करौ यस्य सः इति तद्भार
____भङ्गरकरः । (व्य. ब. प. ब. वी.) (२) सविस्मयः - विस्मयेन सह वर्तते यः सः इति
सविस्मयः । (सह. ब. वी.)
Page #34
--------------------------------------------------------------------------
________________
૨૫
(३) पुंरूपभृत् – (A) पुंसः रूपम् इति पुंरूपम् । (ष. त.पु.) (B) पुंरूपं बिभर्ति इति पुंरूपभृत् । (उप.त.पु.) क्विप् ५।१।१४८ क्विप् प्रत्ययः ।
भावी' प्रवचनाधारो ँ, महापुण्यः पुमानयम् । यलेन रक्ष्यो" रलं" हिं, प्रायेणांपायवल्लभम् ॥५३॥
अन्वय :- महापुण्यः अयं पुमान् प्रवचनाधारः भावी (अतः) यत्नेन रक्ष्यः हि प्रायेण रत्नम् अपायवल्लभम् ।
समास :- (१) प्रवचनाधारः - पूर्ववत् ।
(२) महापुण्यः
-
महत् पुण्यं यस्य सः इति
महापुण्यः । (समा. ब. व्री.)
(३) अपायवल्लभम् अपायस्य वल्लभम् इति
अपायवल्लभम् । (ष. त.पु.) साध्वीर्नामिति' तं' बालम्, पालनायोर्पयद् गुरु: । वज्रसरस्य तस्यादार्दू, वज्र इत्र्त्यभिधार्मपि ॥५४॥
१०
१३
-
-
अन्वय :- इति गुरुः तं बालं पालनाय साध्वीनाम् आर्पयद् वज्रसारस्य तस्य वज्र इति अभिधाम् अपि अदात् ।
समास :- (१) वज्रसारस्य
वज्रम् इव सारः यस्य सः इति
५
वज्रसारः, तस्य वज्रसारस्य । (उप.ब.व्री.) गत्वा शय्यातरकुले, भक्ते तं" बालमीयिकाः । स्वमात्मानमिवख्यायं पालनार्यापयन्नेथ ॥ ५५ ॥
Page #35
--------------------------------------------------------------------------
________________
अन्वय :- अथ आर्यिकाः भक्ते शय्यातरकुले गत्वा स्वम् आत्मानम्
इव आख्याय पालनाय तं बालम् आर्पयन् ।
आर्यिकाः - साध्व्यः । समास :- (१) शय्यातरकुले - (A) शय्यया (वसत्या) तरतीति
शय्यातरः । (उप.त.पु.) (B) शय्यातरस्य कुलम् इति शय्यातरकुलम्,
तस्मिन् शय्यातरकुले । (ष.त.पु.) कुमारभृत्याकुशला , शय्यातर्योऽपि तं शिशुम् । स्वस्वपुत्राधिकं प्रीत्या', पश्यन्त्यः पर्यपालयन् ॥५६॥ अन्वय :- कुमारभृत्याकुशलाः प्रीत्या स्वस्वपुत्राधिकं पश्यन्त्यः
शय्यातर्यः अपि तं शिशुं पर्यपालयन् । समास :- (१) कुमारभृत्याकुशलाः – (A) कुमारस्य भृत्या इति
कुमारभृत्या । (ष.त.पु.) (B) कुमारभृत्यायां कुशलाः इति
___ कुमारभृत्याकुशलाः । (स.त.पु.) (२) स्वस्वपुत्राधिकम् - (A) स्वे च स्वे च इति स्वस्वे।
(विशे० उभ०क०) (B) स्वस्वेषां पुत्राः इति स्वस्वपुत्राः । (ष.त.पु.) (C) स्वस्वपुत्रेभ्यः अधिकः इति स्वस्वपुत्राधिकः,
तं स्वस्वपुत्राधिकम् । (पं. त. पु.) शय्यातरपुरन्ध्रीणाम् , स सौभाग्यनिधानभूः । अङ्कांदई सञ्चचार', हंसोऽम्बुजमिवाम्बुजात् ॥५७॥
Page #36
--------------------------------------------------------------------------
________________
૨૭
अन्वय :- अम्बुजात् अम्बुजं हंसः इव सौभाग्यनिधानभूः सः
शय्यातरपुरन्ध्रीणाम् अङ्काद् अङ्कं सञ्चचार । समास :- (१) शय्यातरपुरन्ध्रीणाम् – (A) शय्यातरा:-पूर्ववत् ।
(B) शय्यातराणां पुरन्ध्रयः इति शय्यातरपुरन्ध्रयः,
तासां शय्यातरपुरन्ध्रीणाम् । (ष.त.पु.) (२) सौभाग्यनिधानभूः - (A) शोभनं भगम् इति
सुभगम् । (सु.पू.क.) (B) सुभगस्य भावः सौभाग्यम् । (तद्धित) (C) सौभाग्यस्य निधानम् इति सौभाग्यनिधानम् ।
(ष.त.पु.) (D) सौभाग्यनिधानस्य भूः इति सौभाग्यनिधानभूः ।
(ष.त.पु.) (३) अम्बुजम् – अम्बुनि जातम् इति अम्बुजम्, तद्
अम्बुजम् । (उप.त.पु.) (४) अम्बुजात् - अम्बुजम्-पूर्ववत्, तस्मात् अम्बुजात् ।
(उप.त.पु.) उल्लापयन्त्यस्तं बालम्', मन्मनोल्लापपूर्वकम् । शय्यातरकुटुम्बिन्यो, हर्षवातूलतां ययुः ॥५८॥ अन्वय :- तं बालं मन्मनोल्लापपूर्वकम् उल्लापयन्त्यः शय्यातर
कुटुम्बिन्यः हर्षवातूलतां ययुः। समास :- (१) मन्मनोल्लापपूर्वकम् - (A) मन्मनः एव उल्लापः
इति मन्मनोल्लापः । (अक. पू. क.)
Page #37
--------------------------------------------------------------------------
________________
. २८
(B) मन्मनोल्लापेन पूर्वकम् इति मन्मनोल्लापपूर्वकम्,
तद् मन्मनोल्लापपूर्वकम् । (तृ.त.पु.) (२) शय्यातरकुटुम्बिन्यः - (A) शय्यातरा:-पूर्ववत् । (B) शय्यातराणां कुटुम्बिन्यः इति
शय्यातरकुटुम्बिन्यः । (ष.त.पु.) । (३) हर्षवातूलताम् – (A) हर्ष एव वातूलः इति
हर्षवातूलः । (अव.पू.क.) (B) हर्षवातूलस्य भावः इति हर्षवातूलता, तां
हर्षवातूलताम् । (तद्धित) शय्यातों महाभागाः, स्नानपानाशनादिभिः । स्पर्धमाना इवाऽन्योन्यम्, चक्रुर्वज्रस्य सक्रियाम् ॥५९॥ अन्वय :- महाभागः शय्यातर्यः स्नानपानाशनादिभिः अन्योन्यं
स्पर्धमाना इव वज्रस्य सत्क्रियां चक्रुः। समास :- (१) शय्यातर्यः-पूर्ववत् ।।
(२) महाभागाः – महान् भागः यासां ताः इति महा
भागाः । (समा.ब.वी.) (३) स्नानपानाशनादिभिः - (A) स्नानं च पानं च अशनं
च इति स्नानपानाशनानि । (इत. द्वन्द्व) (B) स्नानपानाशनानि आदौ येषां ते इति स्नान
पानाशनादयः, तैः स्नानपानाशनादिभिः ।
(व्यधि. ब. वी.) ४) सत्क्रियाम् - सती चासौ क्रिया च इति सत्क्रिया,
तां सत्क्रियाम् । (वि.पू.क.)
Page #38
--------------------------------------------------------------------------
________________
૨૯
वयोवृद्धपरिणामो, वज्रों बालोऽपि संयमात् । न बालचापलं चक्रे, लिंचित् तासामसौख्यदम् ॥६०॥ अन्वय :- बालः अपि संयमात् वयोवृद्धपरिणामः वज्रः तासाम्
असौख्यदं किंचित् बालचापलं न चक्रे । समास :- (१) वयोवृद्धपरिणामः-(A) वयसा वृद्धः इति ज्योवृद्धः ।
(तृ.त.पु.) (B) वयोवृद्धस्य परिणामः इव परिणामः यस्य सः
इति वयोवृद्धपरिणामः । (उप. ब. वी.) (२) बालचापलम् - बालस्य चापलम् इति बालचापलम्,
तद् बालचापलम् । (ष.त.पु.) (३) असौख्यदम्-(A) सुखस्य भावः सौख्यम्। (तद्धित)
(B) न सौख्यम् इति असौख्यम् । (नञ्.त.पु.) (C) असौख्यं ददाति इति असौख्यदम्, तद्
असौख्यदम् । (उप.त.पु.) बुभुजे प्रासुकं वज्रः, प्राणयात्राकृते सुधीः । जातिस्मरणसञ्जातविवेकः कल्पविद्धि सः ॥६१॥ अन्वय :- जातिस्मरणसञ्जातविवेकः सुधीः कल्पवित् सः वज्रः
प्राणयात्राकृते हि प्रासुकं बुभुजे । समास :- (१) प्रासुकम् - प्रगताः असवः यस्मात् तद् प्रासुकम्,
तद् प्रासुकम् । (प्रादि.ब.वी.) (२) प्राणयात्राकृते - (A) प्राणानां यात्रा इति प्राणयात्रा।
(ष.त.पु.) (B) प्राणयात्रायाः कृते इति प्राणयात्राकृते। (ष.त.पु.)
Page #39
--------------------------------------------------------------------------
________________
...
उ०
(३) सुधी:- सुष्टुदधाति/ध्यायति इति सुधीः । (उप.त.पु.) (४) जातिस्मरणसञ्जातविवेकः - (A) जातिस्मरणम् -
पूर्ववत् । (B) जातिस्मरणेन सञ्जातः इति जातिस्मरण
सञ्जातः । (तृ.त.पु.) (C) जातिस्मरणसञ्जातः विवेकः यस्य सः इति
जातिस्मरणसञ्जातविवेकः । (समा.ब.वी.) (५) कल्पवित् - कल्पं वेत्ति इति कल्पवित् ।
(उप.त.पु.)... क्विप् प्रत्ययः । चिकीर्षति स्म बालोऽपि, निहारादि यदाच सः । चक्रे तदा सदा संज्ञाम्, सुव्यक्तां बालधारिषु ॥६२॥ अन्वय :- यदा अपि च सः बालः निहारादि चिकीर्षति स्म तदा
सदा बालधारिषु सुव्यक्तां संज्ञां चक्रे । समास :- (१) निहारादि - निहारः आदौ यस्मिन् तद् इति
निहारादि, तद् निहारादि । (व्यधि. ब. वी.) (२) सुव्यक्ताम् – शोभना व्यक्ता इति सुव्यक्ता, तां
सुव्यक्ताम् । (सु. पू. क.) (३) बालधारिषु - बालं धारयन्ति इति बालधारिणः,
___तेषु बालधारिषु । (उप. त. पु.) शय्यातरकुमाराणाम्, सर्वेषां युग्मभूरिव । वज्रोऽभवत्प्रीतिगुणम्, समानं तेषु दर्शयन् ॥६३॥ अन्वय :- सर्वेषां शय्यातरकुमाराणां युग्मभूः इव तेषु समानं
प्रीतिगुणं दर्शयन् वज्रः अभवत् ।
Page #40
--------------------------------------------------------------------------
________________
૩૧
समास :- (१) शय्यातरकुमाराणाम् – (A) शय्यातरा : - पूर्ववत् ।
(B) शय्यातराणां कुमाराः इति शय्यातरकुमाराः, तेषां शय्यातरकुमाराणाम् । (ष. त.पु.)
२
३
(२) युग्मभूः - युग्मेन भवति इति युग्मभूः । (उप.त.पु.) (३) प्रीतिगुणम् - प्रीतिः एव गुणः इति प्रीतिगुणः, तं प्रीतिगुणम् । (अव. पू. क.) ज्ञानोपकरणादानैर्बालक्रीडां प्रपञ्चयन् । वज्रः प्रमोदयामास, प्रतिवासरमार्थिकाः ॥६४॥ अन्वय :- ज्ञानोपकरणादानैः बालक्रीडां प्रपञ्चयन् वज्रः प्रतिवासरम् आर्यिका : प्रमोदयामास ।
समास :- (१) ज्ञानोपकरणादानै: - (A) ज्ञानस्य उपकरणानि इति ज्ञानोपकरणानि । (ष.त.पु.)
(B) ज्ञानोपकरणानाम् आदानानि इति ज्ञानोपकरणादानानि, तैः ज्ञानोपकरणादानैः । (ष.त.पु.) (२) बालक्रीडाम्-(A) बालस्य योग्या इति बालयोग्या । (ष. त.पु.)
(B) बालयोग्या क्रीडा इति बालक्रीडा, तां बालक्रीडाम् । (म.प.लो.क.)
(३) प्रतिवासरम् - वासरं वासरम् इति प्रतिकपरम् तद् प्रतिवासरम् । (अव्य. भा. )
वज्रं दृष्ट्वा सुनन्दाऽपिं, सुरूपं शीलशालिनम् । शय्यातरेभ्योऽयाचिष्ट," मत्सूनुरिति वादिनी ॥ ६५॥
Page #41
--------------------------------------------------------------------------
________________
૩૨ अन्वय :- सुरूपं शीलशालिनं वज्रं दृष्ट्वा मत्सूनुः इति वादिनी
सुनन्दा अपि शय्यातरेभ्यः अयाचिष्ट। समास :- (१) सुरूपम् – शोभनं रूपं यस्य सः इति सुरूपः, तं
सुरूपम् । (अव्य. ब. वी.) (२) शीलशालिनम् - शीलेन शालते इति शीलशाली,
तं शीलशालिनम् । (उप. त. पु.) (३) शय्यातरेभ्यः - शय्यातराः - पूर्ववत्, तेभ्यः
शय्यातरेभ्यः ।
(४) मत्सूनुः - मम सूनुः इति मत्सूनुः । (ष. त. पु.) जननीपुत्रसम्बन्धम्, तर्वामुयोर्भकस्य च । न विद्यः किन्त्वसौं न्यासों, गुरूणामिति तेऽवदन् ॥६६॥ अन्वय :- तव अमुष्य अर्भकस्य च जननीपुत्रसम्बन्धं न विद्मः
किन्तु तु असौ गुरूणां न्यासः इति ते अवदन् । समास :- (१) जननीपुत्रसम्बन्धम् - (A) जननी च पुत्रश्च इति
जननीपुत्रौ । (इत. द्वन्द्व) (B) जननीपुत्रयोः सम्बन्धः इति जननीपुत्र
___सम्बन्धः, तं जननीपुत्रसम्बन्धम् । (ष.त.पु.) इत्युक्त्वा नर्पियामासुस्तस्यै शय्यातराः सुतम् । ततश्चैक्षिष्ट सा वज्रम्", दूरस्थैव परस्ववत् ॥६७॥ अन्वय :- इति उक्त्वा शय्यातराः तस्यै सुतं न अर्पयामासुः ततः
च दूरस्था एव सा वज्रं परस्ववत् ऐक्षिष्ट । समास :- (१) शय्यातराः - पूर्ववत् ।
(२) दूरस्था - दूरे तिष्ठति इति दूरस्था। (उप.त.पु.)।
Page #42
--------------------------------------------------------------------------
________________
33
(३) परस्ववत् – (A) परेषां स्वम् इति परस्वम् ।
(ष. त.पु.)
(B) परस्वम् इव परस्ववत् । (तद्धित) स्यादेरिवे ७|१|५२ वत् प्रत्ययः । महता' तूपरोधेन सा तेषामेव वेश्मनि । धात्रींव लालयामास, स्तन्यपानादिना सुतम् ॥६८॥
७
१०
?
अन्वय :- महता उपरोधेन तु तेषाम् एव वेश्मनि सा धात्री इव स्तन्यपानादिना सुतं लालयामास ।
समास :- (१) स्तन्यपानादिना (A) स्तन्यस्य पानम् इति स्तन्यपानम् । (ष.त. पु.)
(B) स्तन्यपानम् आदौ यस्मिन् तद् इति स्तन्यपानादि, तेन स्तन्यपानादिना । (व्यधि. ब. व्री.)
1
चांचलपुरविषय श्रीविभूषणें ।
इतोऽपिं कन्या पूर्णा' चैति नद्यौ, विद्येते" प्रार्थिताभिधे ॥ ६९ ॥ अन्वय :- इतः अपि च अचलपुरविषय श्रीविभूषणे कन्या पूर्णा च इति प्रार्थिताभिधे नद्यौ विद्येते ।
समास :- (१) अचलपुरविषय श्रीविभूषणे - (A) अचलपुरं नाम यस्य सः इति अचलपुरनामा । (सह. ब. व्री.) (B) अचलपुरनामा विषयः इति अचलपुरविषयः । (म.प.लो.क.)
(C) अचलपुरविषय एव श्रीः इति अचलपुरविषयश्रीः । (अव. पू. क.)
Page #43
--------------------------------------------------------------------------
________________
उ४ (D) अचलपुरविषयश्रियः विभूषणे इति अचलपुर
विषयश्री-विभूषणे । (ष. त. पु.) (२) प्रार्थिताभिधे - प्रार्थिता अभिधा ययोः ते इति
प्रार्थिताभिधे । (समा. ब. वी.) अन्तराले तयोर्नद्योरवात्सुः केऽपि तापसाः । पादलेपविदेकोऽभूत्, तेषां मध्ये च तापसः ॥७०॥ अन्वय :- तयोः नद्योः अन्तराले केऽपि तापसाः अवात्सुः तेषां
च मध्ये पादलेपविद् एकः तापस: अभूत् । समास :- (१) पादलेपविद् - (A) पादयोः लेपः इति पादलेपः ।
(ष.त.पु.) (B) पादलेपं वेत्ति इति पादलेपविद् । (उप.त.पु.)
क्विप् प्रत्ययः । विधाय' पादलेपं च, पादुके परिधाय च । जलेऽपि स्थलवत्पादौ, विन्यस्यन् सञ्चचार सः ॥७१॥ अन्वय :- पादलेपं च विधाय पादुके च परिधाय जले अपि
स्थलवत् पादौ विन्यस्यन् सः सञ्चचार । समास :- (१) पादलेपम् - पादलेप:-पूर्ववत्, तं पादलेपम् ।
(ष. त. पु.)
(२) स्थलवत् - स्थले इव इति स्थलवत् । (तद्धित) एवं च पादुकारू ढः, स नित्यं जलवर्त्मना । पुरे गतागतं" चक्रे, जनयन्विस्मयं जने ॥७२॥
Page #44
--------------------------------------------------------------------------
________________
૩૫ अन्वय :- एवं च पादुकारूढः सः नित्यं जलवर्त्मना जने विस्मयं
जनयन् पुरे गतागतं चक्रे । समास :- (१) पादुकारूढः - पादुकयोः आरूढः इति पादुकारूढः ।
(स.त.पु.) (२) जलवम॑ना - (A) जलेन पूर्णम् इति जलपूर्णम् ।
(तृ. त. पु.) (B) जलपूर्ण वर्त्म इति जलवम, तेन जलवम॑ना । ___(म. प. लो. क.) (३) गतागतम् - गतं च तद् आगतं च इति गतागतम्,
___ तद् गतागतम् । (वि. उभ. क.) न हि वो दर्शने कोऽपि, प्रभावोऽस्ति यथा हिनः । श्रमणोपासकानेवम्, प्रजहासे से तापसः ॥७३॥ अन्वय :- हि वः दर्शने कोऽपि प्रभावः न अस्ति यथा हि नः एवं
स तापसः श्रमणोपासकान् प्रजहास । समास :- (१) श्रमणोपासकान् - श्रमणान् उपासते इति श्रमणो
पासकाः, तान् श्रमणोपासकान् । (उप. त. पु.) तत्राँऽऽगादाँर्यशमिताचार्यों वज्रस्य मातुलः । विहारक्रमयोगेन, योगसिद्धो महातपाः ॥७४॥ अन्वय :- योगसिद्धः महातपाः वज्रस्य मातुलः आर्यशमिताचार्यः
विहारक्रमयोगेन तत्र आगात् । समास :- (१) आर्यशमिताचार्यः - (A) आर्यशमितः नाम यस्य
सः इति आर्यशमितनामा । (समा.ब.वी.) (B) आर्यशमितनामा आचार्यः इति
आर्यशमिताचार्यः । (म.प.लो.क.)
Page #45
--------------------------------------------------------------------------
________________
૩૬
(२) विहारक्रमयोगेन - (A) विहारस्य क्रम: इति
विहारक्रमः । (ष.त.पु.)
(B) विहारक्रमस्य योगः इति विहारक्रमयोग:, तेन विहारक्रमयोगेन । (ष. त . पु.)
(३) योगसिद्ध: - योगेन सिद्धः इति योगसिद्धः । (तृ.त.पु.) महत् तपः यस्य सः इति महातपाः ।
(४) महातपाः (समा.ब.व्री.)
तस्मै चाचार्यवर्यार्य, कथयामासुरार्हताः । स्वदर्शनोपहासं ते, तापसोपज्ञमुच्चकैः ॥ ७५ ॥
अन्वय :- ते च आर्हताः तस्मै आचार्यवर्याय उच्चकैः तापसोपज्ञं स्वदर्शनोपहासं कथयामासुः ।
समास :- (१) आचार्यवर्याय - आचार्यश्चासौ वर्यश्च इति आचार्यवर्यः, तस्मै आचार्यवर्याय । (विशे० उत्त०क०) (२) आर्हताः - अर्हन् देवः येषाम् इति आर्हताः । देवता ६।२।१०१ अण् प्रत्यय: । ( तद्धित )
(३) स्वदर्शनोपहासम् (A) स्वस्य दर्शनम् इति स्वदर्शनम् । (ष.त.पु.)
(B) स्वदर्शनस्य उपहासः इति स्वदर्शनोपहासः, तं स्वदर्शनोपहासम् । (ष. त. पु.)
(४) तापसोपज्ञम् तापसेन उपजातः इति तापसोपज्ञः, तं तापसोपज्ञम् । (उप.त.पु.) क्वचित् ५।१।१७१.. ड प्रत्ययः ।
-
-
Page #46
--------------------------------------------------------------------------
________________
उ७ तर्दाकाऽर्यशमितः, श्रुतज्ञाने स्फुरत्यपि । ज्ञात्वा मतिबलेनापि, जगाद स्वानुपासकान् ॥७६॥ अन्वय :- तद् आकर्ण्य आर्यशमितः श्रुतज्ञाने स्फुरति अपि मति
__बलेन अपि ज्ञात्वा स्वान् उपासकान् जगाद । समास :- (१) श्रुतज्ञाने-श्रुतं च तद् ज्ञानं च इति श्रुतज्ञानम्,
तस्मिन् श्रुतज्ञाने । (वि. पू. क.) (२) मतिबलेन - मतेः बलम् इति मतिबलम्, तेन
मतिबलेन । (ष. त. पु.) नास्य काऽपि तपःशक्तिस्तापसस्य तपस्विनः । केनाप्यसौं प्रयोगेणं, प्रतारयति वोऽखिलान् ॥७७॥ अन्वय :- तपस्विनः अस्य तापसस्य काऽपि तपःशक्तिः न असौ
___केनापि प्रयोगेण वः अखिलान् प्रतारयति । समास :- (१) तपःशक्तिः - तपसः शक्तिः इति तपःशक्तिः ।
__ (ष.त.पु.) (२) तपस्विनः - तपः अस्ति यस्य तपस्वी, तस्य
तपस्विनः । (तद्धित) अस्तपोमाया. ७।२।४७ विन्
प्रत्ययः । यथा हि अकालपुष्पादि, दर्शितं कौतुकावहम् । तथैतदपि विज्ञानम्, न तपःशक्तिरीदृशी ॥७॥ अन्वय :- यथा हि कौतुकावहम् अकालपुष्पादि दर्शितं तथा एतद्
अपि विज्ञानम् ईदृशी तपःशक्तिः न।
Page #47
--------------------------------------------------------------------------
________________
३८ समास :- (१) अकालपुष्पादि - (A) अकाले फलितम् इति
अकालफलितम् । (स.त.पु.) (B) अकालफलितं पुष्पम् इति अकालपुष्पम् ।
(म.प.लो.क.) (C) अकालपुष्पम् आदौ यस्य तद् इति
अकालपुष्पादि । (व्यधि. ब. वी.) (२) कौतुकावहम् - कौतुकम् आवहति इति
कौतुकावहम् । (उप.त.पु.)
(३) तपःशक्तिः - पूर्ववत् ।। उपदेशमात्रसिद्धे, साध्ये युष्मादृशार्मपि । विज्ञाने विस्मयं कृत्वा, मा स्म श्रद्धत्तं तापसान् ॥७९॥ अन्वय :-युष्मादृशाम् अपि उपदेशमात्रसिद्धे साध्ये विज्ञाने
विस्मयं कृत्वा तापसान् मा श्रद्धत्त स्म । समास :- (१) उपदेशमात्रसिद्ध - (A) उपदेश एव इति
उपदेशमात्रम्। (मयू. कर्म.) (B) उपदेशमात्रेण सिद्धः उपदेशमात्रसिद्धः,
तस्मिन् उपदेशमात्रसिद्धे । (तृ.त.पु.) (२) युष्मादृशाम् - यूयमिव दृश्यन्ते युष्मादृशः, तेषां
युष्मादृशाम् । (उप.त.पु.) त्यदाद्यन्य० ५।१।१५२
क्विप् । यदि वः प्रत्ययो' नास्ति', तापसँस्तन्निमन्त्र्यताम् । गृहागतस्य तस्याही, प्रक्षाल्यौ पादुके अपि ॥८॥
Page #48
--------------------------------------------------------------------------
________________
૩૯
अन्वय :- यदि वः प्रत्ययः न अस्ति तद् तापसः निमन्त्र्यतां गृहागतस्य तस्य अंड्री पादुके अपि प्रक्षाल्यौ । समास :- (१) गृहागतस्य गृहे आगतः इति गृहागतः, तस्य गृहागतस्य । (स.त.पु.)
।
श्रावकैस्तापसः सोऽथ', मायां कृत्वा न्यमन्त्र्यत एकस्य' श्रावकस्यौकस्यगात्परिवृर्तः जनैः " ॥८१॥ अन्वय :- अथ श्रावकैः मायां कृत्वा सः तापसः न्यमन्त्र्यत एकस्य श्रावकस्य ओकसि जनैः परिवृतः आगात् ।
८
श्रावकः सकुटुम्बो ऽपि, दर्शयन्भक्तिनाटकम्' । तं तापसमभाषिष्ट', गृहद्वारर्मुपागतम् ॥ ८२॥ अन्वय :- सकुटुम्बः अपि भक्तिनाटकं दर्शयन् श्रावकः गृहद्वारम् उपागतं तं तापसम् अभाषिष्ट ।
५
समास :- ( १ ) सकुटुम्बः कुटुम्बेन सह वर्तते यः सः इति सकुटुम्बः । (सह. ब. व्री.)
(२) भक्तिनाटकम् - भक्तेः नाटकः इति भक्तिनाटक:,
-
समास :
-
तं भक्तिनाटकम् । (ष. त.पु.)
(३) गृहद्वारम् गृहस्य द्वारम् इति गृहद्वारम्, तद्
(२) त्वत्पादौ
-
गृहद्वारम् । (ष. त.पु.) पादपद्मे
भगर्वन् ! भवतः
प्रक्षालयाम्यहम् ।
ये क्षालयन्ति त्वत्पादावात्मानं क्षालयन्ति ते ॥ ८३ ॥ अन्वय :- भगवन् ! भवतः पादपद्मे अहं प्रक्षालयामि ये त्वत्पादौ क्षालयन्ति ते आत्मानं क्षालयन्ति ।
(१) पादपद्मे - पादौ एव पद्मे इति पादपद्मे, ते पादपद्मे ।
(अव.पू.क.)
१०
तव पादौ इति त्वत्पादौ तौ
त्वत्पादौ । ( ष. त.पु.)
Page #49
--------------------------------------------------------------------------
________________
४०
तदस्माननुगृहौवम्, निस्तारयितुमर्हसि । स्खलयन्ति महात्मानों,भक्ति भक्तिमतां न हि ॥८४॥ अन्वय :- तद् एवम् अनुगृह्य अस्मान् निस्तारयितुम् अर्हसि हि
महात्मानः भक्तिमतां भक्तिं न स्खलयन्ति । समास :- (१) महात्मानः - महान् आत्मा येषां ते इति महात्मानः ।
(समा.ब.वी.) (२) भक्तिमताम् - भक्तिः अस्ति येषां ते इति
भक्तिमन्तः, तेषां भक्तिमताम् । अनिच्छतोऽपि ताथ, श्रावकस्तापसस्य सः । क्षालयामास पादौ च,पादुके चोष्णवारिणा ॥८५॥ अन्वय :- अथ सः श्रावकः अनिच्छतः अपि तस्य तापसस्य पादौ
च पादुके च उष्णवारिणा क्षालयामास । समास :- (१) अनिच्छतः - न इच्छन् इति अनिच्छन्, तस्य
अनिच्छतः । (ष. त. पु.) (२) उष्णवारिणा - उष्णं च तद् वारि च इति उष्णवारि,
तेन उष्णवारिणा । (वि. पू. क.) तत्पादपादुकाशौचर्मकार्षीत्स' तथा यथा । तत्र प्रलेपगन्धोऽपि, नीस्थानीचेऽनुरागवत् ॥८६॥ अन्वय :- सः तथा तत्पादपादुकाशौचम् अकार्षीत् यथा नीचे
अनुरागवत् तत्र प्रलेपगन्धः अपि न अस्थात् । समास :- (१) तत्पादपादुकाशौचम् - (A) पादौ च पादुके च इति
पादपादुकाः । (इ.द्व.) (B) तस्य पादपादुकाः इति तत्पादपादुकाः ।
(ष.त.पु.)
Page #50
--------------------------------------------------------------------------
________________
૪૧
(C) तत्पादपादुकानां शौचम् इति तत्पादपादुका
शौचम्, तद् तत्पादपादुका-शौचम् । (ष.त.पु.) (२) प्रलेपगन्धः - प्रलेपस्य गन्धः इति प्रलेपगन्धः ।
(ष.त.पु.)
(३) अनुरागवत्-अनुरागः इव इति अनुरागवत् । (तद्धित) महत्या प्रतिपत्त्या तम्, तापसं' श्रावकाग्रणीः । अभोजयत् कार्यवशात्,पूज्या मिथ्यादृशोऽपि हि ॥८७॥ अन्वय :- श्रावकाग्रणी: महत्या प्रतिपत्त्या तं तापसम् अभोजयत्
हि मिथ्यादृशः अपि कार्यवशात् पूज्याः (भवन्ति)। समास :- (१) श्रावकाग्रणी: - (A) अग्रं नयति इति अग्रणीः ।
(उप. त. पु.)
(B) श्रावकेषु अग्रणीः इति श्रावकाग्रणीः । (स.त.पु.) (२) कार्यवशात् - कार्यस्य वशम् इति कार्यवशम्,
तस्मात् कार्यवशात् । (ष. त. पु.) (३) मिथ्यादृशः - मिथ्या दृक् येषां ते इति मिथ्यादृशः ।
(अव्य. ब.वी.) तेन लेपापहारेण, तापसो दुर्मनायितः । नाँवेदीद्भोजनास्वादम्, विगोपागमशङ्कया' ॥८८॥ अन्वय :- तेन लेपापहारेण विगोपागमशङ्कया दुर्मनायितः तापसः
भोजनास्वादं न अवेदीत् ।. समास :- (१) लेपापहारेण - लेपस्य अपहारः इति लेपापहारः,
तेन लेपापहारेण । (ष.त.पु.)
Page #51
--------------------------------------------------------------------------
________________
૪૨
(२) दुर्मनायित: - (A) दुष्टं मन: यस्य सः इति दुर्मनाः ।
(प्रादि . ब. व्री.)
(B) दुर्मना इव आचरितः इति दुर्मनायितः । (क्यङ् + त (क्त) प्रत्ययान्त नामधातु) (३) भोजनास्वादम् - भोजनस्य आस्वादः इति भोजनास्वादः, तं भोजनास्वादम् । (ष. त.पु.) (४) विगोपागमशङ्कया – (A) विगोपस्य आगम: इति विगोपागमः । (ष. त.पु.)
(B) विगोपागमस्य शङ्का इति विगोपागमशङ्का, तया विगोपागमशङ्कया । (ष. त.पु.)
२
तापसो' भोजनं' कृत्वा', सरित्तीरं पुनर्ययौ । लोकैर्वृतो' जलस्तम्भकौतूहलदिदृक्षया ॥८९॥ अन्वय :- तापसः भोजनं कृत्वा जलस्तम्भकौतूहलदिदृक्षया लोकैः वृतः पुनः सरित्तीरं ययौ ।
समास :- (१) सरित्तीरम् - सरितः तीरम् इति सरित्तीरम्, तद् सरित्तीरम् । (ष.त.पु.)
(२) जलस्तम्भकौतूहलदिदृक्षया - (A) जले स्तम्भः इति
जलस्तम्भः । (स.त.पु.)
(B) कुतूहलस्य भाव इति कौतूहलम् । (तद्धित ) (C) जलस्तम्भस्य कौतूहलम् इति जलस्तम्भकौतूहलम् (ष.त.पु.)
(D) जलस्तम्भकौतूहलस्य दिदृक्षा इति
जलस्तम्भकौतूहलदिदृक्षा, तया जलस्तम्भकौतूहलदिदृक्षया । (ष. त.पु.)
Page #52
--------------------------------------------------------------------------
________________
४३ लेपाश्रयः स्याद॑द्यापि, कोऽपीत्यल्पमतिः स तु । अलीकसाहसं कृत्वा, प्राग्वत्प्राविशदैम्भसि ॥९०॥ अन्वय :- अद्यापि कोऽपि लेपाश्रयः स्याद् इति अल्पमतिः सः तु
अलीकसाहसं कृत्वा प्राग्वत् अम्भसि प्राविशद् । समास :- (१) लेपाश्रयः - लेपस्य आश्रयः इति लेपाश्रयः ।
(ष.त.पु.) (२) अल्पमतिः - अल्पा मतिः यस्य सः इति अल्पमतिः ।
(समा. ब. वी.) (३) अलीकसाहसम् - अलीकश्चासौ साहसश्च इति
अलीकसाहसः, तम् अलीकसाहसम् । (वि.पू.क.)
(४) प्राग्वत् - प्राग् इव इति प्राग्वत् । (तद्धित) ततः कमण्डलुंरिवे, कुर्वन बुडबुडारवम् । बुडति स्म सरित्तीरे, स तापसकुमारकः ॥९१॥ अन्वय :- ततः कमण्डलुः इव बुडबुडारवं कुर्वन् सः तापस
कुमारकः सरित्तीरे ब्रुडति स्म । समास :- (१) बुड्बुडारवम् - बुड् बुड् आरवः इति बुडबुडारवः,
तं बुडबुडारवम् । (वि. पू. क.) (२) सरित्तीरे - पूर्ववत् । (३) तापसकुमारकः - तापसश्चासौ कुमारकश्च इति
तापसकुमारकः । (वि. उत्त. क.) वयं मायाविनाऽनेनं, मोहिताः स्म कियैच्चिरम् । मलिन्यभूदिति मनस्तदा मिथ्यामिपि ॥१२॥
Page #53
--------------------------------------------------------------------------
________________
४४ अन्वय :- मायाविना अनेन कियत् चिरं वयं मोहिताः स्म इति
तदा मिथ्यादृशाम् अपि मनः मलिन्यभूत् । समास :- (१) मायाविना - माया अस्ति अस्य इति मायावी, तेन
मायाविना । (तद्धित)। (२) मलिन्यभूत् - (A) न मलिनम् इति अमलिनम् ।
(नब्.त.पु.) (B) अमलिनं मलिनम् अभूत् इति मलिन्यभूत् ।
(गति.त.पु.) (३) मिथ्यादृशाम् - मिथ्यादृशः - पूर्ववत्, तेषां मिथ्या
दृशाम्। दत्तताले च तत्कालम्, जने तुमुलकारिणि । आचार्या अपि तत्राऽऽगुः, श्रुतस्कन्धधुरन्धराः ॥१३॥ अन्वय :- तत्कालं दत्तताले तुमुलकारिणि च जने तत्र श्रुतस्कन्ध
धुरन्धराः आचार्याः अपि आगुः। समास :- (१) दत्तताले - दत्तं तालं येन सः इति दत्ततालः, तस्मिन्
दत्तताले । (समा. ब. वी.) (२) तत्कालम् - स चासौ कालश्च इति तत्कालः, तं
तत्कालम् । (वि.पू.क.) (३) तुमुलकारिणि - तुमुलं करोति इति तुमुलकारी,
तस्मिन् तुमुलकारिणि । (उप. त. पु.) (४) श्रुतस्कन्धधुरन्धराः - (A) श्रुतमेव स्कन्धः इति
श्रुतस्कन्धः । (अव.पू.क.) (B) श्रुतस्कन्धस्य धूः इति श्रुतस्कन्धधूः । (ष.त.पु.) (C) श्रुतस्कन्धधुरं धरन्ति इति श्रुतस्कन्ध
धुरन्धराः । (उप.. त. पु.)
Page #54
--------------------------------------------------------------------------
________________
४५
ततश्चिकीर्षवः स्वस्य, दर्शनस्य प्रभावनाम् । आचार्याश्चिक्षिपुर्योगविशेषं सरिदन्तरा ॥९४॥ अन्वय :- ततः स्वस्य दर्शनस्य प्रभावनां चिकीर्षवः आचार्याः
सरिदन्तरा योगविशेष चिक्षिपुः । समास :- (१) चिकीर्षवः - कर्तुम् इच्छन्तीति चिकीर्षवः ।
(सन् + उ) (२) योगविशेषम् - विशिष्टः योगः इति योगविशेषः,
तं योगविशेषम् । (म.व्यं.क.) । (३) सरिदन्तरा - सरितः अन्तरा इति सरिदन्तरा ।
(ष.त.पु.) एहि पुत्र! यथा यामो, वयं परतटे तव । इति चावोचर्दाचार्यवर्यो धुर्यो" महात्मनाम् ॥१५॥ अन्वय :- पुत्र ! एहि यथा वयं तव परतटे यामः इति च महात्मनां
धुर्यः आचार्यवर्यः अवोचद् । समास :- (१) परतटे - परश्चासौ तटश्च इति परतटः, तस्मिन् परतटे ।
(वि. पू. क.) (२) आचार्यवर्यः - पूर्ववत् । । (३) महात्मनाम् - महात्मानः-पूर्ववत्, तेषां
___ महात्मनाम्। तटद्वये ततस्तस्याः', सरितो' मिलिते सति । आचार्यः सपरीवारः, परतीरभुवं ययौ ॥१६॥ अन्वय :- ततः तस्याः सरितः तटद्वये मिलिते सति सपरीवारः
आचार्यः परतीरभुवं ययौ। .
Page #55
--------------------------------------------------------------------------
________________
समास :- (१) तटद्वये - तटयोः द्वयम् इति तटद्वयम्, तस्मिन्
तटद्वये। (ष. त. पु.) (२) सपरीवारः - परीवारेण सह वर्तते यः सः इति
सपरीवारः । (सह. ब. वी.) (३) परतीरभुवम् – (A) परं च तद् तीरञ्च इति परतीरम् ।
(वि.पू.क.) (B) परतीरस्य भूः इति परतीरभूः, तां परतीरभुवम् ।
(ष. त. पु.) आचार्यैदशितं तं चातिशयं प्रेक्ष्य तापसाः । सर्वेऽपि संविविजिरें, तद्भक्तश्चार्खिलो जनः ॥९७॥ अन्वय :- आचार्यैः च दर्शितं तम् अतिशयं प्रेक्ष्य सर्वे अपि
तापसाः अखिलः च तद्भक्तः जनः संविविजिरे । समास :- (१) तद्भक्तः - तेषां भक्तः इति तद्भक्तः । (ष. त. पु.) आचार्यस्यार्यशमितस्यौन्तिके प्रावजन्नर्थ । सर्वे मथितमिथ्यात्वांस्तापसा एकचेतसः ॥९८॥ अन्वय :- अथ आचार्यस्य आर्यशमितस्य अन्तिके एकचेतसः
मथितमिथ्यात्वाः सर्वे तापसाः प्राव्रजन् । समास :- (१) मथितमिथ्यात्वाः - मथितं मिथ्यात्वं यैः ते इति
मथितमिथ्यात्वाः । (समा. ब. वी.) (२) एकचेतसः - एकं चेतः येषां ते इति एकचेतसः ।
(समा. ब. वी.) तें ब्रह्मद्वीपवास्तव्या, इति जातास्तदन्वयें । ब्रह्मद्वीपिकनामान:, श्रमर्णा आगमोदिताः ॥१९॥
Page #56
--------------------------------------------------------------------------
________________
अन्वय :- ते ब्रह्मद्वीपवास्तव्याः इति तदन्वये ब्रह्मद्वीपिकनामानः
श्रमणाः आगमोदिताः जाताः । समास :- (१) ब्रह्मद्वीपवास्तव्याः - (A) ब्रह्म नाम यस्य सः इति
ब्रह्मनामा । (समा.ब.वी.) (B) ब्रह्मनामा द्वीपः इति ब्रह्मद्वीपः । (म.प.लो.क.) (C) ब्रह्मद्वीपे वास्तव्याः इति ब्रह्मद्वीपवास्तव्याः ।
(स. त. पु.) (२) तदन्वये-तेषाम् अन्वयः इति तदन्वयः, तस्मिन् तदन्वये।
(ष. त. पु.) (३) ब्रह्मद्वीपिकनामानः - (A) ब्रह्मद्वीपे भवम् इति
ब्रह्मद्वीपिकम् । (तद्धित) (B) ब्रह्मद्वीपिकं नाम येषां ते इति
ब्रह्मद्वीपिकनामानः । (समा. ब. वी.) (४) आगमोदिताः - आगमे उदिताः इति आगमोदिताः ।
(स. त. पु.) इतश्च वज्रस्तत्रस्थः, क्रमेणा तु त्रिहायणः । तदा चं धनगिर्याधीस्तत्रं साधर्व आययुः ॥१००॥ अन्वय :- इतः च तत्रस्थः वज्रः क्रमेण त्रिहायणः अभूत् तदा च
तत्र धनगिर्याद्याः साधवः आययुः।। समास :- (१) तत्रस्थः - तत्र तिष्ठति इति तत्रस्थः । (उप.त. पु.)
(२) त्रिहायणः - त्रीणि हायनानि यस्य सः इति
त्रिहायणः । (संख्या. ब. वी) चतुस्नेर्हायन० २।३।७४ णत्वं भवति । ...... -
Page #57
--------------------------------------------------------------------------
________________
४८
(३) धनगिर्याद्याः - धनगिरिः आद्यः येषु ते इति
__ धनगिर्याद्याः । (समा. ब. व्री.) आयास्यति धनगिरिग्रहीष्यामि स्वात्मजम् । सुनन्दैवं चिन्तयन्ती, तेष्वायातेवमोदत ॥१०१॥ अन्वय :- धनगिरिः आयास्यति स्वम् आत्मजं ग्रहीष्यामि एवं
चिन्तयन्ती सुनन्दा तेषु आयातेषु अमोदत । समास :- (१) आत्मजम् - आत्मनः जातः इति आत्मजः, तम्
___ आत्मजम् । (उप. त. पु.) सुनन्दाऽपि महर्षिभ्यः, स्वनन्दनमयाचत । ते पुनर्पियामासुः, प्रत्यभाषन्त चैदृशम् ॥१०२॥ अन्वय :- सुनन्दा अपि महर्षिभ्यः स्वनन्दनम् अयाचत ते पुनः न
__ अर्पयामासुः ईदृशं च प्रत्यभाषन्त । समास :- (१) महर्षिभ्यः - महान्तश्चामी ऋषयश्च इति महर्षयः,
तेभ्यः महर्षिभ्यः । (वि. पू. क.) (२) स्वनन्दनम् - स्वस्य नन्दनः इति स्वनन्दनः, तं
स्वनन्दनम् । (ष. त. पु.) अयाचितस्त्वया दत्तों, मुग्धेऽस्मभ्यमयं शिशुः । वान्तानमिवं को दत्तं, पुनरादातुमिच्छति ॥१०३॥ अन्वय :- मुग्धे ! त्वया अस्मभ्यम् अयाचितः अयं शिशुः दत्तः
वान्तानम् इव दत्तं पुनः आदातुं कः इच्छति । समास :- (१) अयाचितः-न याचितः इति अयाचितः । (नञ्.त.पु.)
(२) वान्तान्नम् - वान्तं च तद् अन्नं च इति वान्तान्नम्, तद्
वान्तान्नम्। (वि. पू. क.)
Page #58
--------------------------------------------------------------------------
________________
४९ विक्रीतेलि दत्तेषु, स्वामित्वमपगच्छति । मां याचिष्ठाः सुतं दत्त्वाँ, त्वयैष परसात्कृतः ॥१०४॥ अन्वय :- विक्रीतेषु इव दत्तेषु स्वामित्वम् अपगच्छति सुतं दत्त्वा मा
याचिष्ठाः त्वया एष परसात्कृतः । समास :- (१) परसात्कृतः - परस्मिन् अधीनः कृतः इति
परसात्कृतः । तत्राधीने ७५२।१३२ सात् प्रत्ययः ।
(तद्धित) पक्षयोरुभयोरेवमुच्चैर्विवदमानयोः । लोकोऽवादींदमुंवादम्, राजा निर्धारयिष्यति ॥१०५॥ अन्वय :- एवम् उच्चैः विवदमानयोः उभयोः पक्षयोः लोकः
____अवादीत् अमुं वादं राजा निर्धारयिष्यति । ततः सुनन्दा लोकेन, सहिता नृपपर्षदि । जगाम सङ्घसहिताः, श्रमणां अर्पि तें ययुः ॥१०६॥ अन्वय :- ततः लोकेन सहिता सुनन्दा नृपपर्षदि जगाम सङ्घ
सहिताः ते श्रमणाः अपि ययुः । समास :- (१) नृपपर्षदि - नृपस्य पर्षद् इति नृपपर्षद, तस्यां
नृपपर्षदि । (ष.त.पु.) (२) सङ्घसहिताः - सङ्घन सहिताः इति सङ्घसहिताः ।
(तृ.त.पु.) राज्ञो न्यषीदद्वामेन, सुनन्दा दक्षिणेन तु । श्रीमान्सङ्घः समस्तोऽपिं, यथास्थानमथापरे ॥१०७॥ अन्वय :- अथ सुनन्दा राज्ञः वामेन दक्षिणेन तु श्रीमान् समस्तः
अपि सङ्घः अपरे यथास्थानं न्यषीदत् ।
Page #59
--------------------------------------------------------------------------
________________
૫૦
समास :- (१) श्रीमान् - श्रियः सन्ति यस्य श्रीमान् । (तद्धित)
(२) यथास्थानम् - स्थानस्य योग्यम् इति यथास्थानम् ।
(अव्य. भा.) परिभाव्य द्वयोर्भाषांमुत्तरं चावदन्नृपः । येनाहूतः समायाति, बालस्तस्यै भर्वत्वसौं ॥१०८॥ अन्वय :- नृपः द्वयोः भाषां परिभाव्य उत्तरं च अवदत् येन आहूतः
____बालः समायाति तस्य असौ भवतु । तं निर्णयममंसाताम् , तौ तु पक्षावुभावपि । इति चोंचतुरौंदौक, सूनुमाह्वार्तुमर्हति ॥१०९॥ अन्वय :- तौ उभौ अपि पक्षौ तं निर्णयम् अमंसातां तु इति च
ऊचतुः आदौ कः सूनुम् आह्वातुम् अर्हति । स्त्रीगृह्याः प्रोचिरें पौरां, वतिनामेष बालकः । चिरसङ्घटितप्रेमा, तद्वचों नोतिलङ्घतें ॥११०॥ अन्वय :- स्त्रीगृह्याः पौराः प्रोचिरे वतिनां चिरसङ्घटितप्रेमा एषः
बालकः तद्वचः न अतिलङ्घते। समास :- (१) स्त्रीगृह्याः-स्त्रीभिः गृह्याः इति स्त्रीगृह्याः। (तृ.त.पु.)
(२) चिरसंङ्घटितप्रेमा - (A) चिरेण संघटितम् इति
चिरसङ्घटितम् । (प्रादि.क.) (B) चिरसङ्घटितं प्रेम यस्य सः इति
चिरसंघटितप्रेमा । (समा. ब. वी.) (३) तद्वचः-तेषां वचः इति तद्वचः, तद् तद्वचः । (ष.त.पु.)
Page #60
--------------------------------------------------------------------------
________________
मातैवाह्वयतामादावियं दुष्करकारिणी' । नारीति चानुकम्प्याऽपि,भवत्येतद्धिनान्या ॥१११॥ अन्वय :- माता च दुष्करकारिणी इति इयम् एव आदौ आह्वयताम्
नारी अनुकम्प्या एतद् अपि हि अन्यथा न भवति । समास :- (१) दुष्करकारिणी - (A) दुःखेन क्रियते इति दुष्करम् ।
_ (उप.त.पु.)
(B) दुष्करं करोति इति दुष्करकारिणी । (उप. त. पु.) ततः सुनन्दा बहुशो', बालक्रीडनकानि च । विविधानि च भक्ष्याणि, दर्शयन्त्येवमभ्यीत् ॥११२॥ अन्वय :- ततः च बहुशः बालक्रीडनकानि विविधानि च भक्ष्याणि
दर्शयन्ती सुनन्दा एवम् अभ्यधात् । समास :- (१) बालक्रीडनकानि - (A) बालस्य योग्यानि इति
बालयोग्यानि । (ष.त.पु.) (B) बालयोग्यानि क्रीडनकानि इति बालक्रीडन
___ कानि तानि बालक्रीडनकानि। (म.प.लो.क.) हस्तिनोऽमी अमी अश्वा:, पत्तयोऽमी अमी रथाः । तवं क्रीडार्थमाँनीतास्तद् गृहाणैहि दारक ! ॥११३॥ अन्वय :- अमी हस्तिनः अमी अश्वाः अमी पत्तयः अमी रथाः
तव क्रीडार्थम् आनीताः दारक ! एहि तद् गृहाण । समास :- (१) क्रीडार्थम्-क्रीडायाः अर्थम् इति क्रीडा न.पू.) ★ अदोमुमी १।२।३५ सूत्रेणाऽत्राऽसन्धिः - A HAI HA
Page #61
--------------------------------------------------------------------------
________________
પર
मोदको मण्डको द्राक्षाः, शर्करांश्चान्यदप्यदः । यदिच्छसि तदस्त्येव, गृह्यतामेहि दारके ! ॥११४॥ अन्वय :- मोदकाः मण्डकाः द्राक्षाः शर्कराः च अन्यद् अपि अदः
यद् इच्छसि तद् अस्ति एव दारक ! एहि गृह्यताम् । तर्वायुष्मन् ! कृर्षीयोहम्, सर्वाङ्गमवतारणे । चिरं जीवं चिरं नन्द, सुनन्दीमाशु मोदय ॥११५॥ अन्वय :- आयुष्मन् ! अहं तव अवतारणे सर्वाङ्ग कृषीय चिरं
जीव चिरं नन्द सुनन्दाम् आशु मोदय । समास :- (१) सर्वाङ्गम् - सर्वं च तद् अङ्गं च इति सर्वाङ्गम्,
तद् सर्वाङ्गम् । (वि.पू.क.) मम देवों मम पुत्रों , ममात्माँ मम जीवितम् । त्वमैासीति मां दीनाम्, परिष्वङ्गेण जीवयं ॥११६॥ अन्वय :- त्वम् एव मम देवः मम पुत्रः मम आत्मा मम जीवितम्
असि इति दीनां मां परिष्वङ्गेण जीवय । विलक्षा मा कृथा वसं !, मां लोकस्यास्यं पश्यतः । हृदयं मेंऽन्यथा भावि, पक्ववालुङ्कवद् द्विर्धा ॥१७॥ अन्वय :- वत्स ! अस्य लोकस्य पश्यतः मां विलक्षां मा कृथाः
अन्यथा मे हृदयं पक्ववालुङ्कवद् द्विधा भावि । समास :- (१) पक्ववालुङ्कवद् - (A) पक्वं च तद् वालुङ्कं च
इति पक्ववालुङ्कम् । (वि.पू.क.) (B) पक्ववालुङ्कम् इव इति पक्ववालुङ्कवद् ।
(तद्धित)
Page #62
--------------------------------------------------------------------------
________________
પ૩ एहि हंसगते! वत्स!, मैमोत्सङ्ग परिष्कुरु । कुक्षिवासावक्रयों में, न लभ्यः किमियानपि ? ॥१८॥ अन्वय :- हंसगते ! वत्स ! एहि मम उत्सङ्गं परिष्कुरु किम् इयान्
___अपि मे कुक्षिवासावक्रयः न लभ्यः ? । समास :- (१) हंसगते ! - हंसस्य गतिः इव गतिः यस्य सः इति
हंसगतिः, तत्संबोधने हंसगते ! । (उप.ब.वी.) (२) कुक्षिवासावक्रयः - (A) कुक्षौ वासः इति
कुक्षिवासः । (स.त.पु.) (B) कुक्षिवासस्य अवक्रयः इति कुक्षिवासावक्रयः ।
(ष.त.पु.) एवं क्रीडनकैर्भक्ष्यप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दायाँ, नाभ्यगच्छन्मनांगपिं ॥११९॥ अन्वय :- एवं क्रीडनकैः चाटुकैः भक्ष्यप्रकारैः अपि सौनन्देयः
मनाग् अपि सुनन्दायाः न अभ्यगच्छत् । समास :- (१) भक्ष्यप्रकारैः - भक्ष्याणां प्रकाराः इति भक्ष्यप्रकाराः,
तैः भक्ष्यप्रकारैः । (ष.त.पु.) (२) सौनन्देयः - सुनन्दायाः अपत्यम् इति सौनन्देयः ।
__ याप्त्यूङः ६।१७०... एयण् (तद्धित) नं मातुरुपकाराणाम्',कोऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुर्वज एवमचिन्तयत् ॥१२०॥ अन्वय :- मातुः उपकाराणां कः अपि पुमान् अनृणः न स्याद् एवं
विदन् अपि सुधीः वज्रः एवम् अचिन्तयत् ।
Page #63
--------------------------------------------------------------------------
________________
૫૪
समास :- (१) अनृणः - न विद्यते ऋणं यस्य सः इति अनृणः ।
___(नञ्.ब.वी.)
(२) सुधीः - पूर्ववत् । यदि सङ्घमुपेक्षिष्य, कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारौं', दीर्घदीर्घतरः खलु ॥१२१॥ अन्वय :- यदि अहं मातुः कृपां कृत्वा सङ्घम् उपेक्षिष्ये तदा खलु
___ मम संसारः दीर्घदीर्घतरः स्यात् । समास :- (१) दीर्घदीर्घतरः - दीर्घाद् दीर्घतरः इति दीर्घदीर्घतरः ।
__ (प.त.पु.) इयं च धन्या माता , मेऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्याँ ह्यांपातमात्रज दुःखमयदः ॥१२२॥ अन्वय :- मे इयं च धन्या अल्पकर्मा माता प्रव्रजिष्यति अस्याः
हि आपातमात्रजम् अदः दुःखम् अपि उपेक्ष्यम् । समास :- (१) अल्पकर्मा - अल्पानि कर्माणि यस्याः सा इति
अल्पकर्मा । (समा.ब.वी.) (२) आपातमात्रजम् - (A) आपातम् एव इति
आपातमात्रम्। (मयू.व्यं.क.) (B) आपातमात्रात् जातम् इति आपातमात्रजम् ।
(उप.त.पु.) दीर्घदर्शी विमृश्यैवम्', वज्रों वज्रहढाशयः। प्रतिमास्र्थ इवं स्थानान्ने चचाल मनागर्पि ॥१२३॥
.
.
.)
Page #64
--------------------------------------------------------------------------
________________
૫૫ अन्वय :- दीर्घदर्शी वढाशयः वज्रः एवं विमृश्य प्रतिमास्थः
इव स्थानात् मनाग् अपि न चचाल । समास :- (१) दीर्घदर्शी - दीर्घ पश्यति इति दीर्घदर्शी । (उप.त.पु.)
(२) वज्रढाशयः - (A) दृढः आशयः इति दृढाशयः।
(वि.पू.क.) (B) वज्र इव दृढाशयः यस्य सः इति वज्रढाशयः।
(उप.ब.वी.) (३) प्रतिमास्थः - प्रतिमा इव तिष्ठति इति प्रतिमास्थः ।
(उप.त.पु.) राजर्जाऽवादीत्सुनन्दै! त्वमपसर्प शिशुहसी । नागादीहूयमानस्त्वाम॑जानन्निवं मातरम् ॥१२४॥ अन्वय :- राजा अवादीत् सुनन्दे ! त्वम् अपसर्प त्वां मातरम्
अजानन् इव आहूयमानः हि असौ शिशुः न आगात् । समास :- (१) अजानन् - न जानन् इति अजानन् । (नञ्.त.पु.)
ततों राज्ञा धनगिरिः, प्राप्तावसरैमीरितः । रजोहरणमुत्क्षिप्य, जगावं मिताक्षरम् ॥१२५॥ अन्वय :- ततः राज्ञा प्राप्तावसरम् ईरितः धनगिरिः रजोहरणम्
उत्क्षिप्य मिताक्षरम् एवं जगाद । समास :-*(१)प्राप्तावसरम् - प्राप्तः अवसरः यथा स्यात् तथा
इति प्राप्तावसरम् । (समा.ब.वी.) * एतत्समासे यत्-तत्सर्वनामप्रयोगो नास्ति तथापि स बहुव्रीहिः कथ्यते, दृश्यताम् समाससुबोधिकायाम् नि. ६४ .....
Page #65
--------------------------------------------------------------------------
________________
પદ
००
(२) रजोहरणम् - रजांसि हियते अनेन इति रजोहरणम्, ____ तद् रजोहरणम् । (उप.त.पु.) (३) मिताक्षरम् - मितानि अक्षराणि यस्मिन् तद् इति
__ मिताक्षरम्, तद् मिताक्षरम् । (समा.ब.वी.) व्रते चेद् व्यवसायस्ते, तत्त्वज्ञोऽसि यदि स्वयम् । तंद्रजोहरणं धर्मध्वजमीदवं मेनर्घ ! ॥१२६॥ अन्वय :- अनघ ! चेद् व्रते ते व्यवसायः यदि स्वयं तत्त्वज्ञः
असि तद् मे धर्मध्वजं रजोहरणम् आदत्स्व । समास :- (१) तत्त्वज्ञः - तत्त्वं जानाति इति तत्त्वज्ञः । (उप.त.पु.)
(२) रजोहरणम् - पूर्ववत् । (३) धर्मध्वजम् - धर्मस्य ध्वजः इति धर्मध्वजः, तं
धमर्ध्वजम् । (ष.त.पु.) (४) अनघ ! - न सन्ति अघानि यस्मिन् सः इति
अनघः, तत्संबोधने अनघ ! (नञ्.ब.वी.) वज्रस्तदैव कलभ, ईंवोत्क्षिप्तकरों दुतम् । दधावाभिधनगिरि, प्रवणत्पादघर्घरः ॥१२७॥ अन्वय :- तदा एव कलभः इव उत्क्षिप्तकरः प्रक्वणत्पादघर्घरः
वज्रः अभिधनगिरि द्रुतं दधाव । समास :- (१) उत्क्षिप्तकरः - उत्क्षिप्तौ करौ येन सः इति
उत्क्षिप्तकरः । (समा. ब.वी.) (२) अभिधनगिरि - धनगिरिम् अभि इति अभिधनगिरि ।
(अव्य.भा.)
Page #66
--------------------------------------------------------------------------
________________
૫૭ (३) प्रक्वणत्पादघर्घरः - (A) पादयोः बद्धाः इति
पादबद्धाः (स.त.पु.) (B) पादबद्धाः घर्घराः इति पादघर्घराः ।
(म.प.लो.क.) (C) प्रक्वणन्तः पादघर्घराः यस्य सः इति
प्रक्वणत्पादघर्घरः । (समा.ब.वी.) गत्वा च पितुरुत्सङ्गमधिरुह्यं विशुद्धधी । तंद्रजोहरणं लीलासरोजवदुपादर्दै ॥१२८॥ अन्वय :- विशुद्धधीः च गत्वा पितुः उत्सङ्गम् अधिरुह्य लीला
सरोजवत् तद् रजोहरणम् उपाददे । समास :- (१) विशुद्धधीः - विशुद्धा धीः यस्य सः इति विशुद्धधीः ।
__ (समा. ब.वी.) (२) रजोहरणम् - पूर्ववत्, तद् रजोहरणम् । (३) लीलासरोजवत् - (A) सरसि जातम् इति सरोजम् ।
(उप.त.पु.) (B) लीलया गृहीतम् इति लीलागृहीतम्। (तृ.त.पु.) (C) लीलागृहीतं सरोजम् इति लीलासरोजम् ।
__ (म.प.लो.क.)
(D) लीलासरोजम् इव इति लीलासरोजवत्। (तद्धित) वज्रेणं पाणिपद्माभ्याम्', रजोहरणमुद्धृतम् । विरराजं रोमगुच्छ, इवं प्रवचनश्रियः ॥१२९॥ अन्वय :- वज्रेण पाणिपद्माभ्याम् उद्धृतं रजोहरणं प्रवचनश्रियः
रोमगुच्छः इव दिरराज।
Page #67
--------------------------------------------------------------------------
________________
૫૮
समास :- (१) पाणिपद्माभ्याम् - पाणी इव पद्मे इति पाणिपये,
ताभ्यां पाणिपद्माभ्याम् । (अव.पू.क.) (२) रजोहरणम् - पूर्ववत् । (३) रोमगुच्छः - रोम्णां गुच्छः इति रोमगुच्छः । (ष.त.पु.) (४) प्रवचनश्रियः - प्रवचनमेव श्रीः इति प्रवचनश्रीः,
तस्याः प्रवचनश्रियः । (अव.पू.क.) उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः । से रजोहरणाद् दृष्टिम् , नान्यत्रादान्मनागपिं ॥१३०॥ अन्वय :- उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः सः रजोहरणाद्
अन्यत्र मनाग् अपि दृष्टिं न अदात् । समास :- (१) उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः -
(A) कुन्दस्य कलिकाः इति कुन्दकलिकाः । (ष.त.पु.) (B) उल्लसन्त्यश्चेमाः कुन्दकलिकाश्च इति उल्लस
त्कुन्दकलिकाः । (वि.पू.क.) (C) उल्लसत्कुन्दकलिकायाः आकारः येषां ते इति
उल्लसत्कुन्दकलिकाकाराः । (व्यधि.ब.वी.) (D) उल्लसत्कुन्दकलिकाकाराः दन्ताः इति
उल्लसत्कुन्दकलिकाकारदन्ताः । (वि.पू.क.) (E) उल्लसत्कुन्दकलिकाकारदन्तानां द्युतिः इति
उल्लसत्कुन्दकलिकाकारदन्तद्युतिः । (ष.त.पु.) (F) उल्लसत्कुन्दकलिकाकारदन्तद्युत्या स्मितः इति
उल्लसत्कुन्दकलिकाकारदन्तद्युतिस्मितः ।
(तृ.त.पु.) (२) रजोहरणाद् - रजोहरणम्-पूर्ववत्, तस्मात् जोहरणाद् ।
Page #68
--------------------------------------------------------------------------
________________
૫૯
दिनात्ययें पद्मिनींव, सद्य म्लानमुपेयु । हस्तविन्यस्तचिबुकाँ, सुनन्दैवमंचिन्तयत् ॥१३१॥
अन्वय :- दिनात्यये पद्मिनी इव सद्यः म्लानिम् उपेयुषी हस्तविन्यस्तचिबुका सुनन्दा एवम् अचिन्तयत् ।
समास :- (१) दिनात्यये दिनस्य अत्ययः इति दिनात्ययः, तस्मिन् दिनात्यये । (ष. त.पु.)
(२) हस्तविन्यस्तचिबुका - (A) हस्ते विन्यस्तः इति हस्तविन्यस्त: । (स. त.पु.)
(B) हस्तविन्यस्त: चिबुकः यया सा इति हस्तविन्यस्तचिबुका । (समा. ब. व्री.)
-
ད
भ्राता ममं प्रव्रजितो, भर्ता प्रव्रजितोऽर्थं । प्रव्रजिष्यतिं पुत्रोऽपिं प्रव्रजाम्यहमप्येतैः ॥१३२॥
?
अन्वय :- मम भ्राता प्रव्रजितः भर्ता प्रव्रजितः अथ मे पुत्रः अपि प्रव्रजिष्यति ततः अहम् अपि प्रव्रजामि ।
?
१४
नै भ्रातां न में भर्ता' नं मे पुत्रोऽपिं सम्प्रति । तन्ममपिं परिव्रज्यों, श्रेयसी" गृहवासतः ॥१३३॥ अन्वय :- भ्राता न मे भर्ता न सम्प्रति मे पुत्रः अपि न तत् मम अपि गृहवासतः परिव्रज्या श्रेयसी ।
समास :- (१) गृहवासत: गृहे वासः इति गृहवासः, तस्मात् गृहवासतः । (स.त.पु.)
स्वयमेवैर्ति निर्णीय, सुनन्दा सदनं ययौ । वज्रर्मंदार्यं वसतीम्ं, प्रययुर्मुनयोऽपिं तें ॥१३४॥
-
Page #69
--------------------------------------------------------------------------
________________
अन्वय :- इति स्वयम् एव निर्णीय सुनन्दा सदनं ययौ ते मुनयः
अपि वज्रम् आदाय वसती प्रययुः । व्रतेच्र्छन पपौ स्तन्यम, वज्रस्तावद्वयों अपि । इत्याचा परिव्राज्य, साध्वीनां पुनराप्यते ॥१३५॥ अन्वय :- व्रतेच्छुः तावद्वयाः अपि वज्रः स्तन्यं न पपौ इति
__ आचार्यैः परिव्राज्य पुनः सः साध्वीनाम् आर्ग्यत । समास :- (१) व्रतेच्छुः - व्रतम् इच्छति इति व्रतेच्छुः (उप.त.पु.)
(२) तावद्वयाः - (A) तत्प्रमाणं यस्य इति तावत् ।
(तद्धित) (B) तावद् वयः यस्य सः इति तावद्वयाः ।
(समा.ब.वी.) उद्यद्भाग्यविशेषेणं, भववैराग्यभूद् भृशम् ।
सुनन्दोऽपि प्रवव्राज, तद्गच्छाचार्यसन्निधौ ॥१३६॥ अन्वय :- सुनन्दा अपि उद्यद्भाग्यविशेषेण भृशं भववैराग्यभूत्
तद्गच्छाचार्यसन्निधौ प्रवव्राज । समास :- (१) उद्यद्भाग्यविशेषेण – (A) उद्यद् च तद् भाग्यं च
इति उद्यद्भाग्यम् । (वि.पू.क.) (B) विशिष्टम् उद्यद्भाग्यम् इति उद्यद्भाग्यविशेषः,
तेन उद्यद्भाग्यविशेषेण । (मयू.व्यं.क.) (२) भववैराग्यभूत्- (A) विगतो रागः यस्मात् सः इति
विरागः । (प्रादि.ब.वी.) (B) विरागस्य भावः इति वैरागम् (तद्धित) । (C) भवस्य वैरागम् इति भववैरागम् । (ष.त.पु.)
Page #70
--------------------------------------------------------------------------
________________
E१
(D) नास्ति भववैरागं यस्याः सा इति
अभववैरागा। (नञ्.ब.वी.) (E) अभववैरागा भववैरागा अभूत् इति
भववैराग्यभूत् । (गति.त.पु.) (३) गच्छाचार्यसन्निधौ - (A) गच्छस्य आचार्यः इति
गच्छाचार्यः । (ष.त.पु.) (B) गच्छाचार्यस्य सन्निधिः इति गच्छाचार्यसनिधिः,
तस्मिन् गच्छाचार्यसन्निधौ । (ष.त.पु.) पठदार्यामुर्खाच्छृण्वन्नान्येकादशापिं हि । पदानुसारौं भगवान्, वज्रोऽधीयाय धीनिधिः॥१३७॥ अन्वय :- पठदार्यामुखात् शृण्वन् धीनिधिः पदानुसारी भगवान्
वज्रः एकादश अपि अङ्गानि हि अधीयाय । समास :- (१) पठदार्यामुखात् - (A) पठन्त्यश्चामू: आर्याश्च इति
पठदार्याः । (वि.पू.क.) (B) पठदार्याणां मुखम् इति पठदार्यामुखम्, तस्मात्
__ पठदार्यामुखात् । (ष.त.पु) (२) पदानुसारी - पदम् अनुसरतीत्येवंशीलः इति
पदानुसारी । (उप.त.पु.) (३) धीनिधिः-धियः निधिः इति धीनिधिः । (ष.त.पु.) अष्टवर्षोऽभवद्वजों', यावदार्याप्रतिश्रये । ततो वसत्यामानिन्ये, हर्षभाग्भिर्महर्षिभिः ॥१३८॥
Page #71
--------------------------------------------------------------------------
________________
अन्वय :- यावद् आर्याप्रतिश्रये वज्रः अष्टवर्षः अभवत् ततः
हर्षभाग्भिः महर्षिभिः वसत्याम् आनिन्ये। समास :- (१) अष्टवर्षः - अष्टौ वर्षाणि यस्य सः इति अष्टवर्षः ।
(संख्या.ब.वी.) (२) आर्याप्रतिश्रये - आर्यायाः प्रतिश्रयः इति
आर्याप्रतिश्रयः, तस्मिन् आर्याप्रतिश्रये । (ष.त.पु.) (३) हर्षभाग्भिः - हर्षं भजन्ते इति हर्षभाजः, तैः ___ हर्षभाग्भिः । (उप.त.पु.)
(४) महर्षिभिः - पूर्ववत् । अन्यदा वज्रगुरवः, प्रत्यवन्ती प्रतस्थिरें । धाराधरोऽखण्डधारमन्तराले ववर्ष च ॥१३९॥ अन्वय :- अन्यदा वज्रगुरवः अवन्ती प्रति प्रतस्थिरे अन्तराले च
धाराधरः अखण्डधारं ववर्ष । समास :- (१) वज्रगुरवः - (A) वज्रेण युक्ताः इति वज्रयुक्ताः ।
(तृ.त.पु.) (B) वज्रयुक्ताः गुरवः इति वज्रगुरवः ।
(म.प.लो.क.) (२) धाराधरः - धारां धरति इति धाराधरः । (उप.त.पु.) (३) अखण्डधारम् - (A) नास्ति खण्डं यस्यां सा इति
अखण्डा । (नञ्.ब.वी.) (B) अखण्डा धारा यस्मिन् यथा स्यात् तथा इति
अखण्डधारम् तद् अखण्डधारम् । (समा.ब.वी.)
Page #72
--------------------------------------------------------------------------
________________
यक्षमण्डपिकाप्रायें, स्थाने कोप्यस्रवज्जलें। आचार्या वज्रगुरवस्ते तस्थुः सपरिच्छदाः॥१४०॥ अन्वय :- क्व अपि अस्रवज्जले यक्षमण्डपिकाप्राये स्थाने आचार्याः
वज्रगुरवः सपरिच्छदाः तस्थुः । समास :- (१) यक्षमण्डपिकाप्राये - (A) यक्षस्य मण्डपिका इति
यक्षमण्डपिका । (ष.त.पु.) (B) यक्षमण्डपिकया प्रायः इति यक्षमण्डपिकाप्रायः,
___ तस्मिन् यक्षमण्डपिकाप्राये । (तृ.त.पु.) (२) अस्रवज्जले - (A) न स्रवत् इति अस्रवत्
(नञ्.त.पु.) (B) अस्रवत् जलं यस्मिन् तद् इति अस्रवज्जलम्,
तस्मिन् अस्रवज्जले । (समा.ब.वी.) (३) वज्रगुरवः - पूर्ववत् । (४) सपरिच्छदाः - परिच्छदेन सह वर्तन्ते ये ते इति
सपरिच्छदाः । (सह.ब.वी.) प्राग्जन्मसुहृदो वज्रयामरा जृम्भकास्तदा ।
सत्त्वं परीक्षितु तत्रं , वणिग्मूर्तीविचक्रिरें ॥१४१॥ अन्वय :- तदा प्राग्जन्मसुहृदः जृम्भकाः अमराः वज्रस्य सत्त्वं
परीक्षितुं तत्र वणिग्मूर्तीः विचक्रिरे । समास :- (१) प्राग्जन्मसुहृदः - (A) प्राग् चेदं जन्म च इति
प्राग्जन्म । (वि.पू.क.) (B) प्राग्जन्मनः सुहृदः इति प्राग्जन्मसुहृदः ।
(ष.त.पु.)
Page #73
--------------------------------------------------------------------------
________________
૬૪
(२) वणिग्मूर्ती: - वणिजां मूर्तयः इति वणिग्मूर्तयः, ताः वणिग्मूर्ती: । (ष.त.पु.)
उत्पर्याणितबद्धाश्ववृषभं दौष्टुम् । मण्डलीकृतशकटम्, सन्निवेशितकेणिकम् ॥१४२॥
1
जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम् राद्धान्नोत्तीर्णपात्रीकम्ौं,भुञ्जानजनसङ्कुलम् ॥१४३॥
तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् ।
आवासं ते दिविषदों, वणिग्रूप विचक्रिरे ॥१४४॥
(त्रिभिर्विशेषकम् )
अन्वय :- वणिग्रूपाः ते दिविषदः उत्पर्याणितबद्धाश्ववृषभं चरदौष्ट्रकं मण्डलीकृतशकटं सन्निवेशितकेणिकं जवनच्छ्न्नविक्रेयवस्तुगोणीपरम्परं राद्धानोत्तीर्णपात्रीकं भुञ्जानजनसङ्कुलं तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् आवासं विचक्रिरे ।
"केणिका - वस्त्रकृतगृहम् " तम्बु इति भाषायाम् । केणिका पटकुट्यपि ॥६८१ ॥ गुणलयनिकार्या स्यात् । इत्यभिधाने । (६८२ )
समास :- (१) उत्पर्याणितबद्धाश्ववृषभम् – (A) उन्नतं पर्याणम्
इति उत्पर्याणम् । (प्रादि कर्म . )
(B) उत्पर्याणं कृताः इति उत्पर्याणिताः (नामधातु + क्त प्रत्यय)
(C) उत्पर्याणिताश्च ते बद्धाश्च इति उत्पर्याणितबद्धा: (वि.उभ.क.)
Page #74
--------------------------------------------------------------------------
________________
૬૫
(D) उत्पर्याणितबद्धाः अश्वाः वृषभाः यस्मिन् सः
इति उत्पर्याणितबद्धाश्ववृषभः, तम् उत्पर्या
णितबद्धाश्ववृषभम् । (समा०बहु.प.ब.वी.) (२) चरदौष्ट्रकम् - (A) उष्ट्राणां समूहः इति औष्ट्रकम् ।
(तद्धित) गोत्रोक्षवत्सोष्ट्र० ६।१।१२ अकञ्। (B) चरद् औष्ट्रकं यस्मिन् सः इति चरदौष्ट्रकः,
तं चरदौष्ट्रकम् । (समा.ब.वी.) (३) मण्डलीकृतशकटम् - (A) न मण्डलानि इति
अमण्डलानि । (नञ्.त.पु.) (B) अमण्डलानि मण्डलानि कृतानि इति
मण्डलीकृतानि । (गति.त.पु.) (C) मण्डलीकृतानि शकटानि यस्मिन् सः इति ___ मण्डलीकृतशकटः, तं मण्डलीकृतशकटम् ।
(समा.ब.वी.) (४) सन्निवेशितकेणिकम् - (A) सन्निवेशं कृताः इति
सन्निवेशिताः । (नामधातु + क्त प्रत्ययः) (B) सन्निवेशिताः केणिकाः यस्मिन् सः इति
सनिवेशितकेणिकः, तं सनिवेशितकेणिकम् ।
(समा.ब.वी.) (५) जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम्
(A) जवनैः छना इति जवनच्छना । (तृ.त.पु.) (B) विक्रेयाणि च तानि वस्तूनि च इति विक्रेयवस्तूनि ।
(वि.पू.क.)
Page #75
--------------------------------------------------------------------------
________________
૬૬
(C) विक्रेयवस्तूनां गोण्यः इति विक्रेयवस्तुगोण्यः । (ष.त.पु.)
(D) विक्रेयवस्तुगोणीनां परम्परा इति विक्रेयवस्तुगोणीपरम्परा । (ष.त.पु.)
(E) जवनच्छन्ना विक्रेयवस्तुगोणीपरम्परा यस्मिन् सः इति जवनच्छ्न्नविक्रेयवस्तुगोणीपरम्परः, तं जवनच्छन्नविक्रेयवस्तुगोणीपरम्परम् । (समा.ब.व्री.)
(६) राद्धान्नोत्तीर्णपात्रीकम् (A) राद्धानि च तानि अन्नानि च इति राद्धान्नानि । (वि.पू.क.)
(B) उत्तीर्णाश्चामूः पात्र्यश्च इति उत्तीर्णपात्र्यः ।
(वि.पू.क.)
(C) राद्धान्नानाम् उत्तीर्णपात्र्यः यस्मिन् सः इति राद्धान्नोतीर्णपात्रीकः तं राद्धान्नोत्तीर्णपात्री
,
कम् । (व्य.ब.व्री.)
(७) भुञ्जानजनसंकुलम् – (A) भुञ्जानाश्च ते जनाश्च इति भुञ्जानजना: । (वि.पू.क.)
(B) भुञ्जानजनानां संकुलं यस्मिन् सः इति भुञ्जानजनसंकुलः, तं भुञ्जानजनसंकुलम् । (व्यधि.ब.व्री.)
(८) तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम् – (A) तृणै: निर्मितानि इति तृणनिर्मितानि । (तृ.त.पु.)
Page #76
--------------------------------------------------------------------------
________________
૬૭ (B) तृणनिर्मितानि प्रावरणानि इति तृणप्रावरणानि ।
(म.प.लो.क.) (C) तृणप्रावरणैः छन्नः इति तृणप्रावरणच्छन्नः ।
(तृ.त.पु.) (D) कर्म कुर्वन्ति इति कर्मकृतः । (उप.त.पु.)
कर्मकृतश्चामी जनाश्च इति कर्मकृज्जनाः ।
(वि.पू.क.) (F) सञ्चरन्तः कर्मकृज्जनाः यस्मिन् सः इति
सञ्चरत्कर्मकृज्जनः । (समा.ब.वी.) (G) तृणप्रावरणच्छनश्चासौ सञ्चरत्कर्मकृज्जनश्च इति
तृणप्रावरणच्छन्नसञ्चरत्कर्मकृज्जनः, तं तृण
प्रावरणच्छन्नसञ्चरत्कर्मकृज्जनम्। (वि.उभ.क.) (९) दिविषदः- दिवि सीदन्ति इति दिविषदः ।
(उप.त.पु.) (१०) वणिग्रूपा :- वणिजः रूपं येषां ते इति वणिग्रूपाः ।
(व्यधि.ब.वी.) वारिदै विरतप्रायें, तानाचार्यान्दिवौकसः। न्यमन्त्रयन्तं भिक्षार्थम् , हूस्ववन्दनपूर्वकम् ॥१४५॥ अन्वय :- वारिदे विरतप्राये दिवौकसः तान् आचार्यान् हुस्ववन्दन
पूर्वकं भिक्षार्थं न्यमन्त्रयन्त । समास :- (१) वारिदे - वारि ददाति इति वारिदः, तस्मिन् वारिदे।
(उप.त.पु.) (२) विरतप्राये - विरतेन प्रायः इति विरतप्रायः, तस्मिन्
विरतप्राये । (तृ.त.पु.) .
Page #77
--------------------------------------------------------------------------
________________
६८
(३) दिवौकस :- दिवा ओकः येषां ते इति दिवौकसः ।
(समा.ब.व्री.)
(४) भिक्षार्थम् - भिक्षायाः अर्थम् इति भिक्षार्थम् । (ष. त.पु.)
(५) ह्रस्ववन्दनपूर्वकम् - (A) ह्रस्वं च तद् वन्दनं च इति ह्रस्ववन्दनम् । (वि.पू.क.)
(B) ह्रस्ववन्दनेन पूर्वकम् इति ह्रस्ववन्दनपूर्वकम् । (तृ. त.पु.)
निवृत्तमिव विज्ञाय वृष्टिमाचार्यपुङ्गवः । वज्रमादिर्दिशुर्भिक्षाऽऽनयने विनयोज्ज्वलम् ॥१४६॥ अन्वय :- आचार्यपुङ्गवाः वृष्टिं निवृत्ताम् इव विज्ञाय विनयोज्ज्वलं वज्रं भिक्षाऽऽनयने आदिदिशुः ।
समास :- (१) आचार्यपुङ्गवाः - आचार्याश्चामी पुङ्गवाश्च इति आचार्यपुङ्गवाः । (वि. उत्त.क.)
,
(२) भिक्षाऽऽनयने भिक्षायाः आनयनम् इति भिक्षाऽऽनयनम्, तस्मिन् भिक्षाऽऽनयने । (ष.त.पु.) (३) विनयोज्ज्वलम् विनयेन उज्ज्वलः इति विनयोज्ज्वलः, तं विनयोज्ज्वलम् । (तृ. त.पु.) वज्रोऽर्थावश्यि(श्य )कीं कृत्वा, द्वितीयमुनिना सह । विहर्तुं निरगादीयशुद्धिमध्वनिं चिन्तयन् ॥ १४७॥ अन्वय :- अथ वज्रः आवश्यि (श्य) कीं कृत्वा द्वितीयमुनिना सह अध्वनि ईर्याशुद्धि चिन्तयन् विहर्तुं निरगाद् ।
-
-
Page #78
--------------------------------------------------------------------------
________________
६४ समास :- (१) द्वितीयमुनिना - द्वितीयश्चासौ मुनिश्च इति द्वितीयमुनिः,
तेन द्वितीयमुनिना । (वि.पू.क.) । (२) ईर्याशुद्धिम् - ईर्यायाः शुद्धिः इति ईर्याशुद्धिः, तां
ईर्याशुद्धिम् । (ष.त.पु.) तुषारोन्यततों दृष्टवा, त्रसरेणुनिभानपि। वज्रों निववृते च द्राँग्भीतोऽप्कायविराधनात् ॥१४८॥ अन्वय :- त्रसरेणुनिभान् अपि तुषारान् पततः दृष्ट्वा अप्कायविरा
___ धनात् भीत: च वज्रः द्राग् निववृते । समास :- (१) त्रसरेणुनिभान्-(A) त्रसानां रेणवः इति त्रसरेणवः ।
(ष.त.पु.) (B) त्रसरेणुभिः निभाः इति त्रसरेणुनिभाः, तान्
त्रसरेणुनिभान् । (तृ.त.पु.) (२) अप्कायविराधनात्- (A) आपः काया यस्य सः
इति अप्कायः । (समा.ब.वी.) (B) अप्कायस्य विराधनम् इति अप्कायविराधनम्,
तस्मात् अप्कायविराधनात् । (ष.त.पु.) तुषारमात्रामप्यम्बुवृष्टिं देवी निरुध्ये ताम् । आह्वासत पुर्नवज्रम, वृष्टिनास्तीति भाषिणः॥१४९॥ अन्वय :- तुषारमात्राम् अपि ताम् अम्बुवृष्टिं निरुध्य वृष्टिः न अस्ति
___ इति भाषिणः देवाः पुनः वज्रम् आह्वासत । समास :- (१) तुषारमात्राम् - तुषारस्य मात्रा यस्याः सा इति
तुषारमात्रा, तां तुषारमात्राम् । (व्यधि.ब.वी.)
Page #79
--------------------------------------------------------------------------
________________
...
७०
(२) अम्बुवृष्टिम् - अम्बुनः वृष्टिः इति अम्बुवृष्टिः, ताम्
अम्बुवृष्टिम् । (ष.त.पु.) वज्रस्तदुपरोधेनं, वृष्टयभावेनं चाँचलत् । जगामं च तदावासम्, भक्तपानादिसुन्दरम् ॥१५०॥ अन्वय :- वृष्ट्यभावेन तदुपरोधेन च वज्रः अचलत् भक्तपानादि
सुन्दरं च तदावासं जगाम। समास :- (१) तदुपरोधेन - तेषाम् उपरोधः इति तदुपरोधः, तेन
तदुपरोधेन । (ष.त.पु.). (२) वृष्ट्यभावेन - वृष्टेः अभावः इति वृष्ट्यभावः,
तेन वृष्ट्य भावेन । (ष.त.पु.) (३) तदावासम् - तेषाम् आवासः इति तदावासः, तं
तदावासम् । (ष.त.पु.) (४) भक्तपानादिसुन्दरम् - (A) भक्तं च पानं च इति
भक्तपाने । (इ.द्व.) (B) भक्तपाने आदौ येषां ते इति भक्तपानादयः ।
(व्यधि.ब.वी.) (C) भक्तपानादिभिः सुन्दरः इति भक्तपानादिसुन्दरः,
तं भक्तपानादिसुन्दरम् । (तृ.त.पु.) ससम्भ्रमेषु देवेषु, तेषु भक्तादिदित्सयां । द्रव्यक्षेत्रकालभावैरुपयोगमदत्तं सः ॥१५१॥ अन्वय :- भक्तादिदित्सया ससम्भ्रमेषु तेषु देवेषु सः द्रव्यक्षेत्र
कालभावैः उपयोगम् अदत्त ।
Page #80
--------------------------------------------------------------------------
________________
૭૧
समास :- (१) ससम्भ्रमेषु सम्भ्रमेण सह वर्तन्ते ये ते इति ससम्भ्रमाः, तेषु ससम्भ्रमेषु । (सह.ब.व्री.)
(२) भक्तादिदित्सया - (A) भक्तम् आदौ येषां तानि इति भक्तादीनि । (व्यधि. ब. व्री.)
(B) दातुम् इच्छा इति दित्सा (इच्छार्थक सन् + अ प्रत्ययः)
(C) भक्तादीनां दित्सा इति भक्तादिदित्सा, तया भक्तादिदित्सया । (ष. त.पु.)
(३) द्रव्यक्षेत्रकालभावैः - द्रव्यं च क्षेत्रं च कालश्च भावश्च इति द्रव्यक्षेत्रकालभावाः, तैः द्रव्यक्षेत्रकालभावैः । (इ.द्व.)
कूष्माण्डकादिकं द्रव्यम्, कुतो राद्धमंसम्भविं । इदर्मुज्जयिनी क्षेत्रम्, स्वभावादपिं कर्कशम् ॥ १५२ ॥ प्रावृर्षि प्रथमायां "चं, द्रव्यस्यास्यै कथपिं की । दातारोऽप्यनिमेषाक्ष, अभूस्पृक्चरणी इति ॥१५३॥ नियतं” देवपिण्डोऽयम्", साधूनां नें हिं" कल्पते । तस्मार्दैनात्तपिण्डोऽपिं व्रजामि गुरु सन्निधौ ॥१५४॥ (त्रिभिर्विशेषकम् )
२३
.२४
,
अन्वय :- असम्भवि राद्धं कूष्माण्डकादिकं द्रव्यं कुत: ? इदम् उज्जयिनीक्षेत्रं स्वभावात् अपि कर्कशम्, प्रथमायां च प्रावृषि अस्य द्रव्यस्य कथा अपि का ? दातारः अपि अनिमेषाक्षाः अभूस्पृक्चरणाः इति नियतम् अयं
Page #81
--------------------------------------------------------------------------
________________
૭૨
देवपिण्डः, साधूनां हि न कल्पते तस्मात् अनात्तपिण्डः
अपि गुरुसन्निधौ व्रजामि। समास :- (१) कूष्माण्डकादिकम् - कूष्माण्डकाः आदौ यस्मिन् तद्
कूष्माण्डकादिकम् । (व्य.ब.वी.) । (२) असम्भवि-न सम्भवि इति असम्भवि। (नञ्.त..) (३) उज्जयिनीक्षेत्रम् - (A) उज्जयिनी नाम यस्य तद्
इति उज्जयिनीनाम, (समा.ब.वी.) । . (B) उज्जयिनीनाम क्षेत्रम् इति उज्जयिनीक्षेत्रम् ।
(म.प.लो.क.) (४) अनिमेषाक्षाः - (A) नास्ति निमेष: ययोस्ते इति
अनिमेषे । (न.ब.वी.) (B) अनिमेषे अक्षिणी येषां ते इति अनिमेषाक्षाः ।
(समा.ब.वी.) (५) अभूस्पृक्चरणा: - (A) भुवं स्पृशतः इति भूस्पृशौ ।
(उप.त.पु.) (B) भूस्पृशौ चरणौ इति भूस्पृक्चरणौ। (वि.पू.क.) (C) न स्तः भूस्पृक्चरणौ येषां ते अभूस्पृक्चरणाः ।
(नञ्.ब.वी.) (६) देवपिण्ड:-देवस्य पिण्डः इति देवपिण्डः। (ष.त.पु.) (७) अनात्तपिण्ड:-(A) न आत्तः इति अनात्तः । (नञ्त.पु.)
(B) अनात्तः पिण्डः येन सः इति अनात्तपिण्डः ।
___(समा.ब.वी.) (८) गुरुसन्निधौ - गुरोः सन्निधिः इति गुरुसन्निधिः, तस्मिन्
गुरुसन्निधौ । (ष.त.पु.)
Page #82
--------------------------------------------------------------------------
________________
93
ईत्यनादाय तर्द्धिक्षाम्, वज्रस्वामीं न्यवर्तते । प्रत्यक्षीभूतैश्चाथ, जगदें विस्मितैः सुरैः ॥१५५॥ अन्वय :- इति तद्भिक्षाम् अनादाय वज्रस्वामी न्यवर्तत अथ च विस्मितैः तैः सुरैः प्रत्यक्षीभूय जगदे ।
समास :- (१) अनादाय - न आदाय इति अनादाय । (नञ्.त. पु.) (२) तद्भिक्षाम् - तेषां भिक्षा इति तद्भिक्षा, तां तद्भिक्षाम् । (ष. त.पु.)
(३) वज्रस्वामी - पूर्ववत् ।
-
(४) प्रत्यक्षीभूय – (A) न प्रत्यक्षम् इति अप्रत्यक्षम् । (नञ्.त.पु.) (B) अप्रत्यक्षं प्रत्यक्षं भूत्वा इति प्रत्यक्षीभूय । (गति.त. पु.)
वयं हिं जृम्भको देवाः, प्राग्जन्मसुहृदैस्तवं । त्वां द्रष्टुमगमींमेर्ह, त्वद्यापिं' र्हि नः सुहृत् ॥१५६॥ अन्वय :- हि वयं तव प्राग्जन्मसुहृदः जृम्भकाः देवाः त्वां द्रष्टुम् इह आगमाम हि अद्यापि त्वं नः सुहृत् (असि) ।
समास :- (१) प्राग्जन्मसुहृदः - पूर्ववत् ।
अर्थ वैक्रियलब्ध्याख्याम्, विद्यां तोषभृतोऽमराः । निष्क्रयं क्लृप्तमायाय', इव वज्रार्यं ते ददुः ॥१५७॥ :- अथ तोषभृतः ते अमराः क्लृप्तमायायाः निष्क्रयम् इव वैक्रियलब्ध्याख्यां विद्यां वज्राय ददुः ।
अन्वय :
निष्क्रयम्-प्रत्युपकारम् । "बदलो" इति भाषायाम् ।
Page #83
--------------------------------------------------------------------------
________________
७४
समास :- (१) वैक्रियलब्ध्याख्याम् - (A) वैक्रियं (शरीरं) करोति
इति वैक्रियकृत् । (उप.त.पु.)
(B) वैक्रियकृत् लब्धिः इति वैक्रियलब्धिः । (म.प.लो.क.)
(C) वैक्रियलब्धि: आख्या यस्याः सा इति वैक्रियलब्ध्याख्या, तां वैक्रियलब्ध्याख्याम् । (समा.ब.व्री.)
(२) तोषभृतः - तोषं बिभ्रति इति तोषभृतः । (उप.त.पु.) (३) क्लृप्तमायायाः क्लृप्ता चासौ माया च इति क्लृप्तमाया, तस्या: क्लृप्तमायाया: । (वि.पू.क.)
ज्येष्ठ माँस्यन्यद वज्रों, विहरं बहिर्भुवि । नैगमीभूर्य
तैर्देवैर्धृतपूरैर्न्यमन्त्र्यते ॥ १५८ ॥
अन्वय :- अन्यदा च ज्येष्ठे मासि बहिर्भुवि विहरन् वज्रः तैः देवैः नैगमीभूय घृतपूरैः न्यमन्त्र्यत ।
समास :- (१) बहिर्भुवि - भुवः बहिः इति बहिर्भूः, तस्यां बहिर्भुवि । (ष.त.पु.)
(२) नैगमीभूय – (A) न नैगमाः इति अनैगमाः ।
-
(नञ्.त.पु.)
(B) अनैगमाः नैगमाः भूत्वा इति नैगमीभूय (गति.त.पु.)
वज्रों गर्त्वा तदावा, देवपिण्डं चं पूर्ववत् । ज्ञाव ने खलु जग्राहोपैयोगविदुरों हि सः ॥१५९॥
ܐ
Page #84
--------------------------------------------------------------------------
________________
૭૫ अन्वय :- खलु उपयोगविदुरः सः वज्रः तदावासे गत्वा पूर्ववत्
च देवपिण्डं ज्ञात्वा हि न जग्राह । समास :- (१) तदावासे - पूर्ववत् ।
(२) देवपिण्डम् - पूर्ववत् । (३) पूर्ववत् - पूर्वम् इव इति पूर्ववत् । (तद्धित) (४) उपयोगविदुरः - उपयोगे विदुरः इति उपयोगविदुरः ।
__ (स.त.पु.) वज्रार्य पूर्वसुहृदे, विद्यामाकाशगामिनीम् । प्रदर्दूस्तोषभार्जस्तै , स्वं स्वं स्थानमथों ययुः ॥१६०॥ अन्वय :- अथो तोषभाजः ते पूर्वसुहृदे वज्राय आकाशगामिनी
विद्यां प्रददुः स्वं स्वं स्थानं ययुः । समास :- (१) पूर्वसुहृदे - पूर्वस्य (जन्मनः) सुहृद् इति पूर्वसुहृद्,
तस्मै पूर्वसुहृदे । (ष.त.पु.) (२) आकाशगामिनीम् - आकाशे गमयति इत्येवंशीला
इति आकाशगामिनी, ताम् आकाशगामिनीम् ।
(उप.त.पु.) (३) तोषभाजः - तोषं भजन्ते इति तोषभाजः ।
(उप.त.पु.) भजो विण् ५।१।१४६ विण् प्रत्ययः । ततों विहरतों गच्छमध्ये वज्रस्य चाभवत् । पदानुसारिलब्ध्यात्ता, सुस्थिरै कादायपिं ॥१६१॥ अन्वय :- ततः च गच्छमध्ये विहरतः वज्रस्य पदानुसारिलब्ध्या
आत्ता एकादशाङ्गी अपि सुस्थिरा अभवत् ।
Page #85
--------------------------------------------------------------------------
________________
समास :- (१) गच्छमध्ये - गच्छस्य मध्यम् इति गच्छमध्यम्,
तस्मिन् गच्छमध्ये । (ष.त.पु.) (२) पदानुसारिलब्ध्या - पूर्ववत् । (३) सुस्थिरा - शोभना स्थिरा इति सुस्थिरा ।
(सु.पू.क.)
(४) एकादशाङ्गी - पूर्ववत् । अधीयमानमश्रौषीयद्यपूर्वगताद्यपि । ततज्जग्राह भगवान्, वज्रों मेधाविनां वरः॥१६२॥ अन्वय :- मेधाविनां वरः भगवान् वज्रः यद् यद् अधीयमानम्
___ अपि पूर्वगतादि अश्रौषीद् तद् तद् जग्राह । समास :- (१) पूर्वगतादि - (A) पूर्वेषु गतम् इति पूर्वगतम् ।
(स.त.पु.) (B) पूर्वगतम् आदौ यस्मिन् तद् इति पूर्वगतादि,
___ तद् पूर्वगतादि। (व्यधि.ब.वी.) (२) मेधाविनाम् - मेधा अस्ति येषाम् इति मेधाविनः,
तेषां मेधाविनाम् । (तद्धित)। या पठेति स्थविरो, वजं स्मास्तिदा हिं सः । किंचिदै गुणगुणारवम्, निद्रालुंरिवं निर्ममें ॥१६३॥ अन्वय :- यदा स्थविराः पठ इति वज्रम् आहुः स्म तदा हि सः
निद्रालुः इव किंचिद् गुणगुणारवं निर्ममे । समास :- (१) गुणगुणारवम् – गुणगुणः आरवः इति गुणगुणारवः,
तं गुणगुणारवम् । (वि.पू.क.)
Page #86
--------------------------------------------------------------------------
________________
स्थविराज्ञाभङ्गभीरुः, स्वशक्तिं चाप्रकाशयन् । अव्यक्तमुद्गृणन्किचित्, सोऽश्रौषीत्यठतोपरान् ॥१६४॥ अन्वय :- स्थविराज्ञाभङ्गभीरुः स्वशक्तिं च अप्रकाशयन् किंचित्
अव्यक्तम् उद्गृणन् सः पठतः अपरान् अश्रौषीद् । समास :- (१) स्थविराज्ञाभङ्गभीरुः - (A) स्थविराणाम् आज्ञा इति
स्थविराज्ञा । (ष.त.पु.) (B) स्थविराज्ञायाः भङ्गः इति स्थविराज्ञाभङ्गः।
(ष.त.पु.) (C) स्थविराज्ञाभङ्गाद् भीरुः इति स्थविराज्ञाभङ्ग
भीरुः । (पं.त.पु.) (२) स्वशक्तिम् - स्वस्य शक्तिः इति स्वशक्तिः, तां
स्वशक्तिम् । (ष.त.पु.) (३) अप्रकाशयन् - न प्रकाशयन् इति अप्रकाशयन् ।
(नञ्.त.पु.) (४) अव्यक्तम् - न व्यक्तम् इति अव्यक्तम्, तद् अव्यक्तम्।
__ (नञ्.त.पु.) अन्यस्मिन्नह्रि मध्याह्ने , भिक्षार्थं साधवों ययुः । आचार्यमिश्रा अपि तें, बहिर्भूमौ विनिर्ययुः ॥१६५॥ अन्वय :- अन्यस्मिन् अह्नि मध्याह्ने साधवः भिक्षार्थं ययुः ते
आचार्यमिश्राः अपि बहिर्भूमौ विनिर्ययुः ।
मिश्रः-गौरववाची। समास :- (१) मध्याह्ने - अह्नः मध्यम् इति मध्याह्नः, तस्मिन्
मध्याह्ने । (ष.त.पु.)
Page #87
--------------------------------------------------------------------------
________________
७८
(२) भिक्षार्थम् - पूर्ववत् । (३) आचार्यमिश्राः - आचार्याश्चामी मिश्राश्च इति
आचार्यमिश्राः । (विशे.उत्त.क.) (४) बहिर्भूमौ - भूमेः बहिः इति बहिर्भूमिः, तस्यां
बहिर्भूमौ । (पं.त.पु.) तस्थौ तु वजं एकाकी', पश्चाद्वसतिरक्षकः । सं साधूनां मण्डलेने, वेष्टिकाः सन्यवीविशत् ॥१६६॥ अन्वय :- वज्रः तु वसतिरक्षकः एकाकी तस्थौ पश्चाद् सः साधूनां
वेष्टिकाः मण्डलेन सन् न्यवीविशत् । समास :- (१) वसतिरक्षकः - वसतिं रक्षतीति वसतिरक्षकः ।
(उप.त.पु.) (२) एकाकी - एक एव इति एकाकी । (तद्धित)
एकादाकिन० ७।३।२७ इति आकिन् । आचार्य इव शिष्याणाम्', तासां मध्ये निषधं सः। वाचनां दातुमारेभे', प्रावृडम्भोधरध्वनिः ॥१६७॥ अन्वय :- आचार्यः शिष्याणाम् इव प्रावृडम्भोधरध्वनिः सः तासां
मध्ये निषद्य वाचनां दातुम् आरेभे। समास :- (१) प्रावृडम्भोधरध्वनिः - (A) अम्भः धरति इति
अम्भोधरः। (उप.त.पु.) (B) प्रावृषः अम्भोधरः इति प्रावृडम्भोधरः ।
(ष.त.पु.)
Page #88
--------------------------------------------------------------------------
________________
७८
(C) प्रावृडम्भोधरस्य ध्वनिः इव ध्वनि: यस्य सः इति प्रावृडम्भोधरध्वनि: । (उप.ब.व्री.)
एकादशानामङ्गानामपिं पूर्वगतस्य च । वाचनां पुर्नरागच्छन्ं, गुरुः शुश्राव दूरतः ॥ १६८ ॥ अन्वय :- पुनः आगच्छन् गुरुः दूरतः एकादशानाम् अङ्गानां पूर्वगतस्य अपि च वाचनां शुश्राव ।
समास :- (१) पूर्वगतस्य पूर्ववत् । - वसतिद्वारंमायातः श्रुत्वा गहगहारवम् । आचार्योऽचिन्तयेत्किं नुं, सार्धवः शीघ्रमार्गताः ॥ १६९॥
अन्वय :- वसतिद्वारम् आयात: आचार्य: गहगहारवं श्रुत्वा अचिन्तयत् किं नु साधवः शीघ्रम् आगताः ?
समास :- (१) वसतिद्वारम् - वसते: द्वारम् इति वसतिद्वारम् तद् वसतिद्वारम् । (ष.त.पु.)
(२) गहगहारवम् - गह गह आरवः इति गहगहारवः, तं गहगहारवम् । (वि.पू.क.)
अस्मदागमनमंमी, पालयन्तों महर्षयः । स्वाध्यायं कुर्वतें भिक्षामुपादाय समागताः ॥ १७०॥ अन्वय :- अस्मदागमनं पालयन्तः भिक्षाम् उपादाय समागता: अमी महर्षयः स्वाध्यायं कुर्वते ।
समास :- (१) अस्मदागमनम् - अस्माकम् आगमनम् इति अस्मदागमनम्, तद् अस्मदागमनम् । (ष. त.पु.)
Page #89
--------------------------------------------------------------------------
________________
... ८० (२) महर्षयः - पूर्ववत् ।
(३) स्वाध्यायम् - पूर्ववत् । आचार्याचे विदाञ्चकैः, क्षणं स्थित्वा विमृश्य च। यथैर्ष वज्रबालाचनां ददतों ध्वनिः ॥१७१॥ अन्वय :- आचार्याः च क्षणं स्थित्वा विमृश्य च वाचनां ददतः
वज्रबालर्षेः यथा एष ध्वनिः (इति) विदाञ्चक्रुः । समास :- (१) वज्रबालर्षेः - (A) वज्रः नाम यस्य सः वज्रनामा।
(समा.ब.वी.) (B) बालश्चासौ ऋषिश्च इति बालर्षिः । (वि.पू.क.) (C) वज्रनामा चासौ बार्षिश्च इति वज्रबालर्षिः,
तस्य वज्रबालर्षेः । (म.प.लो.क.) असौं पूर्वगतस्यैकादशाङ्ग्यो अपि वाचनाम् । यद्दत्त तत्किमध्यैष्ट', गर्भस्थों विस्मयामहे ॥१७२॥ अन्वय :- असौ पूर्वगतस्य एकादशाङ्ग्याः अपि वाचनां यद् दत्ते
तत् गर्भस्थः किम् अध्यैष्ट (इति) विस्मयामहे । समास :- (१) पूर्वगतस्य - पूर्ववत् ।
(२) एकादशाङ्ग्याः - एकादशाङ्गी - पूर्ववत्, तस्याः
एकादशाङ्ग्याः ।
(३) गर्भस्थः - गर्भे तिष्ठति इति गर्भस्थः । (उप.त.पु.) स्थविरैः पाठ्यमानोऽयमत एवालसायते । बाल्यांत्पाठालसं इति; ज्ञात्वाशिमं तदा वयम् ॥१७३॥ अन्वय :- अत एव स्थविरैः पाठ्यमानः अयम् अलसायते तदा
बाल्यात् पाठालसः इति ज्ञात्वा वयम् अशिष्म ।
Page #90
--------------------------------------------------------------------------
________________
८१
समास :- (१) अलसायते - अलसः इव आचरति इति अलसायते ।
(नामधातु)
(२) पाठालसः - पाठे अलसः इति पाठालसः । (स.त.पु.) अस्मदाकर्णनाशङ्की, लज्जितो माँ स्म भंदसौं । रोमाञ्चिताः शिष्यगुणराचार्या इत्यपासरन् ॥१७४॥ अन्वय :- अस्मदाकर्णनाशङ्की असौ लज्जितः मा भूत् स्म इति
शिष्यगुणैः रोमाञ्चिताः आचार्याः अपासरन् । समास :- (१) अस्मदाकर्णनाशङ्की- (A) अस्माकम् आकर्णनम्
इति अस्मदाकर्णनम् । (ष.त.पु.) (B) अस्मदाकर्णनम् आशङ्कते इति अस्मदाकर्ण
. नाशङ्की । (उप.त.पु.) (२) शिष्यगुणैः - शिष्यस्य गुणाः इति शिष्यगुणाः,
तैः शिष्यगुणैः । (ष.त.पु.) शब्देन महताचार्या श्चकुनै षेधिकीमर्थ । गुरूणां शब्दमाकर्योदस्थाद्वजोऽपि विष्टरात् ॥१७५॥ अन्वय :- अथ आचार्याः महता शब्देन नैषेधिकी चक्रुः गुरूणां
शब्दम् आकर्ण्य वज्रः अपि विष्टरात् उदस्थाद् । उपेत्य जिहितगतिर्न यावत्प्राविशद् गुरु: । ताव॑तो वेष्टिको स्वस्वस्थाने वजों मुमोर्चचं ॥१७६॥ अन्वय :- उपेत्य च जिसितगतिः गुरुः यावत् न प्राविशद् तावत्
वज्रः ताः वेष्टिकाः स्वस्वस्थाने मुमोचें ।
Page #91
--------------------------------------------------------------------------
________________
૮ર '
समास :- (१) जिंहितगतिः - जिसिता गतिः यस्य सः इति
जिसितगतिः । (समा.ब.वी.) (२) स्वस्वस्थाने - (A) स्वस्वम् पूर्ववत् । ___ (B) स्वस्वस्य स्थानम् इति स्वस्वस्थानम्, तस्मिन्
स्वस्वस्थाने । (ष.त.पु.) अभ्येत्यं चे गुरोर्दण्डमाददेहि ममार्ज च। तदँजो वन्दनैनोच्चैः, स्वभालमंवगुण्डयन् ॥१७७॥ अन्वय :- अभ्येत्य च गुरोः दण्डम् आददे उच्चैः वन्दनेन तद्रजः
स्वभालम् अवगुण्डयन् अंहि च ममार्ज। समास :- (१) स्वभालम् - स्वस्य भालम् इति स्वभालम्, तद्
स्वभालम् । (ष.त.पु.) (२) तद्रजः - तस्य रजः इति तद्रजः तद् तद्रजः ।
(ष.त. पु.) आसनस्थस्य चं गुरोः, पादौ प्रासुकवारिणां । क्षालयामास शिरसा, ववन्दे पादवारि च ॥१७८॥ अन्वय :- आसनस्थस्य च गुरोः पादौ प्रासुकवारिणा क्षालयामास
पादवारि च शिरसा ववन्दे ।। समास :- (१) आसनस्थस्य - आसने तिष्ठतीति आसनस्थः, तस्य
आसनस्थस्य । (उप.त.पु.) (२) प्रासुकवारिणा – (A) प्रासुकम् - पूर्ववत् । (B) प्रासुकं च तद् वारि च इति प्रासुकवारि, तेन
प्रासुकवारिणा । (वि.पू.क.) (३) पादवारि -पादयोः वारि इति पादवारि तद् पादवारि ।
(ष.त.पु.)
Page #92
--------------------------------------------------------------------------
________________
૮૩
आचार्यश्चिन्तयामासुर्महात्मा बालकोऽप्यसौ । श्रुतसागरपारीणों, रक्ष्योऽवज्ञास्पदीभवन् ॥ १७९॥
अन्वय :- आचार्याः चिन्तयामासुः श्रुतसागरपारीणः असौ बालक: अपि महात्मा अवज्ञास्पदीभवन् रक्ष्यः ।
समास :- (१) महात्मा - पूर्ववत् ।
(२) श्रुतसागरपारीण: - (A) श्रुतमेव सागरः इति श्रुतसागरः । (अव.पू.क.)
(B) पारं गच्छति इति पारीण: । (तद्धित)
(C) श्रुतसागरस्य पारीणः इति श्रुतसागरपारीणः । (ष. त.पु.)
(३) अवज्ञास्पदीभवन् – (A) अवज्ञाया: आस्पदम् इति
-
अवज्ञास्पदम् । (ष. त.पु.)
(B) न अवज्ञास्पदम् इति अनवज्ञास्पदम् । (नञ्.त.पु.)
(C) अनवज्ञास्पदम् अवज्ञास्पदं भवन् इति अवज्ञास्पदीभवन् । ( गति . त . पु.)
अजानन्तोऽस्य माहात्म्यम्, बालस्यांप्येन्यसाधर्वः । कुर्वर्त्तिनं यथावज्ञाम् प्रयतिष्यामहें तथ ॥१८०॥
अन्वय :- अस्य बालस्य माहात्म्यम् अजानन्तः अपि अन्यसाधवः यथा अवज्ञां न कुर्वन्ति तथा प्रयतिष्यामहे । समास :- (१) अजानन्तः न जानन्तः इति अजानन्तः ।
(नञ्.त.पु.)
-
Page #93
--------------------------------------------------------------------------
________________
८४ (२) माहात्म्यम् - महात्मा-पूर्ववत्, महात्मनः भावः इति
माहात्म्यम्, तद् माहात्म्यम् । (तद्धित) (३) अन्यसाधवः - अन्ये च ते साधवश्च इति
__ अन्यसाधवः । (वि.पू.क.) इत्याचार्या विभावर्याम, शिष्येभ्योऽकथयन्निति । यास्यामों ग्रामममुकम्, द्वित्राहं तत्रे न: स्थितिः ॥१८१॥ अन्वय :- इति अमुकं ग्रामं यास्यामः तत्र नः द्वित्राहं स्थितिः इति
आचार्याः विभावर्यां शिष्येभ्यः अकथयन् । समास :- (१) द्वित्राहम् - (A) द्वे वा त्रीणि वा इति द्वित्राणि ।
(संख्या .ब.वी.) (B) द्वित्राणाम् अह्नां समाहारः इति द्वित्राहम्, तद्
द्वित्राहम् । (द्विगु.क.) व्यजिज्ञप॑न् गुरुं योगप्रतिपन्नाचे साधवैः । भगवन्! वाचनाचार्यस्तत्कोऽस्माकभविष्यति ?॥१८२॥ अन्वय :- योगप्रतिपन्नाः च साधवः गुरुं व्यजिज्ञपन् भगवन् ! तत्
अस्माकं वाचनाचार्यः कः भविष्यति ? समास :- (१) योगप्रतिपन्ना:-योगं प्रतिपन्नाः इति योगप्रतिपन्नाः ।
(द्वि.त.पु.) (२) वाचनाचार्य:- (A) वाचनां दत्ते इति
वाचनादायकः । (उप.त.पु.) (B) वाचनादायकः आचार्यः इति वाचनाचार्यः ।
(म.प.लो.क.)
Page #94
--------------------------------------------------------------------------
________________
૮૫
व्रजो वो वाचनाचार्यो, भवितेत्यादिशद् गुरुः। भक्तत्वादविचार्यैव प्रत्यपद्यन्त ते ती ॥१८३॥ अन्वय :- वः वाचनाचार्यः वज्रः भविता इति गुरुः आदिशद्
भक्तत्वाद् अविचार्य एव ते तथा प्रत्यपद्यन्त । समास :- (१) वाचनाचार्यः - पूर्ववत् ।
(२) अविचार्य - न विचार्य इति अविचार्य ।
(नञ्.त.पु.) प्रातःकृत्यं कायोत्सर्गवाचनाग्रहणादिकम् । कर्तुं ते साधवो वज्रम् , निषद्यायां न्यषादयन् ॥१८४॥ अन्वय :- ते साधवः कायोत्सर्गवाचनाग्रहणादिकम् प्रातःकृत्यं कर्तुं
निषद्यायां वजं न्यषादयन् । समास :- (१) कायोत्सर्गवाचनाग्रहणादिकम् - (A) कायः
उत्सृज्यतेऽस्मिन् इति कायोत्सर्गः । (उप.त.पु.) (B) वाचनायाः ग्रहणम् इति वाचनाग्रहणम् ।
(ष.त.पु.) (C) कायोत्सर्गश्च वाचनाग्रहणं च इति कायोत्सर्ग
वाचनाग्रहणे । (इ.द्वन्द्व.) (D) कायोत्सर्गवाचनाग्रहणे आदौ यस्मिन् तद् इति
कायोत्सर्गवाचनाग्रहणादिकम्, तद् कायोत्सर्ग
वाचनाग्रहणादिकम् । (व्यधि.ब.वी.) गुर्वाज्ञाऽस्तीति वज्रोऽपि, निषद्यार्यामुपाविशत् । आचार्यस्ये विनयम्, तस्याकार्षुच साधवः ॥१८५॥
Page #95
--------------------------------------------------------------------------
________________
८६
अन्वय :- गुर्वाज्ञा अस्ति इति वज्रः अपि निषद्यायाम् उपाविशत्
साधवः च आचार्यस्य इव तस्य विनयम् अकार्षुः । समास :- (१) गुर्वाज्ञा - गुरोः आज्ञा इति गुर्वाज्ञा । (ष.त.पु.) सर्वेषामपिं साधूनामानुपूर्व्या परिस्फुटान् । संक्रान्त्या वज्रलेपाभान्, वज्रोऽप्यालापर्कान्ददौं ॥१८६॥ अन्वय :- वज्रः अपि सर्वेषाम् अपि साधूनां संक्रान्त्या आनुपूर्व्या
परिस्फुटान् वज्रलेपाभान् आलापकान् ददौ । समास :- (१) आनुपूर्व्या - (A) पूर्वस्यानुक्रमेण इति अनुपूर्वम् ।
(अव्य.भा.) (B) अनुपूर्वस्य भावः कर्म वा आनुपूर्वी, तया
आनुपूर्व्या । (तद्धित) अ(अण्) + ई(ङी)। (२) वज्रलेपाभान् - (A) वज्रस्य लेपः इति वज्रलेपः ।
(ष.त.पु.) (B) वज्रलेपेन आभाः इति वज्रलेपाभाः, तान्
वज्रलेपाभान् । (तृ.त.पु.) ये अल्पमेधसस्तेऽपि, साधवोऽध्येतुमागमन् । उपचक्रमि, वज्रादादायाय वाचनाम् ॥१८७॥ अन्वय :- ये अल्पमेधसः ते साधवः अपि आगमन् वज्राद्
वाचनाम् आदाय आदाय अध्येतुम् उपचक्रमिरे । समास :- (१) अल्पमेधसः - अल्पा मेधा येषां ते इति
__ अल्पमेधसः । (समा.ब.वी.) अमोघवाचनो वजों, बभूवातिजडेज़पि । तन्नव्यमद्भुतं दृष्ट्वा , गर्छ: सर्वो विसिष्मिय ॥१८॥
Page #96
--------------------------------------------------------------------------
________________
अन्वय :- अतिजडेषु अपि वज्रः अमोघवाचनः बभूव तद् नव्यम्
_अद्भुतं दृष्ट्वा सर्वः गच्छः विसिष्मिये । समास :- (१) अमोघवाचनः - (A) न मोघा इति अमोघा ।
(नञ्.त.पु.) (B) अमोघा वाचना यस्य सः इति अमोघवाचनः ।
(समा.ब.वी.) (२) अतिजडेषु - अतिशयेन जडाः इति अतिजडाः,
तेषु अतिजडेषु । (प्रादि.कर्म.) आलान्सिाधर्वः पूर्वमधीतानस्फुरानपि । संवादार्थमपृच्छंच, वज्रोऽप्याख्यत्तथैवे तान् ॥१८९॥ अन्वय :- साधवः पूर्वम् अधीतान् अपि अस्फुरान् आलापान्
___संवादार्थम् अपृच्छन् वज्रः अपि च तथैव तान् आख्यात् । समास :- (१) अस्फुरान्-न स्फुराः इति अस्फुराः, तान्
अस्फुरान् । (नञ्.त.पु.) (२) संवादार्थम् - संवादस्य अर्थम् इति संवादार्थम् ।
(ष.त.पु.) तावदेकवाचनया, वज्रात्ठुर्महर्षयः ।
अप्यनेकवाचनाभिर्यावन्न गुरु सन्निधौं ॥१९०॥ अन्वय :- महर्षयः गुरुसन्निधौ अनेकवाचनाभिः अपि यावत् न
पेठः तावत् वज्रात् एकवाचनया (पेठुः)। समास :- (१) एकवाचनया - एका वाचना इति एकवाचना, तया
एकवाचनया । (वि.पू.क.)
Page #97
--------------------------------------------------------------------------
________________
८८
(२) महर्षयः - पूर्ववत् । (३) अनेकवाचनाभिः - (A) न एकाः इति अनेकाः ।
(नञ्.त.पु.) (B) अनेकाश्चामू: वाचनाश्च इति अनेकवाचनाः,
ताभिः अनेकवाचनाभिः । (वि.पू.क.) (४) गुरुसनिधौ - पूर्ववत् । तेऽभ्यधुः साधवोऽन्योऽन्यम्', गुरुं यदि विलम्बते । वज्रपार्श्वे तदा शीघ्रम्, श्रुतस्कन्धः समाप्यते ॥१९१॥ अन्वय :- ते साधवः अन्योन्यम् अभ्यधुः यदि गुरुः विलम्बते
__ तदा वज्रपार्थे श्रुतस्कन्धः शीघ्रं समाप्यते । समास :- (१) अन्योऽन्यम् - अन्यः अन्यः इति अन्योऽन्यम्,
तद् अन्योऽन्यम् । (इ.द्व.) । (२) वज्रपार्श्वे - वज्रस्य पार्श्वम् इति वज्रपार्श्वम्, तस्मिन् __ वज्रपार्थे । (ष.त.पु.) (३) श्रुतस्कन्धः - श्रुतमेव स्कन्धः इति श्रुतस्कन्धः ।
___ (अव.पू.क.) गुरुभ्योऽभ्यधिक वज्रम्, मेनिरें मुनयों गुणैः । एकगुरु दीक्षितें हिँ, सुगुणें मोदते गणः ॥१९२॥ अन्वय :- मुनयः गुणैः गुरुभ्यः अभ्यधिकं वजं मेनिरे हि
एकगुरुदीक्षिते सुगुणे गण: मोदते । समास :- (१) अभ्यधिकम् - अभितः अधिकः यस्मिन् कर्मणि
यथा स्यात्तथा इति अभ्यधिकम् । (सुप्सुप् स.)
Page #98
--------------------------------------------------------------------------
________________
૮૯
(२) एकगुरुदीक्षिते (A) एकश्चासौ गुरुश्च इति एकगुरु: । (वि.पू.क.)
(B) एकगुरुणा दीक्षितः इति एकगुरुदीक्षितः, तस्मिन् एकगुरुदीक्षिते । (तृ. त.पु.)
(३) सुगुणे - शोभनाः गुणाः यस्य सः इति सुगुणः, तस्मिन् सुगुणे । (अव्य. ब. व्री.)
आचार्याश्चिन्तयामासुरेतावैद्भिश्चं वासरैः । वज्रोऽस्मत्परिवारस्य, भावीं ज्ञातगुणः खलु ॥१९३॥ अन्वय :- आचार्याः च चिन्तयामासुः एतावद्भिः वासरैः खलु वज्रः अस्मत्परिवारस्य ज्ञातगुणः भावी ।
समास :- (१) एतावद्भिः - एतत् प्रमाणं येषां तानि इति एतावन्ति, तैः एतावद्भिः । (तद्धित)
(२) अस्मत्परिवारस्य अस्माकम् परिवार: इति अस्मत्परिवारः, तस्य अस्मत्परिवारस्य ।
-
(ष.त.पु.)
(३) ज्ञातगुणः - ज्ञाताः गुणाः यस्य सः इति ज्ञातगुणः । (समा.ब.व्री.)
वज्रमध्यापयामोऽर्थानधीतं
.१४
उपेत्य पाठ्यतां याति", गुरोः शिष्योऽमलैर्गुणैः ॥१९४॥
अन्वय :- अथ अस्य हि यद् अनधीतं तद् वज्रम् अध्यापयामः अमलैः गुणैः शिष्यः गुरोः उपेत्य पाठ्यतां याति ।
।
समास :- (१) अनधीतम् - न अधीतम् इति अनधीतम् । (नञ्.त.पु.)
तद्येदस्य हि ।
o
Page #99
--------------------------------------------------------------------------
________________
८०
(२) अमलैः - नास्ति मलं येषां ते इति अमलाः, तैः अमलैः। (नञ्.ब.व्री.)
चिन्तयित्वैवैमाचार्याः कथितेऽह्नि समाययुः । मुनयों वज्रसहिंतास्तत्पादांश्च ववन्दिरे ॥१९५॥ अन्वय :- आचार्याः एवं चिन्तयित्वा कथिते अह्नि समाययुः वज्रसहिताः च मुनयः तत्पादान् ववन्दिरे ।
समास :- (१) वज्रसहिताः - वज्रेण सहिताः इति वज्रसहिताः । (तृ. त.पु.)
(२) तत्पादान् - तेषाम् पादाः इति तत्पादाः, तान् तत्पादान् । (ष.त.पु.)
किं वः स्वाध्यायनिर्वाहों, भवर्ती गुरूदि । बभाषिरें देवगुरु प्रसादादितिं साधवः ॥ १९६ ॥ अन्वय :- किं वः स्वाध्यायनिर्वाहः भवति इति गुरुदिते साधवः देवगुरुप्रसादात् इति बभाषिरे ।
?
समास :- (१) स्वाध्यायनिर्वाह: - (A) स्वाध्यायः - पूर्ववत् । (B) स्वाध्यायस्य निर्वाह: इति स्वाध्यायनिर्वाहः । (ष. त.पु.)
(२) गुरूदिते - गुरुणा उदितम् इति गुरुदितम्, तस्मिन् गुरूदिते । (तृ.त.पु.)
(३) देवगुरुप्रसादात् देवगुरवः । (इ.द्व.)
-
(A) देवाश्च गुरवश्च इति
(B) देवगुरूणां प्रसादः इति देवगुरुप्रसादः, तस्मात् देवगुरुप्रसादात् । (ष.त.पु.)
Page #100
--------------------------------------------------------------------------
________________
૯૧
वन्दित्वां पुनराचार्याशिष्यः सर्वे' व्यजिज्ञपन्ं । अस्माकं वाचनाचार्यो', वज्रोऽभूर्युष्मदाज्ञयाँ ॥१९७॥ अन्वय :- पुनः वन्दित्वा सर्वे शिष्याः आचार्यान् व्यजिज्ञपन् युष्मदाज्ञया वज्रः अस्माकं वाचनाचार्यः अभूत् ।
समास :- (१) वाचनाचार्य: - पूर्ववत् ।
(२) युष्मदाज्ञया - युष्माकम् आज्ञा इति युष्मदाज्ञा, तया युष्मदाज्ञया । (ष.त. पु.)
वज्र॑श्चिरमँवज्ञातॊऽस्माभि॑िरज्ञाततद्गुणैः
इदानीं भगवत्पादा, इवें बालोऽप्ययं हि नः ॥ १९८ ॥
अन्वय :- अज्ञाततद्गुणैः अस्माभिः वज्रः चिरम् अवज्ञातः इदानीम् बालः अपि अयं हि नः भगवत्पादा इव (भवतु ) । समास :- (१) अज्ञाततद्गुणैः - (A) तस्य गुणाः इति तद्गुणाः । (ष. त.पु.)
(B) न ज्ञाता: इति अज्ञाताः । (नञ्.त.पु.)
(C) अज्ञाताः तद्गुणाः यैः ते इति अज्ञाततद्गुणाः, तैः अज्ञाततद्गुणैः । (समा.ब.व्री.)
बालोऽप्यस्त्वषं गच्छस्यें, गुरु गुरु गुणान्विर्तः । प्रदीपैः कुन्दकलिकामात्रोऽप्युद्योतयेद् गृहम् ॥ १९९॥ अन्वय :- कुन्दकलिकामात्रः अपि प्रदीपः गृहम् उद्योतयेद् गुरुगुणान्वितः एष बालः अपि गच्छस्य गुरुः अस्तु ।
Page #101
--------------------------------------------------------------------------
________________
- ૯૨
समास :- (१) गुरुगुणान्वितः - (A) गुरवश्च इमे गुणाश्च इति
गुरुगुणाः । (वि.पू.क.)
(B) गुरुगुणैः अन्वितः इति गुरुगुणान्वितः । (तृ.त.पु.) (२) कुन्दकलिकामात्रः (A) कुन्दस्य कलिका इति
कुन्दकलिका । (ष.त.पु.) (B) कुन्दकलिका एव इति कुन्दकलिकामात्रः ।
____ (मयू.व्यं.कर्म.) आचार्यवर्या' जर्गदुर्भवेत्वेवं तपोधनाः!। किन्त्वसौं नींवमन्तव्यो, विद्यावृद्धोऽर्भकोऽपि हि ॥२००॥ अन्वय :- आचार्यवर्याः जगदुः तपोधनाः ! एवं भवतु किन्तु
" अर्भकः अपि हि विद्यावृद्धः असौ न अवमन्तव्यः । समास :- (१) आचार्यवर्याः - आचार्येषु वर्याः इति आचार्यवर्याः ।
(स.त.पु.) (२) तपोधनाः! - तपः धनम् येषां ते इति तपोधनाः,
तत्सम्बोधनं तपोधनाः! । (समा.ब.वी.)
(३) विद्यावृद्धः-विद्यया वृद्धः इति विद्यावृद्धः । (तृ.त.पु.) अगमाम वयं ग्राममाार्योऽयं च वोऽपितः। अत एवं यथा विथ , यूयमस्येदृशान् गुणान् ॥२०१॥ अन्वय :- यथा यूयम् अस्य ईदृशान् गुणान् वित्थ अत एव अयम्
आचार्यः वः अर्पितः वयं च ग्रामम् अगमाम । अन्यथा वाचनाचार्यपदवी' नायमर्हति । गुर्वदत्तं यतोऽनेन, कर्णश्रुयाँऽऽदर्दै श्रुतम् ॥२०२॥
Page #102
--------------------------------------------------------------------------
________________
अन्वय :- अन्यथा अयं वाचनाचार्यपदवीं न अर्हति यतः अनेन
गुर्वदत्तं श्रुतं कर्णश्रुत्या आददे । समास :- (१) वाचनाचार्यपदवीम् - (A) वाचनाचार्यः - पूर्ववत् ।
(B) वाचनाचार्यस्य पदवी इति वाचनाचार्यपदवी,
तां वाचनाचार्यपदवीम् । (ष.त.पु.) (२) गुर्वदत्तम् – (A) न दत्तम् इति अदत्तम् ।
(नञ्.त.पु.) (B) गुरुणा अदत्तम् इति गुर्वदत्तम्, तद् गुर्वदत्तम् ।
(तृ.त.पु.) (३) कर्णश्रुत्या - कर्णेन श्रुतिः इति कर्णश्रुतिः, तया
कर्णश्रुत्या । (तृ.त.पु.) सङ्क्षेपानुष्ठानरूपोत्सारकल्पोऽस्य संयताः!। कार्य आचार्यपदवीयोग्यो ह्येष ततो भवेत् ॥२०३॥ अन्वय :- संयताः ! अस्य सङ्क्षपानुष्ठानरूपोत्सारकल्पः कार्यः
. ततः हि एषः आचार्यपदवीयोग्यः भवेत् । समास :- (१) संक्षेपानुष्ठानरूपोत्सारकल्पः - (A) संक्षेपेण कृतम्
इति संक्षेपकृतम् । (तृ.त.पु.) (B) संक्षेपकृतम् अनुष्ठानम् इति संक्षेपानुष्ठानम् ।
(म.प.लो.क.) (C) संक्षेपानुष्ठानमेव इति संक्षेपानुष्ठानरूपः। (तद्धित) (D) संक्षेपानुष्ठानरूपः उत्सारः इति संक्षेपानुष्ठान
रूपोत्सारः । (वि.पू.क.) (E) संक्षेपानुष्ठानरूपोत्सारेण (कृतः) कल्पः इति
संक्षेपानुष्ठानरूपोत्सारकल्पः । (तृ.त.पु.)
Page #103
--------------------------------------------------------------------------
________________
.८४ (२) आचार्यपदवीयोग्यः - (A) आचार्यस्य पदवी इति
आचार्यपदवी । (ष.त.पु.) (B) आचार्यपदव्याः योग्यः इति आचार्य
__पदवीयोग्यः । (ष.त.पु.) ततश्च प्रार्गपठितम् , श्रुतमर्थसमन्वितम् । शीघ्रमध्यापयामार्स , वजं गुरुरुंदारधीः ॥२०४॥ अन्वय :- ततः च उदारधीः गुरुः वज्रं प्राग् अपठितम् अर्थ
समन्वितं श्रुतं शीघ्रम् अध्यापयामास । समास :- (१) अपठितम् - न पठितम् इति अपठितम्, तद्
अपठितम् । (नञ्.त.पु.) (२) अर्थसमन्वितम् - अर्थेन समन्वितम् इति
अर्थसमन्वितम् । (तृ.त.पु.) (३) उदारधीः - उदारा धीः यस्य सः इति उदारधीः ।
___ (समा.ब.वी.) साक्षिमात्रीकृतगुरुर्वजों गुपितं श्रुतम् । प्रतिबिम्बैमिवादर्शः, सर्वं जग्राह लीलया ॥२०५॥ अन्वय :- आदर्शः प्रतिबिम्बम् इव साक्षिमात्रीकृतगुरुः वज्रः
गुपितं सर्वं श्रुतं लीलया जग्राह । समास :- (१) साक्षिमात्रीकृतगुरुः - (A) साक्षी एव इति
साक्षिमात्रः । (मयू.व्यं कर्म.) (B) न साक्षिमात्रः इति असाक्षिमात्रः। (नञ्.त.पु.) (C) असाक्षिमात्रः साक्षिमात्रः कृतः इति
साक्षिमात्रीकृतः । (गति.त.पु.)
Page #104
--------------------------------------------------------------------------
________________
(D) साक्षिमात्रीकृतः गुरुः येन सः इति
__साक्षिमात्रीकृतगुरुः । (समा.ब.वी.) (२) गुर्वर्पितम् - गुरुणा अर्पितम् इति गुर्वर्पितम्, तद्
गुर्वर्पितम् । (तृ.त.पु.) श्रुतज्ञोऽभूतथा वज्रों , या तस्य॑ गुरोरपि ।
दुर्भेदचिरसन्देहलोष्ठमुद्गरतां ययौं ॥२०६॥ अन्वय :- वज्रः तथा श्रुतज्ञः अभूत् यथा तस्य गुरोः अपि
दुर्भेदचिरसन्देहलोष्ठमुद्गरतां ययौ । समास :- (१) श्रुतज्ञः - श्रुतं जानाति इति श्रुतज्ञः । (उप.त.पु.)
(२) दुर्भेदचिरसन्देहलोष्ठमुद्गरताम् – (A) दुःखेन भिद्यन्ते
इति दुर्भेदाः । (उप.त.पु.) (B) चिरेण स्थिताः इति चिरस्थिताः । (प्रादि.कर्म.) (C) चिरस्थिताः सन्देहाः इति चिरसन्देहाः ।
(म.प.लो.क.) (D) दुर्भेदाश्चामी चिरसन्देहाश्च इति
दुर्भेदचिरसन्देहाः । (वि.पू.क.) (E) दुर्भेदचिरसन्देहा एव लोष्ठानि इति दुर्भेदचिर
सन्देहलोष्ठानि । (अव.पू.क.) (F) दुर्भेदचिरसन्देहलोष्ठानि भिनत्ति इति
दुर्भेदचिरसन्देहलोष्ठभेदकः । (उप.त.पु.) (G) दुर्भेदचिरसन्देहलोष्ठभेदकः मुद्गरः इति दुर्भेद
चिरसन्देहलोष्ठमुद्गरः । (म.प.लो.क.) (H) दुर्भेदचिरसन्देहलोष्ठमुद्गरस्य भावः इति दुर्भेद
Page #105
--------------------------------------------------------------------------
________________
चिरसन्देहलोष्ठमुद्गरता, तां दुर्भेदचिरसन्देहलोष्ठ
मुद्गरताम् । (तद्धित) दृष्टिवादोऽपि हृदये यावन्मात्रोऽभवद् गुरोः । तावानुपाद वज्रेणाम्भश्शुलुकलीलयां ॥२०७॥ अन्वय :- गुरोः हृदये दृष्टिवादः अपि यावन्मात्रः अभवत् तावान् वज्रेण
__अम्भश्चुलुकलीलया उपाददे । समास :- (१) यावन्मात्र: - यावान् एव इति यावन्मात्रः। (म.व्यं.क.)
(२) अम्भश्चुलुकलीलया - (A) अम्भसा पूर्णः
अम्भःपूर्णः । (तृ.त.पु.) (B) अम्भःपूर्णः चुलुकः इति अम्भश्चुलुकः ।
(म.प.लो.क.) (C) अम्भश्चुलुकस्य लीला इति अम्भश्चुलुकलीला,
___ तया अम्भश्चुलुकलीलया। (ष.त.पु.) अन्यदा विहरन्तस्ते, ग्रामाद ग्राम पुरात्पुरम् । पुरं" दशपुरं जग्मुराचार्याः सपरिच्छदाः ॥२०८॥ अन्वय :- अन्यदा ग्रामाद् ग्रामम् पुरात् पुरम् विहरन्तः सपरिच्छदाः ते
आचार्याः दशपुरं पुरं जग्मुः । समास :- (१) सपरिच्छदाः - परिच्छदेन सह वर्तन्ते ये ते इति
सपरिच्छदाः । (सह.ब.वी.) तदा चौज्जयनीपुर्याम्' सम्पूर्णदशपूर्वभृत् । आचार्योऽस्ति तदैतस्मादादेयों दशपूर्व्यर्पि ॥२०९॥
Page #106
--------------------------------------------------------------------------
________________
૯૭
अन्वय :- तदा च उज्जयनीपुर्यां सम्पूर्णदशपूर्वभृत् आचार्यः अस्ति तद् एतस्माद् दशपूर्वी अपि आदेया ।
1
समास :- (१) उज्जयनीपुर्याम् – (A) उज्जयनी नाम यस्याः सा इति उज्जयनीनामा । ( समा. ब. व्री.)
(B) उज्जयनीनामा पुरी इति उज्जयनीपुरी, तस्याम् उज्जयनीपुर्याम् । (म.प.लो.क.)
(२) सम्पूर्णदशपूर्वभृत् - (A) दशानां पूर्वाणां समाहारः इति दशपूर्वम् । ( द्विगु. क.)
(B) संपूर्णं च तद् दशपूर्वं च इति संपूर्णदशपूर्वम् । (वि.पू.क.)
(C) संपूर्णदशपूर्वं बिभर्ति इति संपूर्णदशपूर्वभृत् ।
(उप.त.पु.)
(३) दशपूर्वी - दशपूर्ववत् ।
एकादशाङ्गीपाठोंऽपिं येषां कष्ट भृशम् । तेऽस्मच्छिष्या दशपूर्वग्रहर्णे कथमींशताम् ॥ २९०॥
अन्वय :- येषाम् एकादशाङ्गीपाठः अपि भृशं कष्टायते ते अस्मच्छिष्याः दशपूर्वग्रहणे कथम् ईशताम् ।
कष्टाय कष्टाय क्रामति इति कष्टायते । कष्टकक्ष० ३।४।३१... क्यङ् ।
समास :- (१) एकादशाङ्गीपाठः - (A) एकादशाङ्गी - पूर्ववत् । (B) एकादशाङ्ग्याः पाठः इति एकादशाङ्गीपाठः
-
(ष. त.पु.)
(२) दशपूर्वग्रहणे - (A) दशपूर्वम् पूर्ववत् ।
-
Page #107
--------------------------------------------------------------------------
________________
- ૯૮
(B) दशपूर्वस्य ग्रहणम् इति दशपूर्वग्रहणम्, तस्मिन्
दशपूर्वग्रहणे । (ष.त.पु.) अथवाऽस्त्येवं हुँ वर्ज:, कृतमीदृशचिन्तयां । पदानुसारिलब्ा हिं, दृष्टप्रत्यय एर्षं नः ॥२११॥ अन्वय :- अथवा ईदृशचिन्तया कृतं हुं नः पदानुसारिलब्ध्या
दृष्टप्रत्ययः एष हि वज्रः अस्ति एव । समास :- (१) ईदृशचिन्तया-ईदृशी च सा चिन्ता च इति
ईदृशचिन्ता, तया ईदृशचिन्तया । (वि.पू.क.) (२) पदानुसारिलब्ध्या - (A) पदानि अनुसरति
इत्येवंशीला इति पदानुसारिणी । (उप.त.पु.) (B) पदानुसारिणी चासौ लब्धिश्च इति पदानु
सारिलब्धिः, तया पदानुसारिलब्ध्या ।
(वि.पू.क.) (३) दृष्टप्रत्ययः- दृष्टः प्रत्ययः यस्मिन् सः इति दृष्ट
प्रत्ययः । (समा.ब.वी.) इत्यादिर्शद् गुरूंर्वज्रम, त्वं वत्सोज्जयिनी व्रज। तंत्राधीष्व दशपूर्वीम्, भद्रगुप्तगुरोर्मुखात् ॥२१२॥ अन्वय :- वत्स ! त्वम् उज्जयिनीं व्रज तत्र भद्रगुप्तगुरोः मुखात्
दशपूर्वीम् अधीष्व इति गुरुः वज्रम् आदिशद् । समास :- (१) दशपूर्वीम् - दशपूर्वी-पूर्ववत्, तां दशपूर्वीम् ।
(२) भद्रगुप्तगुरोः - (A) भद्रगुप्तः नाम यस्य सः इति
भद्रगुप्तनामा । (समा.ब.वी.)
१६.
Page #108
--------------------------------------------------------------------------
________________
૯૯
(B) भद्रगुप्तनामा गुरुः इति भद्रगुप्तगुरुः, तस्य भद्रगुप्तगुरोः । (म.प.लो.क.) अत्यल्पमेधसः सर्वे तवै सब्रह्मचारिणः । लम्भूष्णवमुत्रे, यत्रहमपिं कुण्ठर्धीः ॥ २१३॥
>
अन्वय :- यत्र अहम् अपि कुण्ठधीः अमुत्र तव अत्यल्पमेधसः सर्वे सब्रह्मचारिणः अलम्भूष्णवः हि न ।
(A) अतिशयेन अल्पा इति
समास :- (१) अत्यल्पमेधसः अत्यल्पा । (प्रादि कर्म.)
(B) अत्यल्पा मेधा येषां ते इति अत्यल्पमेधसः । (समा.ब.व्री.)
(२) सब्रह्मचारिण: समाने ब्रह्मणि (आगमे गुरुकुले
वा व्रतं) चरन्तीत्येवंशीलाः इति सब्रह्मचारिणः । 'सब्रह्मचारी' ३।२।१५० इन् । (उप.त.पु.) (३) कुण्ठधी:- कुण्ठा धीः यस्य सः इति कुण्ठधीः । (समा.ब.व्री.) अधीत्य दशैं पूर्वाणि, शीघ्रमेहिं मदाज्ञयां । वं सन्निहितः सन्तु सौम्यं ! शासनदेवर्ताः ॥२१४॥ अन्वय :- सौम्य ! मदाज्ञया दश पूर्वाणि अधीत्य शीघ्रम् एहि शासनदेवताः तव सन्निहिताः सन्तु ।
समास :- (१) मंदाज्ञया - मम आज्ञा इति मदाज्ञा, तया मदाज्ञया । (ष.त.पु.)
-
Page #109
--------------------------------------------------------------------------
________________
१०० (२) शासनदेवताः - (A) शासने अधिष्ठिताः इति
शासनाधिष्ठिताः । (स.त.पु.) (B) शासनाधिष्ठिताः देवताः इति शासनदेवताः ।
(म.प.लो.क.) त्वन्मुंखाच्च प्रसरंतु, दशपूर्वी महर्षिषु ।
हे वत्स! कूपोदुदकमिवोपवनशाखिषु ॥२१५॥ अन्वय :- हे वत्स ! च उपवनशाखिषु कूपाद् उदकम् इव महर्षिषु
त्वन्मुखात् दशपूर्वी प्रसरतु । . समास :- (१) त्वन्मुखात् - तव मुखम् इति त्वन्मुखम्, तस्मात्
त्वन्मुखात् । (ष.त.पु.) (२) दशपूर्वी - पूर्ववत् । (३) महर्षिषु - महर्षयः पूर्ववत्, तेषु महर्षिषु । (४) उपवनशाखिषु - (A) उपमितं वनेन इति
उपवनम् । (प्रादि. त.पु.) (B) उपवनस्य शाखिनः इति उपवनशाखिनः, तेषु
उपवनशाखिषु । (ष.त.पु.) एवं सिंहगिरिर्वज्रमवन्ती गन्तुमादिशत् । वर्तेर्ते स्थविरः कल्पं, इत्यृर्षों द्वौं , तत्समम ॥२१६॥ अन्वय :- एवं सिंहगिरिः स्थविरः कल्पः इति द्वौ ऋषी वर्तेते, तत्सम
च, वज्रम् अवन्तीं गन्तुम् आदिशत् । समास :- (१) तत्समम् - ताभ्यां समम् इति तत्समम् । (तृ.त.पु.)
Page #110
--------------------------------------------------------------------------
________________
૧૦૧
शेषमिवाज्ञामादार्य, मूर्ध्ना सिंहगिरेंगुरोः । वज्रोऽगाद्भेद्रगुप्तांहिपूतार्मुज्जयिनीं पुरी ॥२१७॥
अन्वय :- वज्रः सिंहगिरेः गुरोः आज्ञां शेषाम् इव मूर्ध्ना आदाय भद्रगुप्तांह्रिपूताम् उज्जयिनीं पुरीम् अगाद् ।
समास :- (१) भद्रगुप्तांहिपूताम् (A) भद्रगुप्तस्य अंड्री इति भद्रगुप्तांी । (ष. त.पु.)
-
(B) भद्रगुप्तांह्रिभ्यां पूता इति भद्रगुप्तांहिपूता, तां भद्रगुप्तांड्रिपूताम् । (तृ. त.पु.)
प्राप्ते चौज्जयिनी पुर्याम्, सुनन्दानन्दने मुनौ । निरैक्षिष्टं भद्रगुप्ताचार्य: स्वप्नं शुर्भे क्षणें ॥२१८॥
अन्वय :- सुनन्दानन्दने मुनौ च शुभे क्षणे उज्जयिनीपुर्यां प्राप्ते भद्रगुप्ताचार्यः स्वप्नं निरैक्षिष्ट ।
समास :- (१) उज्जयिनीपुर्याम् - पूर्ववत् ।
(२) सुनन्दानन्दने - सुनन्दायाः नन्दनः इति सुनन्दानन्दनः, तस्मिन् सुनन्दानन्दने । (ष.त.पु.)
(३) भद्रगुप्ताचार्यः - (A) भद्रगुप्तः नाम यस्य सः इति
भद्रगुप्तनामा । (समा.ब. व्री.)
(B) भद्रगुप्तनामा आचार्यः इति भद्रगुप्ताचार्य: । (म.प.लो.क.)
यर्दादार्य ममं कराते, क्षीरपूर्णं * पंतद्ग्रहम् । आगन्तुकोऽपिबत्कश्चिंत्, तृतिं चै परमममार्तं ॥ २१९ ॥
Page #111
--------------------------------------------------------------------------
________________
૧૦૨ अन्वय :- यद् मम करात् क्षीरपूर्णं पतद्ग्रहम् आदाय कश्चिद्
आगन्तुकः अपिबत् परमां च तृप्तिम् अगात् । समास :- (१) क्षीरपूर्णम्-क्षीरेण पूर्णः इति क्षीरपूर्णः तम् क्षीरपूर्णम् ।
(तृ.त.पु.) (२) पतद्ग्रहम्-पतन्तं गृह्णाति इति पतद्ग्रहः, तम्
पतद्ग्रहम् । (उप.त.पु.) शिष्येभ्यः कथयामार्स , गुरुः स्वप्नं च तं प्रगें । तस्यार्थं विविध ऽपि, यथाप्रज्ञं व्यचारयन् ॥२२०॥ अन्वय :- गुरुः प्रगे तं स्वप्नं शिष्येभ्यः कथयामास ते अपि च
तस्य विविधम् अर्थं यथाप्रज्ञं व्यचारयन् । समास :- (१) यथाप्रज्ञम् - प्रज्ञाम् अनतिक्रम्य इति यथाप्रज्ञम् ।
(अव्य.भा.) गुरुरूचे ने जानीथाँतिथिः कोऽप्यागमिष्यति । सं सार्थं सूत्रमस्मत्तः सर्वमादास्यते सुधीः ॥२२१॥ अन्वय :- गुरुः ऊचे न जानीथ कोऽपि अतिथिः आगमिष्यति
सुधीः सः अस्मत्तः सार्थं सर्वं सूत्रम् आदास्यते । समास :- (१) अतिथि:-न विद्यते तिथिः यस्य सः इति अतिथिः ।
__ (नञ्.ब.वी.) (२) सार्थम् - अर्थेन सह वर्तते यद् तद् इति सार्थम् ।
(सह.ब.वी.) (३) अस्मत्तः - अस्मभ्यम् इति अस्मत्तः । (तद्धित) (४) सुधी:-पूर्ववत् ।
Page #112
--------------------------------------------------------------------------
________________
103
वज्रोंऽपिं नगरीद्वारे, शर्वरींमतिवाह्य च । प्रभातेऽगार्द्धद्रगुप्ताचार्यवर्यप्रतिश्रयम् ॥२२२॥
अन्वय :- वज्रः अपि नगरीद्वारे शर्वरीम् अतिवाह्य प्रभाते च भद्रगुप्ताचार्यवर्यप्रतिश्रयम् अगाद् ।
समास :- (१) नगरीद्वारे नगर्या : द्वारम् इति नगरीद्वारम्, तस्मिन् नगरीद्वारे । (ष. त.पु.)
(२) भद्रगुप्ताचार्यवर्यप्रतिश्रयम् (A) भद्रगुप्ताचार्य:
-
पूर्ववत् ।
(B) भद्रगुप्ताचार्यश्चासौ वर्यश्च इति भद्रगुप्ताचार्यवर्यः । (वि. उत्त.क.)
-
(C) भद्रगुप्ताचार्यवर्यस्य प्रतिश्रयः इति भद्रगुप्ताचार्यवर्यप्रतिश्रयः तं भद्रगुप्ताचार्यवर्यप्रतिश्रयम् ।
,
(ष. त.पु.)
दूरतो वज्रमालोक्य, गुरुरिन्दुमिवार्णवः । उल्लासं" कलयामार्से, परं परमया मुदां ॥२२३॥
अन्वय :- अर्णव: इन्दुम् इव गुरु: दूरतः वज्रम् आलोक्य परमया मुदा परम् उल्लासं कलयामास ।
आचार्योऽध्याय देहों ! में, सौभाग्येनास्य धीरिति । 'किमालिङ्गम्यहमुङ्कर्मारोपयामि च ॥ २२४॥
१४
अन्वय :- आचार्यः अध्यायद् अहो ! अस्य सौभाग्येन मे इति धी: अहम् किं अमुम् आलिङ्गामि अङ्कं च आरोपयामि । समास :- (१) सौभाग्येन – (A) सौभाग्यम् - पूर्ववत्, तेन
सौभाग्येन ।
Page #113
--------------------------------------------------------------------------
________________
प्रार
૧૦૪ प्रसिद्धिसदृशीं वज्रस्यांकृति परिभायं च । वज्रोऽयमिति निश्चिक्ये', भद्रगुप्तों महामुनिः ॥२२५॥ अन्वय :- भद्रगुप्तः महामुनिः प्रसिद्धिसदृशीं वज्रस्य आकृतिं परिभाव्य
अयं च वज्रः इति निश्चिक्ये । समास :- (१) प्रसिद्धिसदृशीम् - प्रसिद्ध्या सदृशी इति प्रसिद्धि
सदृशी, तां प्रसिद्धिसदृशीम् । (तृ.त.पु.)
(२) महामुनि:-पूर्ववत्। वन्दनाभिमुखं वज्रम् , भद्रगुप्तोऽर्थ सस्वर्जे । बलीयसी खैलूत्कण्ठा, विनयं ने प्रतीक्षते ॥२२६॥ अन्वय :- अथ भद्रगुप्तः वन्दनाभिमुखं वजं सस्वजे खलु बलीयसी
उत्कण्ठा विनयं न प्रतीक्षते । समास :- (१) वन्दनाभिमुखम् - (A) अभिप्रपन्नः मुखम् इति
अभिमुखः । (त.पु.) (B) वन्दनस्य अभिमुखः इति वन्दनाभिमुखः, तं
वन्दनाभिमुखम् । (ष.त.पु.) आरोंप्या भद्रगुप्ताचार्यो वज्रमभाषतं । अधितद्वदनाम्भोजम्', स्वनेत्रे भृङ्गतां नयन् ॥२२७॥ अन्वय :- अधितद्वदनाम्भोजं स्वनेत्रे भृङ्गतां नयन् भद्रगुप्ताचार्यो वज्रम्
अङ्के आरोप्य अभाषत । समास :- (१) भद्रगुप्ताचार्यः - पूर्ववत् ।
Page #114
--------------------------------------------------------------------------
________________
(२) अधितद्वदनाम्भोजम् - (A) तस्य वदनम् इति तद्वदनम् । (ष. त.पु.)
(B) अम्भसि जातम् इति अम्भोजम् । (उप. त.पु.) (C) तद्वदनम् एव अम्भोजम् इति तद्वदनाम्भोजम् । (अव.पू.क.)
(D) तद्वदनाम्भोजे इति अधितद्वदनाम्भोजम् । (अव्य.भा.)
૧૦૫
-
(३) स्वनेत्रे स्वस्य नेत्रे इति स्वनेत्रे ते स्वनेत्रे ।
(ष. त.पु.)
कर्च्चित्सुखविहारस्तें, कच्चित्तेऽडुर्मनामयम् कच्चित्तपस्ते निर्विघ्नम्, कच्चित्ते कुशली गुरु: ॥२२८॥ अन्वय :- कच्चित् ते सुखविहारः कच्चित् ते अङ्गम् अनामयं कच्चित् ते तपः निर्विघ्नं कच्चित् ते गुरुः कुशली । कच्चित् - प्रश्नार्थकोऽव्ययः । " कच्चिदिष्टपरिप्रश्ने" ॥ १५८॥ इत्यभिधाने ।
समास :- (१) सुखविहार : - सुखेन (कृत:) विहार : इति सुखविहार: । (तृ.त.पु.)
(२) अनामयम् नास्ति आमयः यस्मिन् तद् इति अनामयम् । (नञ्.ब.व्री.)
(३) निर्विघ्नम् - निर्गताः विघ्नाः यस्मात् तद् इति निर्विघ्नम् । (प्रादि ब.व्री.)
-
(४) कुशली - कुशलमस्ति यस्य इति कुशली । (तद्धित) किं किंचित्कार्यमुद्दिश्ये, विहारक्रमतोऽथवा । इहागतोऽसि वज्रर्षे!, कथयस्मान्प्रमोद ॥२२९॥
Page #115
--------------------------------------------------------------------------
________________
૧૦૬ अन्वय :- वज्रर्षे ! किं किंचित् कार्यम् उद्दिश्य अथवा विहारक्रमतः
इह आगतः असि कथय अस्मान् प्रमोदय । समास :- (१) विहारक्रमतः - विहारस्य क्रमः इति विहारक्रमः,
तस्मात् विहारक्रमतः । (ष.त.पु.) (२) वज्रर्षे ! - (A) वज्रः नाम यस्य सः इति वज्रनामा।
(समा.ब.वी.) (B) वज्रनामा ऋषिः इति वर्षिः, तत्सम्बोधनं -
वज्रर्षे ! । (म.प.लो.क.) वन्दित्वा भद्रगुप्तर्षिम, वज्रों विरचिताञ्जलिः। उवाच वदनद्वारविन्यस्तमुखवस्त्रिकः ॥२३०॥ अन्वय :- भद्रगुप्तर्षि वन्दित्वा वदनद्वारविन्यस्तमुखवस्त्रिकः
विरचिताञ्जलिः वज्रः उवाच । समास :- (१) भद्रगुप्तर्षिम् - (A) भद्रगुप्तः नाम यस्य सः इति
भद्रगुप्तनामा । (समा.ब.वी.) (B) भद्रगुप्तनामा ऋषिः इति भद्रगुप्तर्षिः, तं
भद्रगुप्तर्षिम् । (म.प.लो.क.) (२) विरचिताञ्जलिः - विरचितः अञ्जलि: येन सः
इति विरचिताञ्जलिः । (समा.ब.वी.) (३) वदनद्वारविन्यस्तमुखवस्त्रिकः -
(A) वदनस्य द्वारम् इति वदनद्वारम् । (ष.त.पु.) (B) वदनद्वारे विन्यस्ता इति वदनद्वारविन्यस्ता ।
(स.त.पु.) (C) मुखे स्थाप्या इति मुखस्थाप्या । (स.त.पु.)
Page #116
--------------------------------------------------------------------------
________________
૧૦૭ (D) मुखस्थाप्या वस्त्रिका इति मुखवस्त्रिका ।
(म.प.लो.क.) (E) वदनद्वारविन्यस्ता मुखवस्त्रिका येन सः इति
वदनद्वारविन्यस्तमुखवस्त्रिकः । (समा.ब.वी.) यद्यत्सुखविहारादि, पूज्यपादैरपृच्छ्यते । तत्तत्तथैवे देवानाम, गुरूणां च प्रसादतः ॥२३१॥ अन्वय :- पूज्यपादैः यद् यद् सुखविहारादि अपृच्छयत तद् तद्
देवानां गुरूणां च प्रसादतः तथैव (अस्ति)। समास :- (१) पूज्यपादैः - पूज्ये पादे येषां ते इति पूज्यपादाः, तैः
पूज्यपादैः । (समा.ब.वी.) (२) सुखविहारादि - (A) सुखविहारः पूर्ववत् । (B) सुखविहारः आदौ यस्मिन् तद् इति सुख
विहारादि । (व्यधि.ब.वी.) अध्येतुं दर्श पूर्वाणि, त्वामागां गुर्वनुज्ञया । तद्वाचनाप्रदानेन , प्रसीदें भगवन्मयिं ॥२३२॥ अन्वय :- गुर्वनुज्ञया दश पूर्वाणि अध्येतुं त्वाम् आगां भगवन् !
तद्वाचनाप्रदानेन मयि प्रसीद । समास :- (१) गुर्वनुज्ञया - गुरोः अनुज्ञा इति गुर्वनुज्ञा, तया गुर्वनुज्ञया
। (ष.त.पु.) (२) तद्वाचनाप्रदानेन - (A) तेषां वाचनाः इति
तद्वाचनाः । (ष.त.पु.)
Page #117
--------------------------------------------------------------------------
________________
૧૦૮
(B) तद्वाचनानां प्रदानम् इति तद्वाचनाप्रदानम्, तेन
तद्ववाचनाप्रदानेन । (ष.त.पु.) ततश्च दशपूर्वी तम्, भद्रगुप्तोऽध्यजीगपत् । गुरौरजनितक्लेशों , वज्रोऽर्थं दशपूर्व्यभूत् ॥२३३॥ अन्वय :- ततः च भद्रगुप्तः तं दशपूर्वीम् अध्यजीगपत् गुरोः
____ अजनितक्लेशः वज्रः अथ दशपूर्वी अभूत् । समास :- (१) दशपूर्वीम् - पूर्ववत् ।
(२) अजनितक्लेशः - (A) न जनितः इति अजनितः
। (नञ्.त.पु.) (B) अजनितः क्लेशः येन सः इति अजनितक्लेशः ।
(समा.ब.वी.) (३) दशपूर्वी- (A) दशपूर्वम् - पूर्ववत् ।
. (B) दशपूर्वमधीतं येन इति दशपूर्वी । (तद्धित) यत्रं चोध्येतुमारब्धम्, ग्राह्यीनुज्ञापि तत्रं हि । इति सिंहगिरें: पार्थे, वज्रों गन्तुमचिन्तयत् ॥२३४॥ अन्वय :- यत्र च अध्येतुम् आरब्धं तत्र अपि हि सिंहगिरेः पार्श्वे
गन्तुम् अनुज्ञा ग्राह्या इति वज्रः अचिन्तयत् । इत्या॑पृच्छ्य' भद्रगुप्तम्, वज्रों दशपुर पुर्नः । अधीतदशपूर्वोउँगाई, गृहीताम्बुंरि वाम्बुदः ॥२३५॥ अन्वय :- इति भद्रगुप्तम् आपृच्छ्य गृहीताम्बुः अम्बुदः इव
अधीतदशपूर्वः वज्रः पुनः दशपुरम् अगाद् । समास :- (१) अधीतदशपूर्वः - (A) दशपूर्वम् - पूर्ववत् ।
Page #118
--------------------------------------------------------------------------
________________
૧૦૯ (B) अधीतं दशपूर्वं येन सः इति अधीतदशपूर्वः ।
___(समा.ब.वी.) (२) गृहीताम्बुः- गृहीतम् अम्बु येन सः इति गृहीताम्बुः।
(समा.ब.वी.)
(३) अम्बुदः - अम्बु ददाति इति अम्बुदः । (उप.त.पु.) दशपूर्वार्णवागस्तैर्वज्रस्योभ्यागतस्य तु । पूर्वानुज्ञां कृता सिंहगिरिणां गुरु णां तदा ॥२३६॥ अन्वय :- अभ्यागतस्य दशपूर्वार्णवागस्तेः वज्रस्य तु तदा सिंह
गिरिणा गुरुणा पूर्वानुज्ञा कृता। समास :- (१) दशपूर्वार्णवागस्तेः - (A) दशपूर्वम् - पूर्ववत् ।
(B) दशपूर्वम् एव अर्णवः इति दशपूर्वार्णवः ।
(अव.पू.क.) (C) दशपूर्वार्णवं पिबति इति दशपूर्वार्णव
पायकः । (उप.त.पु.) (D) दशपूर्वार्णवपायकः अगस्तिः, इति दशपूर्वार्ण
वागस्तिः, तस्य दशपूर्वार्णवागस्तेः ।
(म.प.लो. क.) (२) पूर्वानुज्ञा - पूर्वाणाम् अनुज्ञा पूर्वानुज्ञा । (ष.त.पु.) वज्रस्य पूर्वानुज्ञायाम्, विदधैं जृम्भकामरैः।
महिमा दिव्यकुसुमप्रकरादिभिरद्भुतः ॥२३७॥ अन्वय :- वज्रस्य पूर्वानुज्ञायां जृम्भकामरैः दिव्यकुसुमप्रकरादिभिः
अद्भुतः महिमा विदधे।
Page #119
--------------------------------------------------------------------------
________________
૧૧૦
समास :- (१) पूर्वानुज्ञायाम् – पूर्वानज्ञा-पूर्ववत्, तस्यां
पूर्वानुज्ञायाम् । (ष.त.पु.) (२) जृम्भकामरैः - (A) जृम्भकः जातिः येषां ते इति
जृम्भकजातयः । (समा.ब.वी.) (B) जृम्भकजातयः अमराः इति जृम्भकामराः, तैः
जृम्भकामरैः । (म.प.लो.क.) (३) दिव्यकुसुमप्रकरादिभिः - (A) दिवि भवानि इति
दिव्यानि । (तद्धित) (B) दिव्यानि च तानि कुसुमानि च इति दिव्यकुसु
मानि । (वि.पू.क.) (C) दिव्यकुसुमानां प्रकरः इति दिव्यकुसुमप्रकरः ।
(ष.त.पु.) (D) दिव्यकुसुमप्रकरः आदौ येषां ते इति दिव्य
कुसुमप्रकरादयः, तैः दिव्यकुसुमप्रकरादिभिः ।
(व्यधि.ब.वी.) अर्पयित्वा सिंहगिर्याचार्यों वज्रमुर्गणम् । प्रत्याख्यायान्नपानादि,कालं कृत्वा सुरोऽभवत् ॥२३८॥ अन्वय :- सिंहगिर्याचार्यः वज्रमुनेः गणम् अर्पयित्वा अन्नपानादि
प्रत्याख्याय कालं कृत्वा सुरः अभवत् । समास :- (१) सिंहगिर्याचार्यः - (A) सिंहगिरिः नाम यस्य सः
इति सिंहगिरिनामा। (समा.ब.वी.) (B) सिंहगिरिनामा आचार्यः इति सिंहगिर्याचार्यः ।
__ (म.प.लो.क.) (२) वज्रमुनेः - (A) वज्रमुनिः पूर्ववत्, तस्य वज्रमुनेः ।
Page #120
--------------------------------------------------------------------------
________________
૧૧૧
७
(३) अन्नपानादि - (A) अन्नं च तद् पानं च इति
अन्नपाने । (इ.द्व.) (B) अन्नपाने आदौ यस्मिन् तद् इति अन्नपानादि
___ तद् अन्नपानादि । (व्यधि.ब.वी.) वज्रस्वाम्यपिं भगवान्, मुनिपञ्चशतीवृतः । विजहार महीं भव्यजनकैरवचन्द्रमाः ॥२३९॥ अन्वय :- भव्यजनकैरवचन्द्रमाः मुनिपञ्चशतीवृतः भगवान् वज्र
स्वामी अपि महीं विजहार । समास :- (१) वज्रस्वामी - पूर्ववत् ।
(२) मुनिपञ्चशतीवृतः - (A) पञ्चानां शतानां समाहारः
इति पञ्चशती । (द्विगु.क.) (B) मुनीनां पञ्चशती इति मुनिपञ्चशती। (ष.त.पु.) (C) मुनिपञ्चशत्या वृतः इति मुनिपञ्चशतीवृतः ।
(तृ.त.पु.) (३) भव्यजनकैरवचन्द्रमाः - (A) भव्याश्च ते जनाश्च
इति भव्यजनाः । (वि.पू.क.) (B) भव्यजनाः एव कैरवाः इति भव्यजनकैरवाः ।
(अव.पू.क.) (C) भव्यजनकैरवान् उल्लासयतीति भव्यजनकैर
वोल्लासी । (उप.त.पु.) (D) भव्यजनकैरवोल्लासी चासौ चन्द्रमाश्च इति
भव्यजनकैरवचन्द्रमाः । (म.प.लो.क.)
Page #121
--------------------------------------------------------------------------
________________
. ११२
पुनानः क्षमा विहारेणं, वज्रस्वामी महामुनिः । यत्र यत्रं ययौं तत्रं, तत्रं ख्यातिरभूदियम् ॥२४०॥ अन्वय :- विहारेण क्ष्मां पुनानः महामुनिः वज्रस्वामी यत्र यत्र ययौ
तत्र तत्र इयं ख्यातिः अभूत् । समास :- (१) वज्रस्वामी - पूर्ववत् ।
(२) महामुनिः - पूर्ववत् । अहो ! अस्योज्ज्वलं शीलमहौं ! लोकोत्तरं श्रुतम् । अहो ! सौभाग्यमनधर्मों ! लवणिमाऽद्भुतः ॥२४१॥ अन्वय :- अहो ! अस्य उज्ज्वलं शीलम् अहो ! लोकोत्तरं श्रुतम्
अहो ! अनघं सौभाग्यम् अहो ! अद्भुतः लवणिमा । समास :- (१) लोकोत्तरम् - लोकात् उत्तरम् इति लोकोत्तरम् ।
(पं.त.पु.) (२) सौभाग्यम् - पूर्ववत् । (३) अनघम् - नास्ति अघः यस्मिन् तद् इति अनघम् ।
(नञ्.ब.वी.) इतश्च पाटलीपुत्रे, धनों नाम महाधनः । श्रेष्ठी गुणगणश्रेष्ठों, बभूवै भुर्विं विश्रुतेः ॥२४२॥ अन्वय :- इतः च पाटलीपुत्रे भुवि विश्रुतः गुणगणश्रेष्ठः महाधनः
धनः नाम श्रेष्ठी बभूव। समास :- (१) महाधनः - महत् धनं यस्य सः इति महाधनः ।
(समा.ब.वी.)
Page #122
--------------------------------------------------------------------------
________________
૧૧૩ (२) गुणगणश्रेष्ठः – (A) गुणानां गणाः इति गुणगणाः ।
(ष.त.पु.)
(B) गुणगणैः श्रेष्ठः इति गुणगणश्रेष्ठः । (तृ.त.पु.) का सुरूपों तस्याभूदैभिधानेनं रुक्मिणी । रुक्मिणीव पुनरपि, रूपान्तरमुपेयुषी ॥२४३॥ अन्वय :- तस्य पुनः अपि रूपान्तरम् उपेयुषी रुक्मिणी इव अभि
धानेन रुक्मिणी सुरूपा कन्या अभूद् । समास :- (१) सुरूपा-शोभनं रूपं यस्याः सा इति सुरूपा ।
(अव्य.ब.वी.) (२) रूपान्तरम् - अन्यद् रूपम् इति रूपान्तरम्, तद्
रूपान्तरम् । (मयूर.कर्म) तस्यं च श्रेष्ठिनों यानशालायाममलाशयाः । व्रतिन्यों निवसन्तिं स्म , श्रीवज्रस्य महामुनेः ॥२४४॥ अन्वय :- तस्य च श्रेष्ठिनः यानशालायां श्रीवज्रस्य महामुनेः
अमलाशयाः वतिन्यः निवसन्ति स्म । समास :- (१) यानशालायाम् - यानाय शाला इति यानशाला, तस्यां
यानशालायाम्। (च.त.पु.) (२) अमलाशयाः - (A) अमलः - पूर्ववत् । (B) अमलः आशयः यासां ताः इति अमलाशयाः ।
(समाब.वी.) (३) श्रीवज्रस्य - (A) श्रिया युक्तः इति श्रीयुक्तः ।
(तृ.त.पु.)
Page #123
--------------------------------------------------------------------------
________________
૧૧૪
(B) श्रीयुक्त: वज्रः इति श्रीवज्रः, तस्य श्रीवज्रस्य । (म.प.लो.क.)
(४) महामुने: महामुनिः- पूर्ववत्, तस्य महामुनेः । व्रतिन्यैस्तस्तुं वज्रस्यें, चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकसमों, गुरूणां हि गुणस्तर्वः ॥ २४५ ॥
अन्वय :- ताः तु व्रतिन्यः वज्रस्य गुणसंस्तवं चक्रिरे गुरूणां ही गुणस्तवः स्वाध्यायावश्यकसम: ( अस्ति) ।
समास :- (१) गुणसंस्तवम् गुणानां संस्तवः इति गुणसंस्तव:, तं
गुणसंस्तवम् । (ष. त.पु.)
(२) स्वाध्यायावश्यकसम: - (A) स्वाध्याय: - पूर्ववत् । स्वाध्यायश्च आवश्यकानि च इति स्वाध्यायावश्यकानि । (इ.द्व.)*
(B) स्वाध्यायावश्यकैः समः इति स्वाध्यायावश्यकसमः । (तृ.त.पु.)
(३) गुणस्तव: - गुणानां स्तवः इति गुणस्तव: । (ष.त.पु.) तां तां वज्रस्य सौभाग्यकथामाकर्ण्य' रुक्मिणी " वज्रमैव पतीयन्ती, प्रत्यज्ञासीदिदं चं सां ॥ २४६ ॥
1
-
अन्वय :- वज्रस्य तां तां सौभाग्यकथाम् आकर्ण्य वज्रम् एव पतीयन्ती सा च रुक्मिणी इदं प्रत्यज्ञासीद् ।
समास :- (१) सौभाग्यकथाम् – (A) सौभाग्यम् - पूर्ववत् ।
-
Page #124
--------------------------------------------------------------------------
________________
૧૧૫
(B) सौभाग्यस्य कथा इति सौभाग्यकथा, तां
___सौभाग्यकथाम् । (ष.त.पु.) (२) पतीयन्ती - पतिम् इच्छन्ती इति पतीयन्ती । (नाम
धातु) ("अमाव्ययात् क्यन् च" ३/४/२३ क्यन् +
अत् (शतृ) + ई (ङी.)) वज्रः स्याद्यदि में भर्ता, भोक्ष्ये भोगानह तर्दा । अन्यों तु कृतं भोगै:, कि भोगै र्दयितं विनों ॥२४७॥ अन्वय :- यदि मे भर्ता वज्रः स्याद् तदा अहं भोगान् भोक्ष्ये अन्यथा
तु भोगैः कृतं दयितं विना भोगैः किम् ।
दयितम्-प्रियपतिम् । तस्यां वरयितारश्च, ये केचिदुपतस्थिरें । सा प्रत्यषेधत्तान् सर्वान, मुखमोटनलीलयाँ ॥२४८॥ अन्वय :- ये केचित् तस्याः वरयितारः उपतस्थिरे सा च
मुखमोटनलीलया तान् सर्वान् प्रत्यषेधत् । समास :- (१) मुखमोटनलीलया - (A) मुखस्य मोटनम् इति
मुखमोटनम् । (ष.त.पु.) (B) मुखमोटनस्य लीला इति मुखमोटनलीला,
____ तया मुखमोटनलीलया । (ष.त.पु.) प्रव्रजिताच तां प्रोचुंरयि ! मुग्धाऽसि रुक्मिणि!। वीतराग प्रव्रजितम्, यद्वन्नं तं वुवर्षसि ॥२४९॥ अन्वय :- प्रव्रजिताः च तां प्रोचुः अयि ! रुक्मिणि ! मुग्धा असि
यद् वीतरागं प्रव्रजितं तं वज्रं वुवर्षसि ।
Page #125
--------------------------------------------------------------------------
________________
૧૧૬
समास :- (१) वीतरागम् - वीतः रागः यस्मात् सः इति वीतरागः,
___तं वीतरागम् । (समा.ब.वी.) रुक्मियभिदधे वज्रों, यदि प्रवजितस्तदा । प्रव्रजिष्याम्यहमपि, या गतिस्तस्यै सैंव में ॥२५०॥ अन्वय :- रुक्मिणी अभिदधे यदि वज्रः प्रव्रजितः तदा अहम्
___ अपि प्रव्रजिष्यामि या तस्य गतिः सा एव मे (गतिः)। इतथे भगवान वज्रः, पाटलीपुत्रपत्तने । विहारेण ययौं धर्मदेशनावारिवारिदैः ॥२५१॥ अन्वय :- इतः च धर्मदेशनावारिवारिदः भगवान् वज्रः विहारेण
पाटलीपुत्रपत्तने ययौ। समास :- (१) पाटलीपुत्रपत्तने - (A) पाटलीपुत्रः नाम यस्य तद्
इति पाटलीपुत्रनाम । (समा.ब.वी.) । (B) पाटलीपुत्रनाम पत्तनम् इति पाटलीपुत्रपत्तनम्,
___ तस्मिन् पाटलीपुत्रपत्तने । (म.प.लो.क.) (२) धर्मदेशनावारिवारिदः - (A) धर्मस्य देशना इति
धर्मदेशना । (ष.त.पु.) (B) धर्मदेशना एव वारि इति धर्मदेशनावारि ।
(अव.पू.क.) (C) वारि ददाति इति वारिदः । (उप.त.पु.) (D) धर्मदेशनावारि वर्षतीति धर्मदेशनावारि
वर्षकः। (उप.त.पु.) (E) धर्मदेशनावारिवर्षक: वारिदः इति धर्मदेशना
वारिवारिदः । (म.प.लो.क.)
Page #126
--------------------------------------------------------------------------
________________
૧૧૭ श्रुत्वा च वज्रमायान्तम्, पाटलीपुत्रपार्थिवः । तत्कालं सपरीवारोऽभ्यगाद्धयाँ गरिष्ठयाँ ॥२५२॥ अन्वय :- आयान्तं च वजं श्रुत्वा सपरीवार: पाटलीपुत्रपार्थिवः
गरिष्ठया ऋद्ध्या तत्कालम् अभ्यगाद् । समास :- (१) पाटलीपुत्रपार्थिवः - पाटलीपुत्रस्य पार्थिवः इति
__पाटलीपुत्रपार्थिवः । (ष.त.पु.)
(२) सपरीवारः - पूर्ववत् । इतश्चेतश्च वैज्रर्षेन्दीभूतान् महामुनीन् । दर्शाऽऽगच्छतो राजा, राजमानांस्तपःश्रियाँ ॥२५३॥ अन्वय :- राजा इतः च इतः च वज्रर्षेः तपःश्रिया राजमानान्
वृन्दीभूतान् आगच्छतः महामुनीन् ददर्श । समास :- (१) वज्रर्षेः - पूर्ववत् ।
(२) वृन्दीभूतान् - (A) न वृन्दम् इति अवृन्दम् ।
(नञ्.त.पु.) (B) अवृन्दं वृन्दम् इव भूताः इति वृन्दीभूताः, तान्
___ वृन्दीभूतान् । (गति.त.पु.) (३) महामुनीन् - महामुनयः-पूर्ववत्, तान् महामुनीन्। (४) तपःश्रिया - तपः एव श्रीः इति तप:श्रीः, तया
तपःश्रिया । (अव.पू.क.) दृष्ट्वा तास्तु निदध्यौं च, सर्वेऽमी द्युतिशालिनः । सर्वेऽपि मधुराकारीः, सर्वेऽपि विकसन्मुखौंः ॥२५४॥
Page #127
--------------------------------------------------------------------------
________________
૧૧૮
सर्वे
प्रियंवदाः सर्वे, करुणारससागरीः । सर्वेऽपि समताभाजैः, सैर्वेऽपिं ममतोज्झितः ॥२५५॥ को नाम वज्रस्वामीति, मैं जानामि करोमि किम् । स एवं भगवानाद, वन्द्यौं' गच्छस्यै नायकैः ॥ २५६ ॥ (त्रिभिर्विशेषकम् )
अन्वय :- तान् तु दृष्ट्वा स निदध्यौ अमी सर्वे द्युतिशालिनः, सर्वे अपि च मधुराकाराः, सर्वे अपि विकसन्मुखाः, सर्वे प्रियंवदाः, सर्वे करुणारससागराः, सर्वे अपि समताभाजः, सर्वे अपि ममतोज्झिता: (सन्ति) नाम गच्छस्य नायकः, आदौ वन्द्यः भगवान् वज्रस्वामी एव कः इति न जानामि किं करोमि ?
समास :- (१) द्युतिशालिनः - द्युतिना शालन्ते इत्येवंशीलाः इति द्युतिशालिनः । (उप. त.पु.)
(२) मधुराकाराः - मधुरः आकारः येषां ते इति मधुराकारा: । (समा.ब. व्री.)
(३) विकसन्मुखाः - विकसद् मुखं येषां ते इति विकसन्मुखाः । (समा.ब. व्री.)
(४) प्रियंवदा: - प्रियं वदन्ति इति प्रियंवदाः ।
(उप. त.पु.)
(५) करुणारससागराः
(A) करुणा एव रसः इति
करुणारसः । (अव.पू.क.)
Page #128
--------------------------------------------------------------------------
________________
૧૧૯
(B) करुणारसस्य सागराः इति करुणारससागराः ।
(ष.त.पु.) (६) समताभाजः - समतां भजन्ते इति समताभाजः ।
(उप.त.पु.) । भजो विण् ५।१।१४६ विण् । (७) ममतोज्झिताः - ममतया उज्झिताः इति __ ममतोज्झिताः । (तृ.त.पु.)
(८) वज्रस्वामी - पूर्ववत् । पप्रच्छ चे क्षणं स्थित्वा, भगवन्तों महर्षयः । आख्यान्तु वर्जः किमयम्, किम किमसीविति ॥२५७॥ अन्वय :- क्षणं स्थित्वा च पप्रच्छ भगवन्तः ! महर्षयः ! किम् अयं
(वज्रः) किम् एष (वज्रः) किम् असौ वज्रः इति आख्यान्तु । समास :- (१) महर्षयः - पूर्ववत् । मुनयः प्रोचिरें राजन्!, वज्रस्यान्तिषदों वयम् । मा चिन्तयतमस्मासु,क्वार्कःक्वज्योतिरिङ्गणाः?॥२५८॥ अन्वय :- मुनयः प्रोचिरे राजन् ! वयं वज्रस्य अन्तिषदः क्व अर्कः
क्व ज्योतिरिङ्गणाः अस्मासु तं मा चिन्तय । ज्योतिरिङ्गणाः- खद्योताः । "खजूआ" इति लोके।
खद्योतो ज्योतिरिङ्गणः । इत्यभिधाने । (१२१३) समास :- (१) अन्तिषदः - अन्ति सीदन्ति इति अन्तिषदः ।
(उप.त.पु.) (२) ज्योतिरिङ्गणाः - ज्योतिः इव इङ्गन्ति इति
ज्योतिरिङ्गणाः । (उप.त.पु.),
Page #129
--------------------------------------------------------------------------
________________
૧ ૨૦
एवं तुं मुनिवृन्देघु, पृच्छेन्सर्वेषु भूपतिः । वज्रं ददर्श मोहाद्रिवज्रं पश्चाद् गणें स्थितम् ॥२५९॥ अन्वय :- एवं तु सर्वेषु मुनिवृन्देषु पृच्छन् भूपतिः गणे पश्चाद्
स्थितं मोहाद्रिवज्र वज्रं ददर्श । समास :- (१) मुनिवृन्देषु - मुनीनां वृन्दानि इति मुनिवृन्दानि
____तेषु मुनिवृन्देषु । (ष.त.पु.) (२) भूपति:- भुवः पतिः इति भूपतिः । (ष.त.पु.) (२) मोहाद्रिवज्रम् - (A) मोहः एव अद्रिः इति
मोहाद्रिः । (अव.पू.क.) (B) मोहाद्रि भिनत्ति इति मोहाद्रिभिद् । (उप.त.पु.) (C) मोहाद्रिभिद् वज्रः इति मोहाद्रिवज्रः, तं
मोहाद्रिवज्रम् । (म.प.लो.क.) वज्रभट्टारकमर्थ, ववन्दं वसुधाधवः । किरीटरत्नांशुजलैस्तत्पादौ स्नपयन्निवे ॥२६०॥ अन्वय :- अथ किरीटरत्नांशुजलैः तत्पादौ स्नपयन् इव
वसुधाधवः वज्रभट्टारकं ववन्दे । समास :- (१) वज्रभट्टारकम् - वज्रश्चासौ भट्टारकश्च इति
वज्रभट्टारकः, तं वज्रभट्टारकम् । (वि.उत्त.क.) (२) वसुधाधवः - वसुधायाः धवः इति वसुधाधवः ।
(ष.त.पु.)
Page #130
--------------------------------------------------------------------------
________________
૧૨૧
(३) किरीटरत्नांशुजलैः - (A) किरीटस्य रत्नानि इति
किरीटरत्नानि । (ष.त.पु.) (B) किरीटरत्नानाम् अंशवः इति किरीटरत्नां
शवः । (ष.त.पु) (C) किरीटरत्नांशवः एव जलानि इति किरीट
रत्नांशुजलानि, तैः किरीटरत्नांशुजलैः ।
(अव.पू.क.) (४) तत्पादौ - तस्य पादौ इति तत्पादौ तौ तत्पादौ ।
(ष.त.पु.) सुनन्दासूनुराचार्योऽप्युद्याने समवासरत् । आश्रित्य सपरीवारस्तरु च्छायाप्रतिश्रयम् ॥२६१॥ अन्वय :- सपरीवारः सुनन्दासूनुः आचार्यः अपि तरुच्छायाप्रति
श्रयम् आश्रित्य उद्याने समवासरत् । समास :- (१) सुनन्दासूनुः - सुनन्दायाः सूनुः इति सुनन्दासूनुः ।
(ष.त.पु.) (२) सपरीवारः - पूर्ववत् । (३) तरुच्छायाप्रतिश्रयम् - (A) तरोः छाया इति तरु
च्छाया । (ष.त.पु.) (B) तरुच्छाया एव प्रतिश्रयः इति तरुच्छायाप्रति
श्रयः, तं तरुच्छायाप्रतिश्रयम् । (अव.पू.क.) महीनाथोऽपि वज्रनषद्यायां निषेदुषः । पादावंचर्चयाक्षकर्दमेनं सुगन्धिना ॥२६२॥ अन्वय :- महीनाथः अपि निषद्यायां निषेटुषः वज्रर्षेः पादौ
Page #131
--------------------------------------------------------------------------
________________
૧૨૨
सुगन्धिना यक्षकर्दमेन अचर्चयत् ।
समास :- (१) महीनाथ: - मह्या: नाथः इति महीनाथ: । (ष.त.पु.) (२) वज्रर्षे: पूर्ववत् ।
(३) सुगन्धिना - शोभनः गन्धः यस्मिन् सः इति सुगन्धि:, तेन सुगन्धिना । (अव्य. ब. व्री.)
तर्तश्च भगवान्वज्रः, सुधामधुरया गिरा । चकार' देशनां' मोहध्वान्तध्वंसैकदीपिकाम् ॥२६३॥ अन्वय :- तत: च भगवान् वज्रः सुधामधुरया गिरा मोहध्वान्तध्वंसैकदीपिकां देशनां चकार ।
समास :- (१) सुधामधुरया
सुधा इव मधुरा इति सुधामधुरा, तया सुधामधुरया । (उप.कर्म.)
(२) मोहध्वान्तध्वंसैकदीपिकाम् – (A) मोह एव ध्वान्तम् इति मोहध्वान्तम् । (अव.पू.क.)
(B) मोहध्वान्तस्य ध्वंसः इति मोहध्वान्तध्वंसः । (ष. त.पु.)
(C) एका चासौ दीपिका च इति एकदीपिका । (वि.पू.क.)
(D) मोहध्वान्तध्वंसे एकदीपिका इव इति मोहध्वान्तध्वंसैकदीपिका, तां मोहध्वान्तध्वंसैकदीपिकाम् । ( स.त.पु.)
क्षीरास्त्रवलब्धिमतेः, श्रीवज्रस्वामिनंस्तयां । धर्मदेशनयाँ राजा, हृतचित्तोऽभवत्तराम् ॥२६४॥
Page #132
--------------------------------------------------------------------------
________________
૧૨૩ अन्वय :- क्षीरास्रवलब्धिमतः श्रीवज्रस्वामिनः तया धर्मदेशनया
राजा हृतचित्तः अभवत्तराम् । समास :- (१) क्षीरास्रवलब्धिमतः (A) क्षीरस्य आस्रवः यस्यां
सा इति क्षीरास्रवा । (समा.ब.वी.) (B) क्षीरास्त्रवा चासौ लब्धिश्च इति क्षीरास्रवलब्धिः ।
(वि.पू.क.) (C) क्षीरास्रवलब्धिः अस्ति यस्य इति क्षीरास्रव
लब्धिमान्, तस्य क्षीरास्रवलब्धिमतः ।
(तद्धित) (२) श्रीवज्रस्वामिनः - पूर्ववत् । (३) धर्मदेशनया- धर्मदेशना पूर्ववत्, तया धर्मदेशनया। (४) हृतचित्तः - हृतं चित्तं यस्य सः इति हृतचित्तः ।
(समा.ब.वी.) देशनान्ते मुनि नत्वा, राजा स्वसदनं ययौं । गत्वां च मध्येशुद्धान्तम् , राज्ञीनामिय॑चीकथत् ॥२६५॥ अन्वय :- देशनान्ते मुनि नत्वा राजा स्वसदनं ययौ मध्येशुद्धान्तं
च गत्वा राजीनाम् इति अचीकथत् । शुद्धान्तः - अन्तःपुरम् । "शुद्धान्तः स्यादन्तःपुरम्,
इत्यभिधाने । (७२७) समास :- (१) देशनान्ते - देशनायाः अन्तः इति देशनान्तः,
तस्मिन् देशनान्ते । (ष.त.पु.)
Page #133
--------------------------------------------------------------------------
________________
૧૨૪
(२) स्वसदनम् - स्वस्य सदनम् इति स्वसदनम् तद्
स्वसदनम् । (ष.त.पु.) (३) मध्येशुद्धान्तम् - शुद्धान्तस्य मध्यम् इति मध्ये
___शुद्धान्तम्, तद् मध्येशुद्धान्तम् । (अव्य.भा.) बाह्योद्याने कृतावासों , वज्रस्वाम्यर्यि ! सुभ्रवः ! ।
माँऽद्ये वन्दितों धर्मदेशनाक्षीरसागरः ॥२६६॥ अन्वय :- अयि सुभ्रवः ! अद्य मया बाह्योद्याने कृतावासः धर्म
देशनाक्षीरसागरः वज्रस्वामी वन्दितः । समास :- (१) बाह्योद्याने - (A) बहिर्भवम् इति बाह्यम् । (तद्धित)
(B) बाह्यञ्च तद् उद्यानं च इति बाह्योद्यानम्,
तस्मिन् बाह्योद्याने । (वि.पू.क.) (२) कृतावासः - कृतः आवासः येन सः इति
कृतावासः । (समा.ब.वी.) (३) वज्रस्वामी - पूर्ववत् । (४) सुभ्रवः - सुष्ठ ध्रुवौ यासां ताः इति सुभ्रवः,
तत्सम्बोधनं सुभ्रवः ! । (सु.पू.क.) (५) धर्मदेशनाक्षीरसागरः -(A) धर्मदेशना - पूर्ववत्। (B) धर्मदेशना एव क्षीरम् इति धर्मदेशनाक्षीरम् ।
(अव.पू.क.) (C) धर्मदेशनाक्षीरस्य सागरः इति धर्मदेशनाक्षीर
सागरः । (ष.त.पु.)
Page #134
--------------------------------------------------------------------------
________________
૧૨૫
तं वन्दित्वा चं दृष्ट्वाँ चं, तर्द्धतुं निशम्य च I मम गात्रं च नेत्रे र्च, श्रोत्रे चौगुः कृतार्थताम् ॥ २६७॥ अन्वय :- तं च दृष्ट्वा मम नेत्रे च वन्दित्वा च गात्रं च तद्धर्मं तु निशम्य श्रोत्रे च कृतार्थताम् अगुः ।
(१) तद्धर्मम् – (A) तेन उक्तः इति तदुक्तः । (तृ.त.पु.) (B) तदुक्तः धर्मः इति तद्धर्मः, तं तद्धर्मम् । (म.प.लो.क.)
(२) कृतार्थताम् – (A) कृतः अर्थः येन सः इति कृतार्थ: । (समा.ब.व्री.)
(B) कृतार्थस्य भावः इति कृतार्थता, तां कृतार्थताम् । (तद्धित )
समास :
इदमेव दिन मन्ये, दिनत्वेन सुलोचनः ! | अभर्वद्यत्रं वज्रर्षेर्ज्ञानादित्यस्य दर्शनम् ॥२६८॥
अन्वय :- सुलोचना: ! इदम् एव दिनं दिनत्वेन मन्ये यत्र ज्ञानादित्यस्य वज्रर्षेः दर्शनम् अभवत् ।
शोभने लोचने यासां ताः इति
समास :- (१) सुलोचना: !
-
सुलोचना:, तत्संबोधनं सुलोचनाः ! । (अव्य.ब.व्री.)
(२) वज्रर्षे: पूर्ववत् ।
(३) ज्ञानादित्यस्य
ज्ञानम् एव आदित्यः इति ज्ञानादित्यः, तस्य ज्ञानादित्यस्य । (अव.पू.क.)
-
Page #135
--------------------------------------------------------------------------
________________
૧૨૬ एतावताऽपि धन्योऽस्मि, दृष्टो वज्रमुनिर्मयो । किं पुर्नस्तन्मुखार्द्धर्ममश्रौषमहार्हतम् ॥२६९॥ अन्वय :- मया वज्रमुनिः दृष्टः एतावता अपि धन्यः अस्मि किम्
___पुनः अहं तन्मुखाद् आर्हतं धर्मम् अश्रौषम् । समास :- (१) वज्रमुनिः - (A) वज्रः नाम यस्य सः इति
वज्रनामा । (समा.ब.वी.) (B) वज्रनामा मुनिः इति वज्रमुनिः । (म.प.लो.क.) (२) तन्मुखाद् - तस्य मुखम् इति तन्मुखम्, तस्मात्
तन्मुखात् । (ष.त.पु.) (३) आर्हतम् - अर्हता उक्तः इति आर्हतः, तम् आर्हतम्
। (तद्धित) हैं देव्यस्तयमै,ि वर्षि द्रष्टमर्हथ । त्वरित यात ऋषयों, नैकत्रस्थाः समीरवत् ॥२७०॥ अन्वय :- हे देव्यः ! यूयम् अपि वर्षि द्रष्टम् अर्हथ समीरवत्
ऋषयः एकत्रस्थाः न तद् त्वरितं यात । समास :- (१) वर्षिम् - वर्षिः - पूर्ववत्, तम् वर्षिम् ।
(२) एकत्रस्थाः - (A) एकस्मिन् स्थाने इति एकत्र ।
(तद्धित)
(B) एकत्र तिष्ठन्तीति एकत्रस्थाः । (उप.त.पु.)
(३) समीरवत् - समीरः इव इति समीरवत् । (तद्धित) रायः प्रोचुः स्वयमपि, तं विवन्दिषवौं वयम् ।। त्वदाऽऽज्ञाऽप्यंत्रं यदभूत प्राप्ती तृषितैः सरित् ॥२७१॥
५
.
४
Page #136
--------------------------------------------------------------------------
________________
૧૨૭
अन्वय :- राज्ञ्यः प्रोचुः वयम् अपि स्वयं तं विवन्दिषवः यद् अत्र त्वदाज्ञा अपि अभूत् तद् तृषितैः सरित् प्राप्ता । समास :- (१) वन्दितुम् इच्छवः इति विवन्दिषव: । (सन्+उ) (२) त्वदाज्ञा तव आज्ञा इति त्वदाज्ञा । (ष.त.पु.) तर्तश्चांनुज्ञया राज्ञों, राज्यों वज्रविभूषितम् । याप्ययानाधिरूढस्तस्तर्दुद्यानवर" यर्युः ॥ २७२ ॥
अन्वय :- तत: च राज्ञः अनुज्ञया याप्ययानाधिरूढाः ताः राज्ञ्यः वज्रविभूषितं तद् उद्यानवरं ययुः ।
याप्ययानम् - सुखासनम् ।
समास :- (१) वज्रविभूषितम् वज्रेण विभूषितम् इति वज्रविभूषितम्, तद् वज्रविभूषितम् । (तृ. त.पु.)
(२) याप्ययानाधिरूढाः
(A) याप्यस्य ( अशक्तस्य)
यानम् इति याप्ययानम् । (ष. त.पु.)
(B) याप्ययाने अधिरूढाः इति याप्ययानाधिरूढाः ।
(स.त.पु.)
(३) उद्यानवरम् - उद्यानं च तद् वरं च इति उद्यानवरम्, तद् उद्यानवरम् । (वि. उत्त.क.)
वज्रमांगतमाकर्ण्य, रुक्मिण्यपिं जनोक्तिभिः । तमेव चिन्तयन्त्यस्थादात्मानमिवै योगिनीं ॥२७३॥ अन्वय :- जनोक्तिभिः आगतं वज्रम् आकर्ण्य तम् एव आत्मानं चिन्तयन्ती रुक्मिणी अपि योगिनी इव अस्थाद् ।
Page #137
--------------------------------------------------------------------------
________________
૧૨૮ समास :- (१) जनोक्तिभिः - जनानाम् उक्तयः इति जनोक्तयः,
ताभिः जनोक्तिभिः । (ष.त.पु.) द्वितीये वासरे रुक्मिण्युवाच पितरं निजम् । वज्रस्वाम्यागतोऽस्तीह, यं वुवू म्यहं सदा ॥२७४॥ अन्वय :- रुक्मिणी द्वितीये वासरे निजं पितरम् उवाच अहं सदा
यं वुवूर्षामि (सः) वज्रस्वामी इह आगतः अस्ति । समास :- (१) वज्रस्वामी - पूर्ववत् । तन्मां वज्रकुमाराय, सम्प्रदत्तान्या तुं में । मरणं शरणं तातं !, ग्राणिं रेखैवं गीरियम् ॥२७५॥ अन्वय :- तात! तद् मां वज्रकुमाराय सम्प्रदत्त अन्यथा तु मे मरणं
शरणं ग्राव्णि रेखा इव इयम् गीः।। समास :- (१) वज्रकुमाराय - वज्रश्चासौ कुमारश्च इति वज्रकुमारः,
____ तस्मै वज्रकुमाराय । (वि.उत्त.क.) आभिजात्यसखीं लज्जाम्', विहाँयैवं ब्रवीमि यत् । तंत्रेदं कारणं वज्रों, मत्पुण्यैरर्यमागतः ॥२७॥ अन्वय :- आभिजात्यसखीं लज्जां विहाय एवं ब्रवीमि तत्र इदं
कारणं यत् मत्पुण्यैः अयं वज्रः आगतः ।
आभिजात्यसखीम् - उत्तमकुलजातसखीम् । समास :- (१) आभिजात्यसखीम् - (A) अभिमतं (प्रशस्तं) जातं
(जन्म) यस्य तद् इति अभिजातम् । (प्रादि.ब.वी.) (B) अभिजातस्य भावः इति आभिजात्यम् ।
(तद्धित)
Page #138
--------------------------------------------------------------------------
________________
૧૨૯ (C) आभिजात्यस्य सखी इति आभिजात्यसखी,
ताम् आभिजात्यसखीम् । (ष.त.पु.) (२) मत्पुण्यैः - मम पुण्यानि इति मत्पुण्यानि, तैः
मत्पुण्यैः । (ष.त.पु.) एष प्रायेणं ने स्थास्तुद्यैवैह गच्छति । किं ज्ञायते कदाऽप्येति भूयोऽप्युड्डीनपक्षिवत् ॥२७७॥ अन्वय :- प्रायेण एष न स्थास्नुः यदि अद्य एव गच्छति भूयः
अपि कदा अपि उड्डीनपक्षिवत् इह एति किं ज्ञायते । समास :- (१) स्थास्नु:-तिष्ठति इत्येवंशीलः इति स्थास्नुः ।
(उप.त.पु.) (२) उड्डीनपक्षिवत्- (A) उड्डीनश्चासौ पक्षी च इति
उड्डीनपक्षी । (वि.पू.क.)
(B) उड्डीनपक्षी इव इति उड्डीनपक्षिवत् । (तद्धित) तस्मादल विलम्बेन, देहि वज्रार्य तातं ! माम् । चिरकौमारदीनां माम्, पश्यन्कि में हिँ दूयसें ॥२७८॥ अन्वय :- तात ! तस्माद् विलम्बेन अलं मां वज्राय देहि हि
चिरकौमारदीनां मां पश्यन् किं न दूयसे । समास :- (१) चिरकौमारदीनाम् - (A) कुमार्याः भावः इति
कौमारम् । (तद्धित) (B) चिरात् कौमारम् इति चिरकौमारम् । (प्रा.
कर्म.) (C) चिरकौमारेण दीना इति चिरकौमारदीना, तां
चिरकौमारदीनाम् । (तृ.त.पु.)
Page #139
--------------------------------------------------------------------------
________________
૧૩૦ एवं धनोऽतिनिर्बन्धादुपवजं निनार्य ताम् । सद्यः कृत्वा विवाहार्हसर्वालङ्कारभूषिताम् ॥२७९॥ अन्वय :- एवं धनः अतिनिर्बन्धात् सद्यः तां विवाहार्हसर्वालङ्कार
भूषितां कृत्वा उपवजं निनाय। समास :- (१) अतिनिर्बन्धात् - अतिशयेन निर्बन्धः इति अति
निर्बन्धः, तस्मात् अतिनिर्बन्धात् । (प्रा.कर्म.) (२) उपवज्रम् - वज्रस्य समीपे इति उपवज्रम्, तद्
उपवज्रम् । (अव्य.भा.) (३) विवाहार्हसर्वालङ्कारभूषिताम् - (A) विवाहमर्हन्ति इति
विवाहाहः । (उप.त.पु.) (B) सर्वे च ते अलङ्काराश्च इति सर्वालङ्काराः ।
(वि.पू.क.) (C) विवाहाश्चि ते सर्वालङ्काराश्च इति विवाहार्हस
लिङ्काराः । (वि.पू.क.) (D) विवाहार्हसर्वालङ्कारैः भूषिता इति विवाहार्ह
सर्वालङ्कारभूषिता, तां विवाहार्हसर्वालङ्कार
भूषिताम् । (तृ.त.पु.) पुत्र्या सममनैषीच्च, धनकोटीनेकशः । प्रलोभनं वरयितुर्या स्याँदिति जातीः ॥२८०॥ अन्वय :- यथा वरयितुः प्रलोभनं स्याद् इति जातधीः पुत्र्या समम्
अनेकशः च धनकोटी: अनैषीद् । समास :- (१) धनकोटी:- धनानां कोट्यः इति धनकोट्यः, ताः
धनकोटीः । (ष.त.पु.)
Page #140
--------------------------------------------------------------------------
________________
૧૩૧ (२) जातधी:- जाता धीः यस्य सः इति जातधीः ।
___ (समा.ब.वी.) तदहा शस्तने चाहि, वजे कुर्वति देशनाम् । भक्तिमानागरों लोकः, परस्परमंदोऽवदत् ॥२८१॥ अन्वय :- तदहात् ह्यस्तने च अह्नि वजे देशनां कुर्वति भक्तिमान्
____ नागरः लोकः परस्परम् अदः अवदत् । समास :- (१) तदहात् - तच्च तद् अहश्च इति तदहम्, तस्मात्
तदहात् । (वि.पू.क.) (२) ह्यस्तने - ह्यः भवः इति शस्तनः, तस्मिन् ह्यस्तने ।
(तद्धित) अहो! वज्रस्य सौस्वर्यम्', यदीयां धर्मदेशनाम् । आकाऽऽनन्दमग्नानाम्, मुक्त्यवस्थेवं जायते ॥२८२॥ अन्वय :- अहो ! वज्रस्य सौस्वर्यं यदीयां धर्मदेशनाम् आकर्ण्य
आनन्दमग्नानां मुक्त्यवस्था इव जायते । समास :- (१) सौस्वर्यम् - (A) शोभनः स्वरः इति सुस्वरः ।
(सु.पू.क.)
(B) सुस्वरस्य भावः इति सौस्वर्यम् । (तद्धित) (२) यदीयाम् - यस्य इयम् इति यदीया, तां यदीयाम् ।
(तद्धित) (३) धर्मदेशनाम् - पूर्ववत् ।
Page #141
--------------------------------------------------------------------------
________________
૧૩૨
(४) आनन्दमग्नानाम् - आनन्दे मग्नाः इति आनन्दमग्नाः, तेषाम् – आनन्दमग्नानाम् । (स.त.पु.)
-
(५) मुक्त्यवस्था - मुक्ते: अवस्था इति मुक्त्यवस्था । (ष. त.पु.) श्रीवज्रस्वामिनंः सर्वगुणरत्नमहोदधेः । गुणानुरूपं चेंद्रपम्, भर्वेदुच्यते तर्हि किम् ? ॥२८३॥ अन्वय :- सर्वगुणरत्नमहोदधेः श्रीवज्रस्वामिनः चेत् गुणानुरूपं रूपं भवेद् तर्हि किम् उच्यते ।
समास :- (१) श्रीवज्रस्वामिन: - पूर्ववत् ।
(२) सर्वगुणरत्नमहोदधे: - (A) सर्वे च ते गुणाश्च इति सर्वगुणा: । (वि.पू.क.)
(B) सर्वगुणाः एव रत्नानि इति सर्वगुणरत्नानि । (अव.पू.क.)
(C) महांश्चासौ उदधिश्च इति महोदधिः । (वि.पू.क.) (D) सर्वगुणरत्नानां महोदधिः इति सर्वगुणरत्नमहोदधिः । (षत.पु.)
(३) गुणानुरूपम् – (A) रूपस्य योग्यम् इति
-
अनुरूपम् । (अव्य.भा.)
(B) गुणानाम् अनुरूपम् इति गुणानुरूपम् । (ष. त.पु.)
1
वज्रर्षिणा चे नगरप्रवेशें रूपमात्मनः शक्त्यो संक्षिप्तमेवासीत् पुंरक्षोभाभिशङ्कया ॥ २८४॥
Page #142
--------------------------------------------------------------------------
________________
૧૩૩ अन्वय :- नगरप्रवेशे च वर्षिणा पुरक्षोभाभिशङ्कया शक्त्या आत्मनः
____ रूपं संक्षिप्तम् एव आसीत्। समास :- (१) वर्षिणा -वर्षिः - पूर्ववत्, तेन वर्षिणा।
(२) नगरप्रवेशे - नगरस्य प्रवेशः इति नगरप्रवेशः, तस्मिन्
नगरप्रवेशे । (ष.त.पु.) (३) पुरक्षोभाभिशङ्कया - (A) पुरस्य क्षोभः इति पुर
क्षोभः । (ष.त.पु.) (B) पुरक्षोभस्य अभिशङ्का इति पुरक्षोभाभिशङ्का, तया
____पुरक्षोभाभिशङ्कया। (ष.त.पु.) तदा चं भगवान्वज॑स्तेषां भावं मनोगतम् । संलापं च ज्ञानबलेनाज्ञासीदेतिशायिनों ॥२८५॥ अन्वय :- तदा च भगवान् वज्रः अतिशायिना ज्ञानबलेन तेषां
मनोगतं भावं संलापं च अज्ञासीद् । समास :- (१) मनोगतम् - मनसि गतः इति मनोगतः, तं मनोगतम्।
(स.त.पु.) (२) ज्ञानबलेन - ज्ञानस्य बलम् इति ज्ञानबलम्, तेन
ज्ञानबलेन । (ष.त.पु.) (३) अतिशायिना - अतिशेते इत्येवंशीलम् इति
अतिशायि, तेन अतिशायिना । (उप.त.पु.) द्वितीयेऽह्निं च वज्रेणं, विचक्रेऽनेकलब्धिनां । सहस्रपत्रं कमलम् , कमलाविष्टरोपमम् ॥२८६॥
Page #143
--------------------------------------------------------------------------
________________
૧૩૪ अन्वय :- द्वितीये च अह्नि अनेकलब्धिना वज्रेण कमलाविष्टरोपमं
सहस्रपत्रं कमलं विचक्रे। समास :- (१) अनेकलब्धिना - (A) न एकाः इति अनेकाः ।
(नञ्त.पु.) (B) अनेकाः लब्धयः यस्य सः इति अनेकलब्धिः,
तेन अनेकलब्धिना । (समा.ब.वी.) (२) सहस्रपत्रम् - सहस्रं पत्राणि यस्य तद् इति सहस्रपत्रम्,
तद् सहस्रपत्रम् । (संख्या.ब.वी.) (३) कमलाविष्टरोपमम् - (A) कमलायाः विष्टरम् इति
कमलाविष्टरम् । (ष.त.पु.) (B) कमलाविष्टरस्य उपमा यस्य तद् इति कमला
विष्टरोपमम्, तद् कमलाविष्टरोपमम्।
(व्यधि.ब.वी.) कृत्वा स्वाभाविक रूपमद्भुतं तस्य चोपरि । निषीदति स्मै भगवान्, वौं राजमरालवत् ॥२८७॥ अन्वय :- तस्य च उपरि राजमरालवत् भगवान् वज्रः स्वाभाविकं
अद्भुतं रूपं कृत्वा निषीदति स्म। समास :- (१) स्वाभाविकम्-स्वभावाद् आगतम् इति स्वाभाविकम्,
तद् स्वाभाविकम् । (तद्धित) (२) राजमरालवत् - (A) मरालानां राजा इति राजमरालः ।
(ष.त.पु.)
(B) राजमराल इव इति राजमरालवत् । (तद्धित) वज्ररूपं जनों दृष्ट्वा, जितामरकुमारकम् । शिरांसि दुधुवें गीताभ्यासं विरचर्यन्निव ॥२८८॥
Page #144
--------------------------------------------------------------------------
________________
૧૩૫ अन्वय :- गीताभ्यासं विरचयन् इव जनः जितामरकुमारकं वज्ररूपं
दृष्ट्वा शिरांसि दुधुवे। समास :- (१) वज्ररूपम् - वज्रस्य रूपम् इति वज्ररूपम्, तद्
वज्ररूपम् । (ष.त.पु.) (२) जितामरकुमारकम् - (A) अमराः कुमाराः इव इति
अमरकुमाराः । (उप.उत्त.क.) (B) जिताः अमरकुमाराः येन तद् इति जितामर
कुमारकम्, तद् जितामरकुमारकम्। (समा.ब.वी.) (३) गीताभ्यासम्-गीतानाम् अभ्यासः इति गीताभ्यासः,
तं गीताभ्यासम् । (ष.त.पु.) ऊचें लोकों वज्रस्य, रूपं नैसर्गिक ह्यदः । गुणानामांकृतेश्चौधे, सदृशोऽभूत्समागमः ॥२८९॥ अन्वय :- लोकः च ऊचे हि अद्य वज्रस्य अदः नैसर्गिकं रूपं गुणानाम्
आकृतेः च सदृशः समागमः अभूत्। समास :- (१) नैसर्गिकम् - निसर्गाभवम् इति नैसर्गिकम्। (तद्धित)
(२) सदृशः-समानः इव दृश्यते इति सदृशः । (उप.त.पु.) मा भूवं प्रार्थनीयोऽहम, लोकस्येति हि शङ्कयाँ । सामान्य शस्तनं रूपम्, नूनं शक्त्यैषं निर्ममें ॥२९०॥ अन्वय :- हि अहं लोकस्य प्रार्थनीयः मा भूवम् इति शङ्ख्या एष
शक्त्या नूनं ह्यस्तनं सामान्यं रूपं निर्ममे । समास :- (१) ह्यस्तनम् - पूर्ववत् । (२) सामान्यम् -समानस्य भावः इति सामान्यम्, तद्
सामान्यम् । (तद्धित)... -
Page #145
--------------------------------------------------------------------------
________________
૧૩૬
राजोऽपि व्याजहोरैवम्, विस्मयस्मेरमानसः । यथेष्टरूपनिर्माणलब्धिर्वज्रमुनिः खलु ॥२९१॥ अन्वय :- खलु विस्मयस्मेरमानसः राजा एवं व्याजहार वज्रमुनिः
यथेष्टरूपनिर्माणलब्धिः अपि (अस्ति) । समास :- (१) विस्मयस्मेरमानसः - (A) स्मेरं च तद् मानसं च
इति स्मेरमानसम् । (वि.पू.क.) (B) विस्मयेन स्मेरमानसं यस्य सः इति विस्मय
___ स्मेरमानसः (व्यधि.ब.वी.) (२) यथेष्टरूपनिर्माणलब्धिः - (A) इष्टम् अनतिक्रम्य इति
यथेष्टम् । (अव्य.भा.) (B) यथेष्टं च तद् रूपं च इति यथेष्टरूपम् ।
(वि.पू.क.) (C) यथेष्टरूपस्य निर्माणम् इति यथेष्टरूपनिर्माणम् ।
(ष.त.पु.) (D) यथेष्टरूपनिर्माणस्य लब्धिः यस्य सः इति
यथेष्टरूपनिर्माणलब्धिः । (व्यधि.ब.वी.) (३) वज्रमुनिः - पूर्ववत्। धनश्रेष्ठ्यपि तद्वज्रस्वामिरूपं निरूपयन् । स्वां पुत्रीं वर्णयामासे, साग्रहां तत्स्वयंवरे ॥२९२॥ अन्वय :- तद् वज्रस्वामिरूपं निरूपयन् धनश्रेष्ठी अपि तत्स्वयंवरे
साग्रहां स्वां पुत्रीं वर्णयामास। समास :- (१) धनश्रेष्ठी - (A) धनः नाम यस्य सः इति धननामा ।
(समा.ब.वी.)
Page #146
--------------------------------------------------------------------------
________________
૧૩૭ (B) धननामा श्रेष्ठी इति धनश्रेष्ठी । (म.प.लो.क.) (२) वज्रस्वामिरूपम्-वज्रस्वामी-पूर्ववत्, वज्रस्वामिनः .
रूपम् इति वज्रस्वामिरूपम्, तद् वज्रस्वामिरूपम् ।
(ष.त.पु.) (३) साग्रहाम् - आग्रहेण सह वर्तते या सा इति साग्रहा,
तां साग्रहाम्। (सह.ब.वी.) (४) तत्स्वयंवरे-(A) स्वयं वियतेऽस्मिन् इति स्वयंवरः ।
(उप.त.पु.) (B) तस्याः स्वयंवरः इति तत्स्वयंवरः, तस्मिन्
तत्स्व यंवरे । (ष.त.पु.) धनस्य हृदये स्वार्थप्रार्थनां कर्तुमिच्छतः । नं वज्रदेशनार्थोऽस्थादैत्युत्तानं इवोदकम् ॥२९३॥ अन्वय :- स्वार्थप्रार्थनां कर्तुम् इच्छतः धनस्य हृदये अत्युत्ताने
उदकम् इव वज्रदेशनार्थः न अस्थाद् । समास :- (१) स्वार्थप्रार्थनाम् - (A) स्वस्य अर्थः इति स्वार्थः ।
(ष.त.पु.) (B) स्वार्थस्य प्रार्थना इति स्वार्थप्रार्थना, तां
स्वार्थप्रार्थनाम् । (ष.त.पु.) (२) वज्रदेशनार्थः - (A) वज्रस्य देशना इति वज्रदेशना।
(ष.त.पु.) (B) वज्रदेशनायाः अर्थः इति वज्रदेशनार्थः ।
(ष.त.पु.) (३) अत्युत्ताने - अतिशयेन उत्तानः इति अत्युत्तानः,
तस्मिन् अत्युत्ताने । (प्रा.क.) .
Page #147
--------------------------------------------------------------------------
________________
૧૩૮ देशनान्तेंवदद्वजम्, धनश्रेष्ठी कृताञ्जलिः । कृत्वा प्रसाद मत्पुत्रीमिमांमुबह मानदै! ॥२९४॥ अन्वय :- देशनान्ते कृताञ्जलिः धनश्रेष्ठी वज्रम् अवदत् मानद ! प्रसादं
कृत्वा इमां मत्पुत्रीम् उद्वह। समास :- (१) देशनान्ते - पूर्ववत् ।
(२) धनश्रेष्ठी-पूर्ववत् । (३) कृताञ्जलिः - कृतः अञ्जलिः येन सः इति
कृताञ्जलिः । (समा.ब.वी.) (४) मत्पुत्रीम् - मम पुत्री इति मत्पुत्री, तां मत्पुत्रीम् ।
(ष.त.पु.) (५) मानद ! - मानं ददाति इति मानदः, तत्संबोधनं
मानद ! । (उप.त.पु.) क्वं भवानमराकारः, क्वेयं मानुषकोटिका । ऊरीकु तथाप्येनाम्, महत्तुं न वृथाऽर्थनीं ॥२९५॥ अन्वय :- अमराकारः भवान् क्व मानुषकीटिका इयं का तथा
अपि एनाम् ऊरीकुरु महत्सु अर्थना वृथा न (भवति)। समास :- (१) अमराकारः - अमरस्य आकारः इव आकारः यस्य
सः इति अमराकारः । (उप.ब.वी.) (२) मानुषकीटिका - मानुषेषु कीटिका इव इति
मानुषकीटिका । (स.त.पु.) (३) ऊरीकुरु - (A) न ऊरी इति अनूरी । (नञ्.त.पु.)
(B) अनूरी ऊरी कुरु इति ऊरीकुरु । (गति.त.पु.)
Page #148
--------------------------------------------------------------------------
________________
૧૩૯ विवाहानन्तरं वजं !, हस्तमोचनपर्वणि । द्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्य भवेत्वदः ॥२९६॥ अन्वय :- वज्र ! विवाहानन्तरं हस्तमोचनपर्वणि असङ्ख्याताः
द्रव्यकोटी: तुभ्यं दास्ये अदः भवतु । समास :- (१) विवाहानन्तरम् - (A) नास्ति अन्तरं यस्मिन् तद्
इति अनन्तरम् । (नञ्.ब.वी.) (B) विवाहाद् अनन्तरम् इति विवाहानन्तरम् ।
(पं.त.पु.) (२) हस्तमोचनपर्वणि - (A) हस्तस्य मोचनम् इति
हस्तमोचनम् । (ष.त.पु.) (B) हस्तमोचनस्य पर्व इति हस्तमोचनपर्व, तस्मिन्
हस्तमोचनपर्वणि । (ष.त.पु.) (३) द्रव्यकोटी: - द्रव्याणां कोट्यः इति द्रव्यकोट्यः,
ताः द्रव्यकोटीः । (ष.त.पु.) वर्जस्तमज्ञं विज्ञार्य, स्मित्वोचें करुणापरः । पर्याप्तं द्रव्यकोटीभिः, पर्याप्तं कन्ययों च ते ॥२९७॥ अन्वय :- करुणापरः वज्रः तम् अज्ञं विज्ञाय स्मित्वा ऊचे ते
द्रव्यकोटीभिः पर्याप्तं कन्यया च पर्याप्तम् । समास :- (१) अज्ञम् - न जानाति इति अज्ञः, तम् अज्ञम् ।
(उप.त.पु.) (२) करुणापरः - करुणायां परः इति करुणापरः ।
(स.त.पु.)
10
Page #149
--------------------------------------------------------------------------
________________
१४० (३) द्रव्यकोटीभिः - द्रव्यकोट्यः-पूर्ववत्, ताभिः
द्रव्यकोटीभिः । नितम्बिन्यो हि विषयास्ते पुर्नः स्युर्विषोपाः । आपातमात्रमधुराः, परिणामेऽतिदारूंणाः ॥२९८॥ अन्वय :- पुनः नितम्बिन्यः ते विषयाः हि विषोपमाः आपातमात्र
मधुराः परिणामे अतिदारुणाः स्युः । समास :- (१) विषोपमा:-विषस्य उपमा येषां ते इति विषोपमाः ।
(व्यधि.ब.वी.) .. (२) आपातमात्रमधुराः - (A) आपातम् एव इति आपात
मात्रम् । (मयू.कर्म.) (B) आपातमात्रे मधुराः इति आपातमात्रमधुराः ।
__ (स.त.पु.) (३) अतिदारुणाः - अतिशयेन दारुणाः इति
__ अतिदारुणाः । (प्रा.क.) विवेच्यमाना विषया, विशिष्यन्ते विषादपि । जन्मान्तरेऽप्यनर्थाय , ये भवन्ति शरीरिणाम ॥२९९॥ अन्वय :- विवेच्यमानाः विषयाः विषाद् अपि विशिष्यन्ते ये
जन्मान्तरे अपि शरीरिणाम् अनर्थाय भवन्ति । समास :- (१) जन्मान्तरे - अन्यद् जन्म इति जन्मान्तरम्, तस्मिन्
जन्मान्तरे । (मयू.कर्म.) (२) अनर्थाय - न अर्थः इति अनर्थः, तस्मै अनर्थाय ।
(नञ्.त.पु.)
Page #150
--------------------------------------------------------------------------
________________
૧૪૧ (३) शरीरिणाम्-शरीरमस्ति येषाम् इति शरीरिणः, तेषां
शरीरिणाम् । (तद्धित) ज्ञात्वा दुरन्तान् विषर्यान्, कथमङ्गीकरोम्यमूम् । ज्ञातैश्चौरैरसारोपि, ग्रहीतुं ने ही शक्यते ॥३००॥ अन्वय :- विषयान् दुरन्तान् ज्ञात्वा अमूं कथम् अङ्गीकरोमि ही
ज्ञातैः चौरैः असारः अपि ग्रहीतुं न शक्यते । समास :- (१) दुरन्तान् - दुष्टः अन्तः येषां ते इति दुरन्ताः, तान्
दुरन्तान् । (प्रादि.ब.वी.) (२) अङ्गीकरोमि - (A) न अङ्गम् इति अनङ्गम् ।
(नञ्.त.पु.) (B) अनङ्गम् अङ्गम् इव करोमि इति अङ्गीकरोमि ।
__(गति.त.पु.) (३) असारः - नास्ति सारं यस्मिन् सः इति असारः ।
(नञ्.ब.वी.) महानुभावं ! कन्या ते, यदि मय्येनुरागिणी । प्रव्रज्यां तन्मयोपात्तामुपादामीवर्पि ॥३०१॥ अन्वय :- महानुभाव ! यदि ते कन्या मयि अनुरागिणी तद् मया
उपात्तां प्रव्रज्याम् असौ अपि उपादत्ताम् । समास :- (१) महानुभाव! - महान् अनुभावः यस्यसः इति
महानुभावः, तत्सम्बोधनं महानुभाव ! (समा.ब.वी.) (२) अनुरागिणी - अनुरागः अस्ति अस्या इति
अनुरागिणी। (तद्धित)
Page #151
--------------------------------------------------------------------------
________________
૧૪૨
इयेषं मामेवं यदि, कुलीनो मनसाऽप्यसौ । तदेवं युज्यतें कर्तुं, परलोकहितेच्छया ॥३०२॥ अन्वय :- यदि कुलीना असौ मनसा अपि माम् एव इयेष तद्
परलोकहितेच्छया एवं कर्तुं युज्यते। समास :- (१) कुलीना - कुले भवा इति कुलीना । (तद्धित)
(२) परलोकहितेच्छया - (A) परश्चासौ लोकश्च इति
परलोकः । (वि.पू.क.) (B) परलोकाय हितम् इति परलोकहितम् ।
(च.त.पु.) (C) परलोकहितस्य इच्छा इति परलोकहितेच्छा,
तया परलोकहितेच्छया । (ष.त.पु.) विवेकपूर्वमथवाऽनुज्ञयाँऽपि मदीययो । गृह्णात्वेषां परिव्रज्याम्, निर्वाणार्पणलग्निकाम् ॥३०३॥ अन्वय :- विवेकपूर्वम् अथवा मदीयया अनुज्ञया अपि एषा
निर्वाणार्पणलग्निकां परिव्रज्यां गृह्णातु । समास :- (१) विवेकपूर्वम्-विवेकेन पूर्वम् इति विवेकपूर्वम् ।
(तृ.त.पु.) (२) मदीयया - मम इयम् इति मदीया, तया मदीयया।
(तद्धित) (३) निर्वाणार्पणलग्निकाम् - (A) निर्वाणस्य अर्पणम् इति
निर्वाणार्पणम् । (ष.त.पु.)
Page #152
--------------------------------------------------------------------------
________________
૧૪૩ (B) निर्वाणार्पणस्य लग्निका इति निर्वाणार्पणलग्निका,
तां निर्वाणार्पणलग्निकाम् । (ष.त.पु.) बिभीतकतरुच्छायामिवानर्थप्रदायिनीम् । माँ कोर्षीद्विषयासक्तिम्, त्वत्पुत्री वच्मि तद्धितम् ॥३०४॥ अन्वय :- तद्धितं वच्मि (यद्) त्वत्पुत्री बिभीतकतरुच्छायाम् इव
अनर्थप्रदायिनी विषयासक्तिं मा कार्षीत् । समास :- (१) बिभीतकतरुच्छायाम् - (A) बिभीतकः नाम यस्य
सः इति बिभीतकनामा। (समा.ब.वी.) (B) बिभीतकनामा चासौ तरुश्च इति बिभीतकतरुः।
(म.प.लो.क.) (C) बिभीतकतरोः छाया इति बिभीतकतरुच्छाया,
तां बिभीतकतरुच्छायाम् । (ष.त.पु.) (२) अनर्थप्रदायिनीम् - (A) न अर्थः इति अनर्थः ।
(नब्.त.पु.) (B) अनर्थं प्रददाति इत्येवंशीला अनर्थप्रदायिनी,
ताम् अनर्थप्रदायिनीम् । (उप.त.पु.) (३) विषयासक्तिम् - विषयाणाम् आसक्तिः इति
विषयासक्तिः, तां विषयासक्तिम् । (ष.त.पु.) (४) त्वत्पुत्री - तव पुत्री इति त्वत्पुत्री । (ष.त.पु.) (५) तद्धितम् - तस्यै हितम् इति तद्धितम्, तद् तद्धितम् ।
(च.त.पु.)
Page #153
--------------------------------------------------------------------------
________________
एवं भगवतो वज्रस्वामिनः पेशलोक्तिभिः । प्रतिबुद्धा प्रवव्राजाल्पकर्मा रुक्मिणी तदा ॥३०५॥ अन्वय :- एवं भगवतः वज्रस्वामिनः पेशलोक्तिभिः प्रतिबुद्धा
अल्पकर्मा रुक्मिणी तदा प्रवव्राज । समास :- (१) भगवतः - भगवान् - पूर्ववत्, तस्य भगवतः ।
(२) वज्रस्वामिनः - पूर्ववत् । (३) पेशलोक्तिभिः - पेशलाश्च ताः उक्तयश्च इति
पेशलोक्तयः, ताभिः पेशलोक्तिभिः । (वि.पू.क.) (४) अल्पकर्मा - अल्पानि कर्माणि यस्याः सा इति
अल्पकर्मा । (समा.ब.वी.) धर्मोऽयमेवं हि श्रेयान्, यत्र निर्लोभंतेदृशीं । एवं विमृश्य बहवः, प्रतिबोधं जनी ययुः ॥३०६॥ अन्वय :- हि अयं धर्मः एव श्रेयान् यत्र ईदृशी निर्लोभता एवं
विमृश्य बहवः जनाः प्रतिबोधं ययुः । समास :- (१) ईदृशी - इयम् इव दृश्यते इति ईदृशी। (उप.त.पु.)
(२) निर्लोभता - (A) निर्गतः लोभः यस्मात्सः इति
निर्लोभः । (प्रादि.ब.वी.)
(B) निर्लोभस्य भावः इति निर्लोभता । (तद्धित) अन्यदा जन्मसंसिद्धपदानुसृतिलब्धिना । ततो भगवता वज्रस्वामिनाऽऽकाशगामिनी ॥३०७॥
१३
Page #154
--------------------------------------------------------------------------
________________
૧૪૫
महापरिजध्ययनादाचाराङ्गान्तरस्थिता । विद्योद्दघे भगवंतः, सङ्घस्योपचिकीर्षुणों ॥३०८॥
(युग्मम्) अन्वय :- ततः अन्यदा भगवतः सङ्घस्य उपचिकीर्षुणा जन्मसंसि
द्धपदानुसृतिलब्धिना भगवता वज्रस्वामिना महापरिज्ञाध्ययनाद् आचाराङ्गान्तरस्थिता आकाशगामिनी विद्या
उद्दधे । समास :- (१) जन्मसंसिद्धपदानुसृतिलब्धिना - (A) जन्मतः संसिद्धा
इति जन्मसंसिद्धा । (पं.त.पु.) (B) पदानामनुसृतिः यस्यां सा इति पदानुसृतिः ।
(व्यधि.ब.वी.) (C) पदानुसृतिः नाम यस्याः सा इति पदानु
सृतिनामा । (समा.ब.वी.) (D) पदानुसृतिनामा लब्धिः इति पदानुसृतिलब्धिः।
(म.प.लो.क.) (E) जन्मसंसिद्धा पदानुसृतिलब्धिः यस्य सः इति
जन्मसंसिद्धपदानुसृतिलब्धिः, तेन जन्मसंसिद्ध
पदानुसृतिलब्धिना । (समा.ब.वी.) ... (२) वज्रस्वामिना - पूर्ववत् । (३) आकाशगामिनी - पूर्ववत् । (४) महापरिज्ञाध्ययनाद् - (A) महापरिज्ञा नाम यस्य
तद् इति महापरिज्ञानाम । (समा.ब.वी.)
Page #155
--------------------------------------------------------------------------
________________
૧૪૬ (B) महापरिज्ञानाम च तद् अध्ययनं च इति महा
परिज्ञाध्ययनम्, तस्मात् महापरिज्ञाध्ययनाद् ।
(म.प.लो.क.) ५) आचाराङ्गान्तरस्थिता - (A) आचाराणां कथनं यस्मिन्
तद् इति आचारकथनम् । (समा.ब.वी.) (B) आचारकथनम् अङ्गम् इति आचाराङ्गम् ।
(म.प.लो.क.) (C) आचाराङ्गस्य अन्तरम् इति आचाराङ्गान्तरम् ।
(ष.त.पु.) (D) आचाराङ्गान्तरे स्थिता इति आचाराङ्गान्तर
स्थिता । (स.त.पु.) बभाणे वज्रो भगवान या विद्यया मम । जम्बूद्वीपाद् भ्रमणेऽस्ति, शक्तिरामानुषोत्तरम् ॥३०९॥ अन्वय :- भगवान् वज्रः बभाण अनया विद्यया जम्बूद्वीपाद् आमा
नुषोत्तरं भ्रमणे मम शक्तिः अस्ति। समास :- (२) जम्बूद्वीपात्- जम्बूद्वीपः पूर्ववत्, तस्मात् जम्बूद्वीपात्।
(३) आमानुषोत्तरम् - आ मानुषोत्तरात् इति आमानुषो
त्तरम् । (अव्य.भा.) मैयेयं धरणीयैर्व, विद्या देया न कस्यचित् । अल्पयोऽल्पसत्त्वाचे, भाँविनोऽन्ये ह्यतः परम् ॥३१०॥
Page #156
--------------------------------------------------------------------------
________________
२५
૧૪૭ अन्वय :- इयं विद्या मया एव धरणीया, कस्यचित् न देया, हि अतः
परम् अन्ये अल्पर्द्धयः अल्पसत्त्वाः च भाविनः । समास :- (१) अल्पर्द्धयः - अल्पा ऋद्धिः येषां ते इति
अल्पर्द्धयः । (समा.ब.वी.) (२) अल्पसत्त्वाः - अल्पं सत्त्वं येषां ते इति
अल्पसत्त्वाः । (समा.ब.वी.) अन्यदा पूर्वदिग्भांगाच्छ्रीव॑जोऽगीन्महामुनिः । सूर्यो मकरसङ्क्रान्ताविवापाच्याँ उदग्दिशम् ॥३११॥ अन्वय :- अन्यदा मकरसङ्क्रान्तौ सूर्यः अपाच्या (उदग्दिशम्) इव
महामुनिः श्रीवज्रः पूर्वदिग्भागाद् उदग्दिशम् अगाद् । समास :- (१) पूर्वदिग्भागाद् - (A) पूर्वा च सा दिक् च इति
पूर्वदिक् । (वि.पू.क.) (B) पूर्वदिशः भागः इति पूर्वदिग्भागः, तस्मात्
पूर्वदिग्भागात् । (ष.त.पु.) (२) श्रीवज्रः - पूर्ववत् । (३) महामुनिः - पूर्ववत्। (४) मकरसङ्क्रान्तौ - मकरस्य संक्रान्तिः यस्मिन् सः
इति मकरसङ्क्रान्तिः, तस्मिन् मकरसङ्क्रान्तौ ।
(व्यधि.ब.वी.) (५) उदग्दिशम्- उदक् चासौ दिक् च इति उदग्दिक्,
ताम् उदग्दिशम् । (वि.पू.क.)
Page #157
--------------------------------------------------------------------------
________________
૧૪૮
तर्दा तत्र प्रववृते, दुर्भिक्षमतिभीषण ।
बभूव भोजनश्रद्धानुबन्धविधुरौं जनः ॥३१२॥ अन्वय :- तदा तत्र अतिभीषणं दुर्भिक्षं प्रववृते जनः भोजनश्रद्धानु
बन्धविधुरः बभूव। समास :- (१) दुर्भिक्षम् - भिक्षायाः अभावः इति दुर्भिक्षम् ।
(अव्य.भा.) (२) अतिभीषणम् - अतिशयेन भीषणम् इति
अतिभीषणम् । (प्रा.क.) (३) भोजनश्रद्धानुबन्धविधुरः - (A) भोजनस्य श्रद्धा इति
भोजनश्रद्धा । (ष.त.पु.) (B) भोजनश्रद्धायाः अनुबन्धः इति भोजनश्रद्धानु
बन्धः । (ष.त.पु.) (C) भोजनश्रद्धानुबन्धात् विधुरः इति भोजनश्रद्धा
नुबन्धविधुरः । (पं.त.पु.) गृहिणामन्नदारिद्रयादल्पभोजनकारिणाम् । बभूवं नित्यमप्यूनोदरता यतिनामिव ॥३१३॥ अन्वय :- अन्नदारिद्र्यात् अल्पभोजनकारिणां यतिनाम् इव गृहिणाम्
___अपि नित्यम् ऊनोदरता बभूव । समास :- (१) अन्नदारिद्रयात् - अन्नस्य दारिद्र्यम् इति अन्न
दारिद्र्यम्, तस्मात् अन्नदारिद्र्यात् । (ष.त.पु.) (२) अल्पभोजनकारिणाम् – (A) अल्पं च तद् भोजनं च
इति अल्पभोजनम् । (वि.पू.क.)
Page #158
--------------------------------------------------------------------------
________________
૧૪૯
(B) अल्प भोजनं कुर्वन्ति इत्येवंशीलाः इति अल्पभोजनकारिण:, तेषाम् अल्पभोजनकारिणाम् । (उप.त.पु.)
(३) ऊनोदरता – (A) ऊनं च तद् उदरं च इति ऊनोदरम् ।
-
(वि.पू.क.)
(B) ऊनोदरस्य भावः इति ऊनोदरता । (तद्धित)
संवव्रिरें' सत्रशाला, गृहस्थैरीश्वरैरपि । सर्वत्रार्भूदंविरलरुलद्रोलाकुलैर्व भूः ॥३१४॥
अन्वय :- इश्वरैः गृहस्थैः अपि सत्रशालाः संवव्रिरे सर्वत्र अविर - लरुलद्रोलाकुला एव भूः अभूद् ।
"अविरलं - निरन्तरम्" । निबिडं तु निरन्तरम् ॥१४४६ ॥ निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् । गाढमविरलं च । इत्यभिधाने । (१४४७)... । रोलः - दीनः ।
समास :- (१) सत्रशाला:- सत्रस्य शाला: इति सत्रशालाः ।
(ष. त.पु.)
(२) गृहस्थै:- गृहस्थाः पूर्ववत्, तैः गृहस्थैः ।
(उप.त.पु.)
(३) अविरलरुलद्रोलाकुला - (A) अविरलं रुलन्तः इति अविरलरुलन्तः । (द्वित. पु.)
(B) अविरलरुलन्तश्चामी रोलाश्च इति अविरलरुद्रोला : (वि.पू.क.)
(C) अविरलरुलद्रोलैः आकुला इति अविरलरुलद्रोलाकुला । (तृ.त. पु.)
Page #159
--------------------------------------------------------------------------
________________
૧૫૦ रङ्को विक्रीयमाणानि, दधिभाण्डानि चत्वरे । स्फोटं स्फोटं तद्दधीनिं, लिलिहुँः कुक्कुरा इव ॥३१५॥ अन्वय :- रङ्काः कुक्कुराः इव चत्वरे विक्रीयमाणानि दधिभाण्डानि
स्फोटं स्फोटं तद्दधीनि लिलिहुः । समास :- (१) दधिभाण्डानि- (A) दध्ना भृतानि इति दधिभृतानि ।
(तृ.त.पु.) (B) दधिभृतानि भाण्डानि इति दधिभाण्डानि, तानि
___ दधिभाण्डानि । (म.प.लो.क.) (२) तद्दधीनि - तेषां दधीनि तद्दधीनि, तानि तद्दधीनि ।
(ष.त.पु.) अस्थिचर्मावशेषाङ्गाः, सुव्यक्तस्नायुमण्डलाः । राः सर्वत्र सञ्चसँः, परेता इवं दारुणाः ॥३१६॥ अन्वय :- परेताः इव दारुणाः अस्थिचर्मावशेषाङ्गाः सुव्यक्तस्नायु
मण्डलाः रङ्काः सर्वत्र सञ्चेरुः । परेता:-मृताः । प्रमीत उपसम्पन्नः परेतप्रेतसंस्थिताः ।।३७३।। नामालेख्ययशःशेषौ व्यापन्नोपगतौ मृतः ॥ इत्यभिधाने
(३७४) समास :- (१) अस्थिचर्मावशेषाङ्गाः - (A) अस्थीनि च चर्माणि च
एतेषां समाहारः इति अस्थिचर्म । (समा.द्व.) (B) अस्थिचर्म अवशेषः यस्मिन् तद् इति अस्थि
चर्मावशेषम्। (समा.ब.वी.) (C) अस्थिचर्मावशेषम् अङ्ग येषां ते अस्थि
चर्मावशेषाङ्गाः । (समा.ब.वी.)
Page #160
--------------------------------------------------------------------------
________________
૧૫૧ (२) सुव्यक्तस्नायुमण्डलाः - (A) स्नायूनां मण्डलानि
इति स्नायुमण्डलानि । (ष.त.पु.) (B) सुष्ठ व्यक्तानि इति सुव्यक्तानि । (सु.पू.क.) (C) सुव्यक्तानि स्नायुमण्डलानि येषां ते इति
सुव्यक्तस्नायुमण्डलाः । (समा.ब.वी.) (३) परेताः - परम् इताः इति परेताः । (द्वि.त.पु.) अनगारेष्वतिथितामागतेष्वन्नतृष्णा । अदर्शयन्भिक्षादोषांनुपेत्यं श्रावको अपिं ॥३१७॥ अन्वय :- अतिथिताम् आगतेषु अनगारेषु श्रावका अपि अन्नतृष्णया
भिक्षादोषान् उपेत्य अदर्शयन् । समास :- (१) अनगारेषु - नास्ति अगारं येषां ते इति अनगाराः,
तेषु अनगारेषु । (नञ्.ब.वी.) (२) अतिथिताम् - (A) अतिथि:-पूर्ववत् । (B) अतिथे: भावः अतिथिता, ताम् अतिथिताम् ।
(तद्धित) (३) अन्नतृष्णया - अन्नस्य तृष्णा इति अन्नतृष्णा, तया
अन्नतृष्णया। (ष.त.पु.) (४) भिक्षादोषान् - भिक्षायाः दोषा इति भिक्षादोषाः तान्
भिक्षादोषान् । (ष.त.पु.) ग्रामेधुं शून्यीभूतेषु, विष्वनिर्धूमधामसु । अभवत्पादसञ्चारोंः, पानोऽप्यभर्वन्खिलाः ॥३१८॥
Page #161
--------------------------------------------------------------------------
________________
૧૫૨
अन्वय :- विष्वग् निधूमधामसु शून्यीभूतेषु ग्रामेषु अभवत्पादसञ्चाराः
पन्थानः अपि खिलाः अभवन् । खिलाः - सञ्चारायोग्याः । “द्वे खिलाऽप्रहते समे त्रिषु"
इत्यमरः (२।१।५) समास :- (१) शून्यीभूतेषु - (A) न शून्याः इति अशून्याः ।
(नञ्.त.पु.) (B) अशून्याः शून्याः इव भूताः शून्यीभूताः तेषु
__ शून्यीभूतेषु । (गति.त.पु.) (२) निर्धूमधामसु - (A) निर्गतः धूमः येभ्यस्तानि इति
निर्धूमानि । (प्रादि.ब.वी.) (B) निर्धूमानि धामानि येषु ते इति निर्धूमधामानः,
तेषु निर्धूमधामसु । (समा.ब.वी.) (३) अभवत्पादसञ्चाराः - (A) न भवन् इति अभवन् ।
(नञ्.त.पु.) (B) पादानां सञ्चारः इति पादसञ्चारः । (ष.त.पु.) (C) अभवन् पादसञ्चारः येषु ते इति अभवत्पाद
सञ्चाराः । (समा.ब.वी.) ततश्च सकलः संघों , दुष्कालेन कर्थितः । दीनों विज्ञपयामास , सुनन्दानन्दनं मुनिम् ॥३१९॥ अन्वय :- ततः च दुष्कालेन कर्थितः दीनः सकलः संघः
सुनन्दानन्दनं मुनिं विज्ञपयामास । समास :- (१) दुष्कालेन - दुष्टः कालः इति दुष्कालः, तेन
दुष्कालेन । (प्रा.क.)
Page #162
--------------------------------------------------------------------------
________________
૧૫૩ (२) सुनन्दानन्दनम् - सुनन्दानन्दनः - पूर्ववत्, तं
सुनन्दानन्दनम् । अस्मान्दुःोर्णवादात्, कथंचिदपि तारयं । सङ्घप्रयोजने विद्योपयोगोऽपि ने दुष्यति ॥३२०॥ अन्वय :- अस्माद् दुःखार्णवाद् कथंचिद् अपि अस्मान् तारय
सङ्घप्रयोजने विद्योपयोगः अपि न दुष्यति । समास :- (१) दुःखार्णवात् -दुःखम् एव अर्णवः इति दुःखार्णवः,
तस्मात् दुःखार्णवात् । (अव.पू.क.) (२) सङ्घप्रयोजने-सङ्घस्य प्रयोजनम् इति सङ्घप्रयोजनम्,
तस्मिन् सङ्घप्रयोजने । (ष.त.पु.) (३) विद्योपयोगः - विद्यायाः उपयोगः इति
विद्योपयोगः । (ष.त.पु.) ततश्च वज्रों भगवान, विद्याशा गरिष्ठयो । पटं विच. विपुलम्, चक्र चर्मरत्नवत् ॥३२१॥ अन्वय :- ततः च भगवान् वज्रः गरिष्ठया विद्याशक्त्या
चक्रभृच्चचर्मरत्नवत् विपुलं पटं विचक्रे। समास :- (१) विद्याशक्त्या - विद्यायाः शक्तिः इति विद्याशक्तिः,
तया विद्याशक्त्या । (ष.त.पु.) (२) चक्रभृच्चर्मरत्नवत् - (A) चक्रं बिभर्ति इति
चक्रभृत् । (उप.तं.पु.) (B) चर्मणा निर्मितम् इति चर्मनिर्मितम् । (तृ.त.पु.)
७
Page #163
--------------------------------------------------------------------------
________________
૧૫૪
(C) चर्मनिर्मितं रत्नम् इति चर्मरत्नम् । (म.प.लो.क.)
(D) चक्रभृतः चर्मरत्नम् इति चक्रभृच्चर्मरत्नम् । (ष.त.पु.)
(E) चक्रभृच्चर्मरत्नम् इव इति चक्रभृच्चर्मरत्नवत् । (तद्धित)
श्रीवज्रस्वामिनां सङ्घो', निर्दिष्टः सकलस्तदा । पोर्तें वणिक्सार्थं इवाधिरुरोह महापटें ॥३२२॥ अन्वय :- तदा श्रीवज्रस्वामिना निर्दिष्टः सकलः सङ्घः पोते वणिक्सार्थः इव महापटे अधिरुरोह ।
समास :- (१) श्रीवज्रस्वामिना - पूर्ववत् ।
(२) वणिक्सार्थ: - वणिजां सार्थः इति वणिक्सार्थः । (ष. त.पु.)
(३) महापटे - महाँश्चासौ पटश्च इति महापटः, तस्मिन् महापटे । (वि.पू.क.)
वज्रर्षिणां भगवत, विद्याशक्त्या प्रयुक्तया । उत्पुप्लुवे पटौं व्योम्निं, पवनोत्क्षिप्ततूलवत् ॥ ३२३॥ अन्वय :- भगवता वज्रर्षिणा प्रयुक्तया विद्याशक्त्या पटः पवनोत्क्षिप्ततूलवत् व्योम्नि उत्पुप्लुवे ।
समास :- (१) वज्रर्षिणा - पूर्ववत् । (२) विद्याशक्त्या - पूर्ववत् ।
Page #164
--------------------------------------------------------------------------
________________
૧પપ (३) पवनोत्क्षिप्ततूलवत् - (A) पवनेन उत्क्षिप्तम् इति
पवनोत्क्षिप्तम् । (तृ.त.पु.) (B) पवनोत्क्षिप्तं च तद् तूलं च इति पवनोत्क्षिप्त
तूलम् । (वि.पू.क.) (C) पवनोत्क्षिप्ततूलम् इव इति पवनोत्क्षिप्ततूलवत् ।
___(तद्धित) तदा शय्यातरों दत्तनामा वज्रमहामुनेः । समाययौं सं हि वारिग्रहार्थं गतोऽभवत् ॥३२४॥ अन्वय :- तदा वज्रमहामुनेः दत्तनामा शय्यातरः वारिग्रहणार्थं गतः
अभवत् सः हि समाययौ। समास :- (१) शय्यातरः - पूर्ववत् ।
(२) दत्तनामा - दत्तः नाम यस्य सः इति दत्तनामा ।
(समा.ब.वी.) (३) वज्रमहामुनेः - पूर्ववत्। (४) वारिग्रहणार्थम् - (A) वारिणः ग्रहणम् इति वारि
ग्रहणम् । (ष.त.पु.) (B) वारिग्रहणस्य अर्थम् इति वारिग्रहणार्थम् ।
(ष.त.पु.) सङ्घनं सहितं वज्रस्वामिनं व्योमयायिनम् । निरीक्ष्यं मूर्धजाँशीघ्रमुत्खायैर्वमुवा, सैः ॥३२५॥ अन्वय :- सङ्घन सहितं व्योमयायिनं वज्रस्वामिनं निरीक्ष्य सः मूर्धजान्
___ शीघ्रम् उत्खाय एवम् उवाच।
Page #165
--------------------------------------------------------------------------
________________
. १५६ समास :- (१) वज्रस्वामिनम् - पूर्ववत् ।
(२) व्योमयायिनम् - व्योम्नि याति इत्येवंशीलः इति ___ व्योमयायी, तं व्योमयायिनम् । (उप.त.पु.) (३) मूर्धजान् - मूनि जाताः इति मूर्धजाः, तान् मूर्धजान् ।
(उप.त.पु.) शय्यातरोऽहं युष्माकमभवं भगवन् ! पुरा । अद्यं साधर्मिकोऽप्यस्मि, निस्तारयसि कि न माम् ? ॥३२६॥ अन्वय :- भगवन् ! पुरा अहं युष्माकं शय्यातरः अभवम् अद्य
सार्मिकः अपि अस्मि मां किं न निस्तारयसि ? । समास :- (१) शय्यातरः - पूर्ववत् ।
(२) सार्मिकः - (A) समानः धर्मः यस्य सः इति
सधर्मा । (समा.ब.वी.) (B) सधर्माणः अयम् (संबन्धः) इति साधर्मिकः ।
__ (तद्धित) शय्यार्तरस्य ती वाचम्, श्रुत्वोपालम्भगर्भिताम् । दृष्ट्वा च लूनकेशं तम्, वज्रः सूत्रार्थमस्मरत् ॥३२७॥ अन्वय :- शय्यातरस्य उपालम्भगर्भितां तां वाचं श्रुत्वा लूनकेशं
च तं दृष्ट्वा वज्रः सूत्रार्थम् अस्मरत् । समास :- (१) शय्यातरस्य - पूर्ववत् ।।
(२) उपालम्भगर्भिताम् - उपालम्भेन गर्भिता इति
उपालम्भगर्भिता, ताम् उपालम्भगर्भिताम् । (तृ.त.पु.)
९
Page #166
--------------------------------------------------------------------------
________________
૧૫૭ (३) लूनकेशम् - लूनाः केशाः येन सः इति लूनकेशः, तं
लूनकेशम् । (समा.ब.वी.) (४) सूत्रार्थम् – सूत्राणाम् अर्थः इति सूत्रार्थः, तं सूत्रार्थम् ।
____ (ष.त.पु.) ये साधर्मिकवात्सल्य , स्वाध्यायें चरणेऽपिं वा । तीर्थप्रभावनायां चौद्युक्तांस्तांस्तारयन्मुनिः ॥३२८॥ अन्वय :- ये सार्मिकवात्सल्ये स्वाध्याये चरणे वा तीर्थप्रभावनायां
च उद्युक्ताः तान् अपि मुनिः तारयेत् । समास :- (१) साधर्मिकवात्सल्ये - (A) साधर्मिकः-पूर्ववत् ।
(B) वत्सलस्य भावः इति वात्सल्यम् । (तद्धित) (C) सार्मिकाणां वात्सल्यम् इति सार्मिक
वात्सल्यम्, तस्मिन् सार्मिकवात्सल्ये ।
(ष.त..) (२) स्वाध्याये - पूर्ववत् । (३) तीर्थप्रभावनायाम् - तीर्थस्य प्रभावना इति तीर्थ
प्रभावना, तस्यां तीर्थप्रभावनायाम् । (ष.त.पु.) आगमार्थमिमं स्मृत्वा , वज्रस्वामिमहर्षिणां । पटें तस्मिनध्यरोपि, सौंऽपि शय्यातरोत्तमः ॥३२९॥ अन्वय :- इमम् आगमार्थं स्मृत्वा वज्रस्वामिमहर्षिणा सः शय्यातरोत्तमः
__ . अपि तस्मिन् पटे अध्यरोपि । समास :- (१) आगमार्थम् - आगमस्य अर्थः इति आगमार्थः, तम्
आगमार्थम् । (ष.त.पु.)
Page #167
--------------------------------------------------------------------------
________________
૧૫૮
(२) वज्रस्वामिमहर्षिणा (A) वज्रस्वामी - पूर्ववत् ।
(B) महर्षिः - पूर्ववत् ।
(C) वज्रस्वामी चासौ महर्षिश्च इति वज्रस्वामिमहर्षि:, तेन वज्रस्वामिमहर्षिणा। (वि. उत्त.क.)
-
(३) शय्यातरोत्तम: - (A) शय्यातरः - पूर्ववत् । (B) शय्यातरेषु उत्तमः इति शय्यातरोत्तमः । (स.त.पु.) विद्यापटोपविष्टस्ते, यान्तेः साद्रिसरित्पुराम् । सर्वे विलोकयामासुः, करामलकवन्महीम् ॥३३०॥ अन्वय :- विद्यापटोपविष्टाः यान्तः ते सर्वे साद्रिसरित्पुरां महीं करामलकवत् विलोकयामासुः ।
-
समास :- (१) विद्यापटोपविष्टा: – (A) विद्यया (कृत:) पट: इति विद्यापट: । (तृ.त.पु.)
(B) विद्यापटे उपविष्टाः इति विद्यापटोपविष्टाः ।
(स.त.पु.)
(२) साद्रिसरित्पुराम् – (A) अद्रयश्च सरितश्च पुरश्च इति अद्रिसरित्पुरः । (इ.द्व.)
(B) सह अद्रिसरित्पूर्भिः वर्तते या सा इति साद्रिसरित्पुरा, तां साद्रिसरित्पुराम् । ( सह. ब. व्री.)
(३) करामलकवत् - (A) करे स्थितम् इति करस्थितम् । (स.त.पु.)
(B) करस्थितम् आमलकम् इति करामलकम् । (म.प.लो.क.)
Page #168
--------------------------------------------------------------------------
________________
૧૫૯ (C) करामलकम् इव करामलकवत् । (तद्धित) भक्तिप्र_ः पूज्यमानों, मार्गस्थव्यन्तरामरैः । व्योम्न प्रदीयमानार्थी, भक्तैर्कोतिषिकामरैः ॥३३१॥ विद्याधरैर्वर्ण्यमानः, शक्तिसम्पच्चमत्कृतैः । आलिङ्ग्यमानः सुहृदेवानुकूलेनै वायुनी ॥३३२॥ पटच्छायादर्शिताम्रच्छायासौख्यों महीस्पृशाम् । वन्दमानों नभःस्थोऽपि, मार्गचैत्यान्यनेकशः ॥३३३॥ पटस्थोऽ िपटस्थेभ्य॑स्तन्वानों धर्मदेशनाम् । वर्षिराससौदाथै, पुरी नामें महापुरीमें ॥३३४॥
(चतुर्भिः कलापकम्) अन्वय :- भक्तिप्रद्वैः मार्गस्थव्यन्तरामरैः पूज्यमानः, व्योम्नि भक्तैः
ज्योतिषिकामरैः प्रदीयमानार्घः, शक्तिसम्पच्चमत्कृतैः विद्याधरैः वर्ण्यमानः, अनुकूलेन वायुना सुहृदा इव आलिङ्ग्यमानः, महीस्पृशां पटच्छायादर्शिताम्रच्छायासौख्यः, नभःस्थः अपि अनेकशः मार्गचैत्यानि वन्दमानः, पटस्थः अपि पटस्थेभ्यः धर्मदेशनां तन्वानः,
वर्षिः अथ महापुरी नाम पुरीम् आससाद । समास :- (१) भक्तिप्रद्वैः - भक्त्या प्रह्वाः इति भक्तिप्रह्वाः, तैः
भक्तिप्रद्वैः । (तृ.त.पु.) (२) मार्गस्थव्यन्तरामरैः - (A) व्यन्तरः जातिः येषां ते
इति व्यन्तरजातयः । (समा.ब.वी.)
Page #169
--------------------------------------------------------------------------
________________
(B)- व्यन्तरजातय: अमराः इति व्यन्तरामराः । (म.प.लो.क.)
૧૬૦
(C) मार्गे तिष्ठन्ति इति मार्गस्था: । (उप. त.पु.) (D) मार्गस्थाश्च ते व्यन्तरामराश्च इति मार्गस्थव्यन्तरामराः, तैः मार्गस्थव्यन्तरामरैः । (वि.पू.क.) प्रदीयमानः अर्घः यस्मै सः इति
(३) प्रदीयमानार्घः
—
प्रदीयमानार्घः । (समा.ब.व्री.)
(४) ज्योतिषिकामरैः - (A) ज्योतिषि भवा: इति ज्योतिषिका: । (तद्धित)
(५) विद्याधरैः
(B) ज्योतिषिकाश्च ते अमराश्च इति ज्योतिषिकामराः, तैः ज्योतिषिकामरैः । (वि.पू.क.) विद्यां धरन्तीति विद्याधराः, तैः
1
विद्याधरैः । (उप.त.पु.)
(६) शक्तिसम्पच्चमत्कृतै:- (A) शक्तिः एव सम्पत् इति शक्तिसम्पत् । (अव.पू.क.)
(B) शक्तिसम्पदा चमत्कृताः इति शक्तिसम्पच्चमत्कृताः, तै: शक्तिसम्पच्चमत्कृतैः । (तृ.त.पु.) (७) पटच्छायादर्शिताम्रच्छायासौख्यः -
(A) पटस्य छाया इति पटच्छाया । (ष.त. पु.) (B) पटच्छायया दर्शितम् इति पटच्छायादर्शितम् ।
(तृ.त.पु.)
(C) आम्रस्य छाया इति आम्रच्छाया ।
(D) आम्रच्छायाया: सौख्यम् इति आम्रच्छायासौख्यम् । (ष. त.पु.)
Page #170
--------------------------------------------------------------------------
________________
૧૬૧ (E) पटच्छायादर्शितम् आम्रच्छायासौख्यं येन सः इति
___ पटच्छायादर्शिताम्रच्छायासौख्यः । (समा.ब.वी.) (८) महीस्पृशाम् - महीं स्पृशन्ति इति महीस्पृशः, तेषां
महीस्पृशाम् । (उप.त.पु.) (९) नभःस्थः - नभसि तिष्ठति इति नभःस्थः । (उप.त.पु.) (१०) मार्गचैत्यानि - (A) मार्ग स्थितानि इति मार्ग
स्थितानि । (स.त.पु.) (B) मार्गस्थितानि चैत्यानि इति मार्गचैत्यानि ।
(म.प.लो.क.) (११) पटस्थः - पटे तिष्ठतीति पटस्थः । (उप.त.पु.) (१२) पटस्थेभ्यः - पटे तिष्ठन्ति इति पटस्थाः, तेभ्यः
पटस्थेभ्यः । (उप.त.पु.) (१३) धर्मदेशनाम् – पूर्ववत् ।
(१४) वर्षिः - पूर्ववत् । तस्यां धनकणाढ्यायाम, सुभिक्षमभवत्सदा । प्रायेणं श्रावों लोकों , बुद्धभक्तस्तु पार्थिवः ॥३३५॥ अन्वय :- धनकणाढवायां तस्यां सदा सुभिक्षम् अभवत् श्रावकः
लोकः प्रायेण पार्थिवः तु बुद्धभक्तः (आसीत्) । समास :- (१) धनकणाढ्यायाम् - (A) धनानि च कणाश्च इति
धनकणाः । (इ.द्व.)
Page #171
--------------------------------------------------------------------------
________________
૧૬૨ (B) धनकणैः आढ्या इति धनकणाढ्या, तस्यां
धनकणाढ्यायाम् । (तृ.त.पु.) (२) सुभिक्षम् - भिक्षायाः समृद्धिः इति सुभिक्षम् ।
(अव्य.भा.)
(३) बुद्धभक्तः - बुद्धस्य भक्तः इति बुद्धभक्तः । (ष.त.पु.) तस्यां जैनाच बौद्धोच, स्पर्धमानाः परस्परम् । चक्रिरें देवपूजादि, जैनैबौद्धास्तु जिग्यिरें ॥३३६॥ अन्वय :- तस्यां परस्परं स्पर्धमानाः जैनाः च बौद्धाः च देव
पूजादि चक्रिरे तु जैनैः बोद्धाः जिग्यिरे । समास :- (१) जैनाः - जिनः देवता येषाम् इति जैनाः । (तद्धित)
(२) बौद्धा:- बुद्धः देवता येषाम् इति बौद्धाः । (तद्धित) (३) देवपूजादि - (A) देवस्य पूजा इति देवपूजा ।
(ष.त.पु.) (B) देवपूजा आदौ यस्मिन् तद् इति देवपूजादि,
तद् देवपूजादि । (व्यधि.ब.वी.) (४) जैनैः - जैनाः पूर्ववत् तैः जैनैः। जैना हि यद्यत्पुष्पादि, पूजोपकरणं पुरें । ददृशुंस्तत्तदैधिकमूल्यदानेन चिक्रियुः ॥३३७॥ अन्वय :- पुरे हि जैनाः यद् यद् पुष्पादि पूजोपकरणं ददृशुः तद्
तद् अधिकमूल्यदानेन चिक्रियुः । समास :- (१) जैनाः - पूर्ववत् ।
Page #172
--------------------------------------------------------------------------
________________
૧૬૩ (२) पुष्पादि - पुष्पाणि आदौ यस्मिन् तद् इति पुष्पादि, ____ तद् पुष्पादि। (व्यधि.ब.वी.) (३) पूजोपकरणम् - पूजायाः उपकरणम् इति
पूजोपकरणम्, तद् पूजोपकरणम् । (ष.त.पु.) (४) अधिकमूल्यदानेन - (A) अधिकं च तद् मूल्यं च
इति अधिकमूल्यम् । (वि.पू.क.) (B) अधिकमूल्यस्य दानम् इति अधिकमूल्यदानम्,
तेन अधिकमूल्यदानेन । (ष.त.पु.) . नाभूवन्बुद्धभक्तास्तु, पुष्पाद्यौदातुमीश्वरोः । ततश्च बुद्धायतनेष्वभूत्यूर्जी तनीयसीं ॥३३८॥ अन्वय :- बुद्धभक्ताः तु पुष्पादि आदातुम् ईश्वराः न अभूवन् ततः च
बुद्धायतनेषु तनीयसी पूजा अभूत् । समास :- (१) बुद्धभक्ताः - पूर्ववत् ।
(२) पुष्पादि - पूर्ववत् । (३) बुद्धायतनेषु - बुद्धस्य आयतनानि इति बुद्धायतनानि,
__ तेषु बुद्धायतनेषु । (ष.त.पु.) बुद्धभक्तास्तु ते हीणा, बुद्धभक्तं महीपतिम् । विज्ञप्यं सर्वं पुष्पादि, श्रावकाणाँ न्यवारयन् ॥३३९॥ अन्वय :- हीणाः ते बुद्धभक्ताः तु बुद्धभक्तं महीपतिं विज्ञप्य श्रावकाणां
सर्वं पुष्पादि न्यवारयन्।। समास :- (१) बुद्धभक्ताः - पूर्ववत् ।
(२) बुद्धभक्तम् - बुद्धभक्तः पूर्ववत्, तं बुद्धभक्तम् ।
Page #173
--------------------------------------------------------------------------
________________
मास: मन्तानि जपणेषु बहराभरेर
(३) महीपतिम् - मह्याः पतिः इति महीपतिः, तं
महीपतिम् । (ष.त.पु.)
(४) पुष्पादि - पूर्ववत् । पुष्पापणेषु सर्वेषु, बहुमूल्यप्रदा अपि । अर्हद्भक्तास्ततः पुष्पवृन्तान्यपि ने लेभिरें ॥३४०॥ अन्वय :- ततः सर्वेषु पुष्पापणेषु बहुमूल्यप्रदाः अपि अर्हद्भक्ताः
___पुष्पवृन्तानि अपि न लेभिरे। समास :- (१) पुष्पापणेषु - पुष्पाणाम् आपणाः इति पुष्पापणाः,
तेषु पुष्पापणेषु । (ष.त.पु.) (२) बहुमूल्यप्रदाः - (A) बहूनि च तानि मूल्यानि च इति
बहुमूल्यानि । (वि.पू.क.) (B) बहुमूल्यानि प्रददति इति बहुमूल्यप्रदाः ।
__ (उप.त.पु.) (३) अर्हद्भक्ताः - अर्हतः भक्ताः इति अर्हद्भक्ताः ।
(ष.त.पु.) (४) पुष्पवृन्तानि - पुष्पाणां वृन्तानि इति पुष्पवृन्तानि,
___तानि पुष्पवृन्तानि। (ष.त.पु.) उपस्थिते पर्युषणापर्वण्यर्हदुपासकोः । ततों रुदन्तौ दीनास्याँ , वज्रषिमुपतस्थिरें ॥३४१॥ अन्वय :- ततः पर्युषणापर्वणि उपस्थिते दीनास्याः रुदन्तः अहंदु
पासकाः वर्षिम् उपतस्थिरे। समास :- (१) पर्युषणापर्वणि- (A) पर्युषणा नाम यस्य तद् इति
पर्युषणानाम । (समा.ब.वी.)
Page #174
--------------------------------------------------------------------------
________________
૧૬૫
(B) पर्युषणानाम पर्व इति पर्युषणापर्व, तस्मिन् पर्युषणापर्वणि । (म.प.लो.क.)
समास :
(२) अर्हदुपासका: - अर्हन्तम् उपासते इति अर्हदुपासका: । (उप.त.पु.)
(३) दीनास्या:- दीनम् आस्यं येषां ते इति दीनास्याः । (समा.ब.व्री.)
(४) वज्रर्षिम् - वज्रर्षिः पूर्ववत्, तं वज्रर्षिम् । तैं श्रावको नेत्रजलैः, क्लेदयन्त महीतलम् । नत्वाँ व्यजिज्ञपन्वज्रम्, खेदगद्गदया गिरां ॥३४२॥ नेत्रजलैः महीतलं क्लेदयन्तः ते श्रावकाः वज्रं नत्वा खेदगद्गदया गिरा व्यजिज्ञपन् ।
अन्वय :
(१) नेत्रजलैः (A) नेत्राभ्यां निःसृतानि इति नेत्रनिःसृतानि । (तृ. त.पु.)
(B) नेत्रनि:सृतानि जलानि इति नेत्रजलानि, तैः नेत्रजलैः । (म.प.लो.क.)
।
-
(२) महीतलम् - मह्या: तलम् इति महीतलम्, तद् महीतलम् । (ष. त.पु.)
(३) खेदगद्गदया - खेदेन गद्गदा इति खेदगद्गदा, तया खेदगद्गदया । (तृ. त.पु.)
"
अर्हच्चैत्येष्वंहरर्हः पूजादिं द्रष्टुमक्षमैः । -बौद्धैर्वयं पराभूत, भूतैरिव दुरात्मभिः ॥३४३॥ अन्वय :- अर्हच्चैत्येषु अहरहः पूजादि द्रष्टुम् अक्षमैः भूतैः इव दुरात्मभिः बौद्धैः वयं पराभूताः ।
Page #175
--------------------------------------------------------------------------
________________
૧૬૬
समास :- (१) अर्हच्चैत्येषु - अर्हतः चैत्यानि इति अर्हच्चैत्यानि, तेषु अर्हच्चैत्येषु । (ष.त.पु.)
(२) अहरहः अह्नि, अह्नि इति अहरहः । (अव्य.भा.) (३) पूजादि - पूजा आदौ यस्मिन् तद् इति पूजादि, तद् पूजादि । (व्यधि.ब.वी.)
(४) अक्षमैः
-
न क्षमाः इति अक्षमाः, तैः अक्षमैः ।
(नञ्.त.पु.)
(५) दुरात्मभि: - दुष्ट: आत्मा येषां ते इति दुरात्मानः, तैः दुरात्मभि: । (प्रादि.. व्री.)
विज्ञप्तों बौद्धलोकेर्न, बौद्धों राजा न्यवारयत् । पुष्पाणिं ददतोऽस्माकम्, मालिकार्नखिलानपिं ॥ ३४४॥ अन्वय :- बौद्धलोकेन विज्ञप्तः बौद्धः राजा अस्माकं पुष्पाणि ददतः अखिलान् अपि मालिकान् न्यवारयत् ।
I
समास :- (१) बौद्धलोकेन बौद्धश्चासौ लोकञ्च इति बौद्धलोकः, तेन बौद्धलोकेन । (वि.पू.क.) लभामहें वयं नाथं । नाँगस्तिकुसुमान्ये किं कुर्मो द्रव्यवन्तोऽपिं, राजाज्ञां को तिलङ्घते ॥ ३४५॥ अन्वय :- नाथ ! द्रव्यवन्तः अपि वयम् अगस्तिकुसुमानि अपि न लभामहे किं कुर्मः कः राजाज्ञाम् अतिलङ्घते ।
।
अगस्तिः - वृक्षविशेष: । 'अगथिया' इति भाषायाम् ।
समास :- (१) अगस्तिकुसुमानि - अगस्ते: कुसुमानि इति अगस्तिकुसुमानि तानि अगस्तिकुसुमानि ।
(ष. त.पु.)
Page #176
--------------------------------------------------------------------------
________________
૧૬૭ (२) द्रव्यवन्तः - द्रव्यम् अस्ति येषां ते इति द्रव्यवन्तः ।
(तद्धित) (३) राजाज्ञाम् - राज्ञः आज्ञा इति राजाज्ञा, तां राजाज्ञाम् ।
(ष.त.पु.) तुलसीबर्बरीपूजापात्रतां ग्रामयक्षवत् । प्रयान्ति जिनबिम्बानि, हहाँ किं जीवितेन॑ नः ॥३४६॥ अन्वय :- ग्रामयक्षवत् जिनबिम्बानि तुलसीबर्बरीपूजापात्रतां प्रयान्ति
हहा नः जीवितेन किम्।
बर्बरी - बावल इति भाषायाम्। समास :- (१) तुलसीबर्बरीपूजापात्रताम् -
(A) तुलसी च बर्बरी च इति तुलसीबर्बौं (इ.द्व.) (B) तुलसीबर्बरीभ्यां (कृता) पूजा इति तुलसी
बर्बरीपूजा । (तृ.त.पु.) (C) तुलसीबर्बरीपूजायाः पात्रम् इति तुलसीबर्बरी
पूजापात्रम् । (ष.त.पु.) (D) तुलसीबर्बरीपूजापात्रस्य भावः इति तुलसी
बर्बरीपूजापात्रता, तां तुलसीबर्बरीपूजापात्रताम् ।
(तद्धित) (२) ग्रामयक्षवत् - (A) ग्रामं रक्षतीति ग्रामरक्षकः ।
(उप.त.पु.) (B) ग्रामरक्षक: यक्षः इति ग्रामयक्षः ।
(म.प.लो.क.) (C) ग्रामयक्षः इव इति ग्रामयक्षवत् । (तद्धित)
Page #177
--------------------------------------------------------------------------
________________
TEL
(३) जिनबिम्बानि-जिनानां बिम्बानि इति जिनबिम्बानि ।
(ष.त.पु.) मार्हत्स्वारोपयन्त्वेते, छद्मनेत्यभिशङ्कितः । बौद्धैः पुष्पं निषिद्धं नः, केशवासकृतेऽपि हिँ॥३४७॥ अन्वय :- एते छद्मना अर्हत्सु मा आरोपयन्तु इति अभिशङ्कितैः बौद्धैः
नः केशवासकृते अपि हि पुष्पं निषिद्धम् । समास :- (१) केशवासकृते- (A) केशानां वासः इति केशवासः ।
___ (ष.त.पु)
(B) केशवासस्य कृते इति केशवासकृते । (ष.त.पु.) किञ्चानिशं गणयताम् स्वामिन्नस्मार्कमङ्गुली । आगात्पर्युषणापर्वदिनं दिनमतल्लिका ॥३४८॥ अन्वय :- स्वामिन् ! किञ्च अनिशम् अङ्गुली: गणयताम् अस्माकं
दिनमतल्लिका पर्युषणापर्वदिनम् आगात् । समास :- (१) पर्युषणापर्वदिनम् - (A) पर्युषणापर्व-पूर्ववत् ।
(B) पर्युषणापर्वणः दिनम् इति पर्युषणापर्वदिनम् ।
(ष.त.पु.) (२) दिनमतल्लिका - मतल्लिका च तद् दिनं च इति
दिनमतल्लिका । (मयू.कर्म.) पर्वण्यप्यागतेऽमुष्मिन्वयं यतिवदर्हताम् । भावपूजां करिष्यामः, पुष्पसम्पत्तिवर्जिताः ॥३४९॥ अन्वय :- अमुष्मिन् पर्वणि आगते अपि पुष्पसम्पत्तिवर्जिताः वयं
यतिवद् अर्हतां भावपूजां करिष्यामः ।
Page #178
--------------------------------------------------------------------------
________________
૧૬૯ समास :- (१) यतिवद् - यतयः इव यतिवद् । (तद्धित)
(२) भावपूजाम् - (A) भावः प्रधानं यस्यां सा इति
भावप्रधाना । (समा.ब.वी.) (B) भावप्रधाना पूजा इति भावपूजा, तां
भावपूजाम् । (म.प.लो.क.) (३) पुष्पसम्पत्तिवर्जिताः - (A) पुष्पाणि एव सम्पत्तिः
इति पुष्पसम्पत्तिः । (अव.पू.क.) (B) पुष्पसम्पत्त्याः वर्जिताः इति पुष्पसम्पत्ति
वर्जिताः । (पं.त.पु.) पराभूयं पराभूर्य, बौद्धैर्दुर्बुद्धिभिर्वयम् । जीवन्मृतौ इर्व कृतीः, स्वामिनि त्वर्यि सत्यपि ॥३५०॥ अन्वय :- त्वयि स्वामिनि सति अपि दुर्बुद्धिभिः बौद्धैः पराभूय पराभूय
वयं जीवन्मृताः इव कृताः । समास :- (१) दुर्बुद्धिभिः. - दुष्टा बुद्धिः येषां ते इति दुर्बुद्धयः, तैः
दुर्बुद्धिभिः । (प्रादि.ब.वी.) (२) जीवन्मृताः - जीवन्तः मृताः इव इति जीवन्मृताः ।
(वि.उभ.क.) जिनप्रवचनस्याभिभूतस्यास्य प्रभावनाम । विधार्य भगवन्नस्मान्, सञ्जीवयितुमर्हसि ॥३५१॥ अन्वय :- भगवन् ! अभिभूतस्य अस्य जिनप्रवचनस्य प्रभावनां
___विधाय अस्मान् सञ्जीवयितुम् अर्हसि। समास :- (१) जिनप्रवचनस्य - जिनस्य प्रवचनम् इति
जिनप्रवचनम्, तस्य जिनप्रवचनस्य । (ष.त.पु.)
७
Page #179
--------------------------------------------------------------------------
________________
अन्वय
श्वस
त्वा
૧૭૦ समाश्वसत हैं श्राद्धाः!, यतिष्ये वः सुतेजसें । इत्युक्त्वा भगवान् व्योमन्युत्पपात सुपर्णवत् ॥३५२॥ अन्वय :- हे श्राद्धाः ! समाश्वसत वः सुतेजसे यतिष्ये इति उक्त्वा
भगवान् व्योमनि सुपर्णवत् उत्पपात । समास :- (१) सुतेजसे- शोभनं तेजः इति सुतेजः, तस्मै सुतेजसे।
___(सु.पू.क.)
(२) सुपर्णवत् - सुपर्णः इव इति सुपर्णवत् । (तद्धित) स्वामी निमेषमात्रेणार्थागान्माहेश्वरी पुरीम् । अवातारीदुंपवनें, चैकस्मिन्विस्मयावहैं ॥३५३॥ अन्वय :- अथ स्वामी निमेषमात्रेण माहेश्वरी पुरीम् आगात् विस्मयावहे
च एकस्मिन् उपवने अवातारीद् । समास :- (१) निमेषमात्रेण - निमेषः एव इति निमेषमात्रम्, तेन
निमेषमात्रेण । (मयू.कर्म.) (२) उपवने - उपवनम् - पूर्ववत्, तस्मिन् उपवने। (३) विस्मयावहे - विस्मयम् आवहति इति विस्मयावहम्,
तस्मिन् विस्मयावहे । (उप.त.पु.) हुताशनाभिधानस्य, देवस्योपवनं च तत् । योऽभूमिकस्तत्रं, मित्रं धनगिरें: सें तुं ॥३५४॥ अन्वय :- तत् हुताशनाभिधानस्य देवस्य उपवनम् (आसीत्) तत्र च
तु यः आरामिकः सः धनगिरेः मित्रम् अभूत् ।
Page #180
--------------------------------------------------------------------------
________________
૧૭૧ समास :- (१) हुताशनाभिधानस्य - हुताशनः अभिधानं यस्य सः
इति हुताशनाभिधानः, तस्य हुताशनाभिधानस्य ।
(समा.ब.वी.)
(२) उपवनम् - पूर्ववत् । अकस्मादागतं वज्रम्, निरीक्ष्ानभ्रवृष्टिवत् । आरामिकः प्रर्गे सधूस्तडिताख्यों मुर्दावदत् ॥३५५॥ अन्वय :- प्रगे अनभ्रवृष्टिवत् अकस्माद् आगतं वजं निरीक्ष्य ताडि
ताख्यः आरामिकः मुदा सद्यः अवदत् । समास :- (१) अनभ्रवृष्टिवत् - (A) न विद्यन्ते अभ्राणि यस्यां सा
इति अनभ्रा । (नञ्.ब.वी.) (B) अनभ्रा चासौ वृष्टिश्च इति अनभ्रवृष्टिः ।
(वि.पू.क.) (C) अनभ्रवृष्टिः इव इति अनभ्रवृष्टिवत् । (तद्धित) (२) तडिताख्यः - तडितः आख्या यस्य सः इति
तडिताख्यः । (समा.ब.वी.) तिथिस्तिथिषु धन्येयम्, यस्यां त्वमतिथिर्मम । आत्मानं चांधुनों धन्यम्, मन्यहं यस्मृतस्त्वां ॥३५६॥ अन्वय :- तिथिषु इयं तिथिः धन्या यस्यां मम त्वम् अतिथिः (भूतः)
अधुना च अहम् आत्मानं धन्यं मन्ये यत् त्वया स्मृतः । समास :- (१) अतिथिः - पूर्ववत् । दिष्ट्या सुस्वप्नवदहम् , चित्तानापकृतस्त्वया । ममार्गास्त्वं यदतिथि:, किमातिथ्यं करोमि ते ? ॥३५७॥
Page #181
--------------------------------------------------------------------------
________________
૧૭૨
अन्वय :- दिष्ट्या सुस्वप्नवद् त्वया अहं चित्तात् न अपकृतः यद्
त्वं मम अतिथि: आगाः ते किम् आतिथ्यं करोमि ? समास :- (१) सुस्वप्नवद् - (A) शोभनः स्वप्नः इति सुस्वप्नः ।
(सू.पू.क.)
(B) सुस्वप्न इव इति सुस्वप्नवद् । (तद्धित) (२) अतिथिः - पूर्ववत् । (३) आतिथ्यम् - अतिथे: भावः इति आतिथ्यम्, तद्
___आतिथ्यम् । (तद्धित) वज्रस्वाम्येप्यभिदधे, ममें घुद्यानपालक! । पुष्पैः प्रयोजन तान, प्रदातुं च त्वमीशिर्षे ॥३५८॥ अन्वय :- वज्रस्वामी अपि अभिदधे उद्यानपालक ! मम पुष्पैः
प्रयोजनं तानि च हि प्रदातुं त्वम् ईशिषे । समास :- (१) वज्रस्वामी - पूर्ववत् ।
(२) उद्यानपालक!-उद्यानं पालयति इति उद्यानपालकः,
तत्संबोधनम् उद्यानपालक! । (उप.त.पु.) मालाकारोऽवदत्पुष्पादानेनानुगृहाणे माम् । भवन्ति प्रत्यहं पुष्पला विंशतिर हि ॥३५९॥ अन्वय :- मालाकारः अवदत् पुष्पादानेन माम् अनुगृहाण हि अत्र
प्रत्यहं विंशतिः पुष्पलक्षाः भवन्ति । समास :- (१) मालाकारः - मालां करोति इति मालाकारः ।
. (उप.त.पु.) (२) पुष्पादानेन - पुष्पाणाम् आदानम् इति पुष्पादानम्,
तेन पुष्पादानेन । (ष.त.पु.)
Page #182
--------------------------------------------------------------------------
________________
૧૭૩ (३) प्रत्यहम् - अहः अहः इति प्रत्यहम् । (अव्य.भा.) (४) पुष्पलक्षाः-पुष्पाणां लक्षाः इति पुष्पलक्षाः ।
(ष.त.पु.) भगवानादित्तिहि , पुष्पाणिं प्रगुणीकुरु ।
आगच्छाम इतो गत्वा, यादुद्यानरक्षक ! ॥३६०॥ अन्वय :- भगवान् आदिशत् उद्यानरक्षक ! तर्हि यावद् इतः गत्वा
आगच्छामः पुष्पाणि प्रगुणीकुरु । समास :- (१) प्रगुणीकुरु - (A) न प्रगुणानि इति अप्रगुणानि ।
(नब्.त.पु.) (B) अप्रगुणानि प्रगुणानि कुरु इति प्रगुणीकुरु ।
(गति.त.पु.) (२) उद्यानरक्षक ! - उद्यानं रक्षति इति उद्यानरक्षकः,
तत्संबोधनम् उद्यानरक्षक ! । (उप.त.पु.) एवमुक्त्वा पृषद, इवोत्पत्यं विहायसा ।
अक्षुः क्षुद्रहिमवद्गिरिं वज्रमुनिर्ययौं ॥३६१॥ अन्वय :- एवम् उक्त्वा विहायसा पृषदश्वः इव उत्पत्य अक्षुद्रः
वज्रमुनिः क्षुद्रहिमवगिरि ययौ । पृषदश्वः-वायुः । वायुः समीर-समिरौ पवनाशुगौ नभःश्वासो नभस्वदऽनिल-श्वसनाः समीरणः ॥ वातोऽहिकान्त-पवमानमरुत्प्रकम्पनाः कम्पाक-नित्यगति-गन्धवह-प्रभञ्जनाः ॥११०६।। मातरिश्वा जगत्प्राणः, पृषदश्वो महाबलः । मारुतः स्पर्शनो दैत्यदेवः । इत्यभिधाने ।
Page #183
--------------------------------------------------------------------------
________________
૧૭૪ समास :- (१) पृषद्रश्वः - पृषन् अश्वः यस्य सः इति पृषदश्वः ।
(समा.ब.वी.) (२) अक्षुद्रः - न क्षुद्रः इति अक्षुद्रः । (नञ्.त.पु.) (३) क्षुद्रहिमवगिरिम् – (A) क्षुद्रश्चासौ हिमवान् च इति
क्षुद्रहिमवान् । (वि.पू.क.) (B) क्षुद्रहिमवान् नाम यस्य सः इति क्षुद्रहिम___वन्नामा। (समा.ब.वी.) (C) क्षुद्रहिमवन्नामा गिरिः इति क्षुद्रहिमवद्गिरिः,
तं क्षुद्रहिमवगिरिम् । (म.प.लो.क.) (४) वज्रमुनिः - पूर्ववत् । गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् । दशमामृतकुण्डाभपद्महूदमनोरमम् ॥३६२॥ सदावन्दारु दिविषत्सिद्धायतनमण्डितम् । गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् ॥३६३॥ अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् । भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् ॥३६४॥ नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् । से त हिमामिद्राक्षीद, व्योमस्थोऽन्य इवार्यमा ॥३६५॥
(चतुभिः कलापकम्) अन्वय :-अन्यः अर्यमा इव व्योमस्थः सः गङ्गासिन्धुजलक्रीडाप्रस
क्तसुरवारणम्, दशमामृतकुण्डाभपद्महूदमनोरमम्, सदावन्दारुदिविषत्सिद्धायतनमण्डितम्, गायत्किम्पुरुषी
Page #184
--------------------------------------------------------------------------
________________
૧૭૫ गीतानुचरैणकदम्बकम्, अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम्, भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम्, नमेरुभूर्जतगरकिम्पाकाकुलमेखलम्, तं हिमाद्रिम् अद्राक्षीत् । नमेरु:- सुरपुन्नागतरुः । भूर्जः-भोजपत्रवृक्षः । तगरः- तन्नामपादपः, 'मींढक' इतिभाषायाम् ।
किम्पाकः- विषमयवृक्षः। समास :- (१) गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् – (A) गङ्गा
च सिन्धुश्च एतयोः समाहारः गङ्गासिन्धु । (समा.द्व.) (B) गङ्गासिन्धुनः जलम् इति गङ्गासिन्धुजलम् ।
(ष.त.पु.) (C) गङ्गासिन्धुजले क्रियमाणा इति गङ्गासिन्धु
जलक्रियमाणा । (स.त.पु.) (D) गङ्गासिन्धुजलक्रियमाणा क्रीडा इति गङ्गा
सिन्धुजलक्रीडा । (म.प.लो.क.) (E) गङ्गासिन्धुजलक्रीडायां प्रसक्ताः इति गङ्गा
सिन्धुजलक्रीडाप्रसक्ताः । (स.त.पु.) (F) सुराणां वारणाः इति सुरवारणाः । (ष.त.पु.) (G) गङ्गासिन्धुजलक्रीडाप्रसक्ताः सुरवारणाः
यस्मिन् सः इति गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणः, तं गङ्गासिन्धुजलक्रीडाप्रसक्त
सुरवारणम् । (समा.ब.वी.) (२) दशमामृतकुण्डाभपद्महदमनोरमम् -
(A) अमृतस्य कुण्डम् इति अमृतकुण्डम् । (ष.त.पु) (B) दशानां पूरणम् इति दशमम् । (तद्धित)
Page #185
--------------------------------------------------------------------------
________________
૧૭૬
(C) दशमंञ्च
तद् अमृतकुण्डञ्च इति
दशमामृतकुण्डम् । (वि.पू.क.) (D) दशमामृतकुण्डेन आभः इति दशमामृत
कुण्डाभ: । (तृ.त.पु.)
(E) पद्मं नाम यस्य सः इति पद्मनामा । (समा.ब. व्री.) (F) पद्मनामा हृदः इति पद्महूदः ।
(G) दशमामृतकुण्डाभश्चासौ पद्महृदश्च इति दशमामृतकुण्डाभपद्महूदः । (वि.पू.क.)
(H) मन: रमयति यत्र इति मनोरमः । (उप. त.पु.) (I) दशमामृतकुण्डाभपद्महूदेन मनोरमः इति दशमामृतकुण्डाभपद्महृदमनोरमः तं दशमामृतकुण्डाभपद्महूदमनोरमम् । (तृ.त.पु.) (३) सदावन्दारुदिविषत्सिद्धायतनमण्डितम् - (A) सदा वन्दन्ते इत्येवंशीलाः इति सदावन्दारवः । (B) दिवि सीदन्ति इति दिविषदः । (उप.त.पु.) (C) सदावन्दारवश्चामीदिविषदश्च इति सदावन्दा - रुदिविषदः । (वि.पू.क.)
(D) सिद्धैः विराजितानि इति सिद्धविराजितानि । (तृ.त.पु.)
(E) सिद्धविराजितानि आयतनानि इति सिद्धायतनानि । (म.प.लो.क.)
(F) सदावन्दारुदिविषद्भिः युक्तानि इति सदावन्दारुदिविषद्युक्तानि । (तृ.त.पु.)
Page #186
--------------------------------------------------------------------------
________________
૧૭૭ (G) सदावन्दारुदिविषद्युक्तानि सिद्धायतनानि इति
सदावन्दारुदिवित्सिद्धायतनानि । (म.प.लो.क.) (H) सदावन्दारुदिविषत्सिद्धायतनैः मण्डितः इति
सदावन्दारुदिविषत्सिद्धायतनमण्डितः, तं सदावन्दारुदिविषत्सिद्धायतनमण्डितम् ।
(तृ.त.पु.) (४) गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् - (A)
गायन्त्यश्चामूः किम्पुरुष्यश्च इति गायत्किम्पुरुष्यः । (वि.पू.क.) (B) गायत्किम्पुरुषीणां गीतानि गायत्किम्पुरुषी
गीतानि । (ष.त.पु.) (C) गायत्किम्पुरुषीगीतानि अनुचरति इति गाय
त्किम्पुरुषीगीतानुचरः । (उप.त.पु.) (D) एणानां कदम्बकः इति एणकदम्बकः ।
(ष.त.पु.) (E) गायत्किम्पुरुषीगीतानुचरः एणकदम्बकः यस्मिन्
सः इति गायत्किम्पुरुषीगीतानुचरैणकदम्बकः, तं गायत्किम्पुरुषीगीतानुचरैणकदम्बकम् ।
(समा.ब.वी.) (५) अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् -
(A) न एके इति अनेके । (नञ्.त.पु.) (B) अनेके च ते धातवश्च इति अनेकधातवः ।
(वि.पू.क.)
Page #187
--------------------------------------------------------------------------
________________
१७८
(C) अनेकधातवः सन्ति अस्याम् इति अनेकधातुमती । (तद्धित)
(D) अनेकधातुमती चासौ भूमिश्च इति अनेकधातुमद्भूमि: । (वि.पू.क.)
(E) सन्ध्याया: अभ्रम् इति सन्ध्याभ्रम् । (ष.त.पु.) (F) सन्ध्याभ्रस्य विभ्रमः इति सन्ध्याभ्रविभ्रमः । (ष. त.पु.)
(G) अनेकधातुमद्भूम्या धृतः इति अनेकधातुमद्भूमिधृत:। (तृ.त.पु.)
(H) अनेकधातुमद्भूमिधृतः सन्ध्याभ्रविभ्रमः यस्मिन् सः इति अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमः, तम् अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम् । (समा.ब.व्री.)
(६) भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् -
(A) उन्मत्ताश्च ताः चमर्यश्च इति उन्मत्तचमर्यः । (वि.पू.क.)
(B) भ्राम्यन्त्यश्च ताः उन्मत्तचमर्यश्च इति भ्राम्यदुन्मत्तचमर्य: । (वि.पू.क.)
(C) भ्राम्यदुन्मत्तचमरीणां भम्भाः इति भ्राम्यदुन्मत्तचमरीभम्भाः । (ष.त.पु.)
I
(D) भ्राम्यदुन्मत्तचमरीभम्भानां भाङ्काराः इति भ्राम्यदुन्मत्तचमरीभम्भाभाङ्काराः । (ष.त.पु.)
(E) भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारैः गह्वरः इति
Page #188
--------------------------------------------------------------------------
________________
૧૭૯ भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरः, तं भ्राम्य
दुन्मत्तचमरीभम्भाभाङ्कारगह्वरम् । (तृ.त.पु.) (७) नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् - (A) नमेरवश्च भूर्जाश्च तगराश्च किम्पाकाश्च एतेषां
समाहारः इति नमेरुभूर्जतगरकिम्पाकम् ।
(समा.द्व.) (B) नमेरुभूर्जतगरकिम्पाकेन आकुला इति
नमेरुभूर्जतगरकिम्पाकाकुला । (तृ.त.पु.) (C) नमेरुभूर्जतगरकिम्पाकाकुला मेखला यस्मिन्
सः इति नमेरुभूर्जतगरकिम्पाकाकुलमेखलः, तं नमेरुभूर्जतगरकिम्पाकाकुलमेखलम् ।
(समा.ब.वी.) (८) हिमाद्रिम्-(A) हिमैः आच्छादितः इति
हिमाच्छादितः । (तृ.त.पु.) (B) हिमाच्छादितः अद्रिः इति हिमाद्रिः, तं
हिमाद्रिम् । (म.प.लो.क.) ___ (९) व्योमस्थ:-व्योम्नि तिष्ठति इति व्योमस्थः । (उप.त.पु.) से शाश्वतार्हत्प्रतिमाः, सिद्धायतनवर्तिनीः । ववन्दै वन्द्यमानांहिविद्याधरकुमारकैः ॥३६६॥ अन्वय :- विद्याधरकुमारकैः वन्द्यमानांहिः सः सिद्धायतनवर्तिनीः
शाश्वतार्हत्प्रतिमाः ववन्दे । समास :- (१) शाश्वतार्हत्प्रतिमाः - (A) अर्हतां प्रतिभाः इति
अर्हत्प्रतिमाः । (ष.त.पु.)... -
Page #189
--------------------------------------------------------------------------
________________
१८० (B) शश्वद् भवाः इति शाश्वत्यः । (तद्धित) (C) शाश्वत्यश्च ताः अर्हत्प्रतिमाश्च इति शाश्वताह
त्प्रतिमाः ताः शाश्वतार्हत्प्रतिमाः । (वि.पू.क.) (२) सिद्धायतनवतिनी: - (A) सिद्धायतनानि-पूर्ववत् । (B) सिद्धायतनेषु वर्तन्ते इत्येवंशीलाः इति सिद्धा
यतनवर्तिन्यः, ताः सिद्धायतनवर्तिनीः ।
(उप.त.पु.) (३) वन्द्यमानांहिः - वन्द्यमानौ अंही यस्य सः इति
वन्द्यमानांहिः । (समा.ब.वी.) (४) विद्याधरकुमारकैः - (A) विद्याधराः - पूर्ववत् । (B) विद्याधराणां कुमारकाः इति विद्याधर
कुमारकाः, तैः विद्याधरकुमारकैः । (ष.त.पु.) तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् । पद्मसौगन्ध्यवहादिव मन्थरमारुतम् ॥३६७॥ सञ्चरन्नीरजमिव, क्रीडदप्सरसां मुखैः । उन्निद्रपङ्कजरजोधिवाससुभगोदकम् ॥३६८॥ श्रीदेवीदेवतागारप्रगायदमरीजनम् । पाहदं जगामार्थ, वज्रर्षिोमवर्त्मनों ॥३६९॥
(त्रिभिर्विशेषकम्) शन्वय :- अथ वर्षिः व्योमवर्त्मना तरङ्गरङ्गशालास्थलास्यलासक-.
पङ्कजं पद्मसौगन्ध्यवहनात् मन्थरमारुतम् इव क्रीडदप्सरसां मुखैः सञ्चरन्नीरजम् इव उन्निद्रपङ्कजरजोधि
१८१
Page #190
--------------------------------------------------------------------------
________________
૧૮૧
वाससुभगोदकं श्रीदेवीदेवतागारप्रगायदमरीजनं पद्महदं
जगाम। समास :- (१) तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् -
(A) तरङ्गानां रङ्गशाला इति तरङ्गरङ्गशाला । (ष.त.पु.) (B) तरङ्गरङ्गशालायां तिष्ठन्ति इति तरङ्गरङ्ग
शालास्थानि । (उप.त.पु.) (C) लास्यानि च तानि लासकानि च इति
लास्यलासकानि । (वि.उभ.क.) (D) पङ्कजानि - पूर्ववत् । (E) तरङ्गरङ्गशालास्थानि लास्यलासकानि पङ्कजानि
यस्मिन् सः इति तरङ्गरङ्गशालास्थलास्यलासकपङ्कजः, तं तरङ्गरङ्गशालास्थलास्यलासक
पङ्कजम्। (समा.बहु.प.ब.वी.) (२) पद्मसौगन्ध्यवहनाद् - (A) शोभनः गन्धः इति
सुगन्धः । (सू.पू.क.) (B) सुगन्धः एव इति सौगन्ध्यम् । (तद्धित) (C) पद्मानां सौगन्ध्यम् इति पद्मसौगन्ध्यम् ।(ष.त.पु.) (D) पद्मसौगन्ध्यस्य वहनम् इति पद्मसौगन्ध्यवहनम्,
तस्मात् पद्मसौगन्ध्यवहनाद् । (ष.त.पु.) (३) मन्थरमारुतम् – (A) मरुद् एव इति मारुतः । (तद्धित)
७/२/१६५ अण् प्रत्ययः । (B) मन्थरश्चासौ मारुतश्च इति मन्थरमारुतः, तं
मन्थरमारुतम् । (वि.पू.क.)
Page #191
--------------------------------------------------------------------------
________________
૧૮૨ (४) सञ्चरन्नीरजम् – (A) नीरे जातानि इति नीरजानि ।
(उप.त.पु.) (B) सञ्चरन्ति नीरजानि यस्मिन्सः इति सञ्चरन्नीरजः,
____ तं सञ्चरन्नीरजम् । (समा.ब.वी.) (५) क्रीडदप्सरसाम् - क्रीडन्त्यश्चामू: अप्सरसश्च इति
क्रीडदप्सरसः, तासां क्रीडदप्सरसाम् । (वि.पू.क.) (६) उन्निद्रपङ्कजरजोधिवाससुभगोदकम् -
(A) पङ्कजानि - पूर्ववत् । (B) उद्गता निद्रा येषां तानि इति उन्निद्राणि ।
(प्रादि.ब.वी.) (C) उन्निद्राणि च तानि पङ्कजानि च इति
उन्निद्रपङ्कजानि । (वि.पू.क.) (D) उन्निद्रपङ्कजानां रजांसि इति
उन्निद्रपङ्कजरजांसि । (ष.त.पु.) (E) उन्निद्रपङ्कजरजसाम् अधिवासः इति
उन्निद्रपङ्कजरजोऽधिवासः । (ष.त.पु.) (F) उन्निद्रपङ्कजरजोधिवासेन सुभगम् उदकं
यस्मिन्सः इति उन्निद्रपङ्कजरजोधिवाससुभगोदकः, तम् उन्निद्रपङ्कजरजोऽधिवाससुभगो
दकम् । (व्यधि.बहु. प. ब.वी.) (७) श्रीदेवीदेवतागारप्रगायदमरीजनम् - (A) श्रीः नाम
यस्याः सा इति श्रीनामा । (समा.ब.वी.) (B) श्रीनामा देवी इति श्रीदेवी । (म.प.लो.क.)
Page #192
--------------------------------------------------------------------------
________________
૧૮૩
(C) श्रीदेवी चासौ देवता च इति श्रीदेवीदेवता । (वि.पू.क.)
(D) श्रीदेवीदेवतायाः अगारम् इति श्रीदेवीदेवतागारम् । (ष. त.पु.)
(E) श्रीदेवीदेवतागारे प्रगायन्तः इति श्रीदेवीदेवतागारप्रगायन्तः । (स.त. पु.)
(F) अमर्यः जनाः इति अमरीजना: । (वि.पू.क.) (G) श्रीदेवीदेवतागारप्रगायन्त: अमरीजनाः यस्मिन् सः इति श्रीदेवीदेवतागारप्रगायदमरीजनः, तं श्रीदेवीदेवतागारप्रगायदमरीजनम् (समा.ब.व्री.)
(८) पद्मह्रदम् – (A) पद्म नाम यस्य सः इति पद्मनामा । (समा.ब.व्री.)
(B) पद्मनामा हृदः इति पद्महृदः, तं पद्मह्रदम् । (म.प.लो.क.)
(९) वज्रर्षिः - पूर्ववत् ।
(१०)
व्योमवर्त्मना - व्योम एव वर्त्म इति व्योमवर्त्म, तेन व्योमवर्त्मना । (अव.पू.क.)
तद चं देवपूजार्थमवचित्यैकम्बुजम् । श्रीदेव्यां देवतागारम् यान्त्या वज्रर्षिरैक्ष्यते ॥ ३७० ॥
अन्वयः - तदा च देवपूजार्थम् एकम् अम्बुजम् अवचित्य देवतागारं यान्त्या श्रीदेव्या वज्रर्षिः ऐक्ष्यत ।
समास:- (१) देवपूजार्थम् – (A) देवपूजा - पूर्ववत् ।
(B) देवपूजायाः अर्थम् इति देवपूजार्थम् । (ष.त.पु.) (२) अम्बुजम् - पूर्ववत् ।
Page #193
--------------------------------------------------------------------------
________________
૧૮૪ (३) श्रीदेव्या - श्रीदेवी-पूर्ववत्, तया श्रीदेव्या । (४) देवतागारम् – पूर्ववत् ।
(५) वर्षिः - पूर्ववत् । श्रीदेवा ववन्दै तम्, दृष्टमात्र मुनीश्वरम् । रक्तोष्णीषप्रभाम्भोभिः, स्नपर्यन्तीव तत्क्रमौ ॥३७१॥ अन्वयः- रक्तोष्णीषप्रभाम्भोभिः तत्क्रमौ स्नपयन्ती इव श्रीः देवता
दृष्टमात्रं तं मुनीश्वरं ववन्दे। समास:- (१) दृष्टमात्रम् – दृष्टः एव इति दृष्टमात्रः, तं दृष्टमात्रम् ।
(मयू.व्यं कर्म.) (२) मुनीश्वरम् - मुनीनाम् ईश्वरः इति मुनीश्वरः, तं
मुनीश्वरम् । (ष.त.पु.) (३) रक्तोष्णीषप्रभाम्भोभिः - (A) उष्णीषस्य प्रभाः इति
उष्णीषप्रभाः । (ष.त.पु.) (B) रक्ताश्च ताः उष्णीषप्रभाश्च इति
रक्तोष्णीषप्रभाः । (वि.पू.क.) (C) रक्तोष्णीषप्रभा एव अम्भांसि इति रक्तोष्णीष
प्रभाम्भांसि, तैः रक्तोष्णीषप्रभाम्भोभिः ।
(अव.पू.क.) (४) तत्क्रमौ - तस्य क्रमौ इति तत्क्रमौ, तौ तत्क्रमौ ।
____ (ष.त.पु.) धर्मलाभांशिषं दत्त्वा, तस्थिवांसं तु तं मुनिम् । बद्धाञ्जलिः श्रीरवदंदाज्ञापय करोमि किम् ॥३७२॥
Page #194
--------------------------------------------------------------------------
________________
૧૮૫
अन्वयः- धर्मलाभाशिषं दत्त्वा तस्थिवांसं तु तं मुनि बद्धाञ्जलिः श्रीः
अवदद् किं करोमि आज्ञापय । समास:- (१) धर्मलाभाशिषम् - (A) धर्मस्य लाभः इति धर्मलाभः ।
(ष.त.पु.) (B) धर्मलाभस्य आशीः इति धर्मलाभाशीः, तां
____धर्मलाभाशिषम् । (ष.त.पु.) (२) बद्धाञ्जलि:-बद्धः अञ्जलिः यया सा इति बद्धाञ्जलिः ।
___ (समा.ब.वी.) जगाद वज्रो भगानादिष्टमिदमेव ते । पाणिपस्थितं पद्ममिदं पढ़ें! मंमार्ण्यताम् ॥३७३॥ अन्वयः- भगवान् वज्रः जगाद पद्मे ! ते पाणिपद्मस्थितम् इदं पद्मं
मम अर्प्यताम् इदम् एव आदिष्टम् । समासः- (१) पाणिपद्मस्थितम् - (A) पाणिरेव पद्मम् इति
पाणिपद्मम् । (अव.पू.क.) (B) पाणिपञ स्थितम् इति पाणिपद्मस्थितम् ।
(स.त.पु.) स्वामिन् ! किमेतदादिष्टमिन्द्रोपनजान्यपि । पुष्पाण्यानेतुमीशास्मीत्युक्त्वा सो पद्ममार्पयत् ॥३७४॥ अन्वयः- स्वामिन् ! एतद् किम् आदिष्टम् इन्द्रोपवनजानि अपि पुष्पाणि
आनेतुम् ईशा अस्मि इति उक्त्वा सा पद्मम् आर्पयत् । समासः- (१) इन्द्रोपवनजानि - (A) उपवनम् - पूर्ववत् ।
(B) इन्द्रस्य उपवनम् इति इन्द्रोपवनम् । (ष.त.पु.)
Page #195
--------------------------------------------------------------------------
________________
૧૮૬ (C) इन्द्रोपवने जातानि इति इन्द्रोपवनजानि, तानि
इन्द्रोपवनजानि । (उप.त.पु.) वन्दितश्च श्रिया वज्रः, पुनरुत्पत्य सत्वरम् । पथाँ यथाँगतेनैवं, हुताशनवनं ययौ ॥३७५॥ अन्वयः- श्रिया च वन्दितः वज्रः पुनः उत्पत्य यथागतेन पथा एव
सत्वरं हुताशनवनं ययौ। समासः- (१) सत्वरम् - त्वरया सह वर्तते यद् तद् इति सत्वरम् ।
(सह.ब.वी.) (२) यथागतेन - आगतस्य अनुरूपम् इति यथागतम्,
तेन यथागतेन । (अव्य.भा.) (३) हुताशनवनम् - (A) हुताशनं नाम यस्य तद् इति
हुताशननाम । (समा.ब.वी.) (B) हुताशननाम वनम् इति हुताशनवनम्, तद्
__ हुताशनवनम् । (म.प.लो.क.) विद्याशक्त्या च भगर्वान्, विमानं व्यकैरोदर्थ । पालकस्यानुजन्मेवे, बन्धुरं विविद्धिभिः॥३७६॥ अन्वयः- अथ भगवान् च विद्याशक्त्या विविधर्द्धिभिः बन्धुरं
पालकस्य अनुजन्मा इव विमानं व्यकरोद् । समास :- (१) विद्याशक्त्या -पूर्ववत् ।
(२) अनुजन्म - अनुगतं जन्म यस्य तद् इति अनुजन्म।
(प्रादि.ब.वी.)
Page #196
--------------------------------------------------------------------------
________________
૧૮૭
(३) विविधर्द्धिभिः - विविधाः ऋद्धयः इति विविधर्द्धयः,
___ताभिः विविधर्द्धिभिः । (वि.पू.क.) अस्थापयच्च तमध्ये, श्रीदेव्यैर्पितमम्बुजम् । विंशतिं पुष्पलक्षाणि, तस्य पार्श्वेषु तुन्यधात् ॥३७७॥ अन्वयः- तन्मध्ये च श्रीदेव्यर्पितम् अम्बुजम् अस्थापयत् तस्य पार्श्वेषु
तु विंशतिं पुष्पलक्षाणि न्यधात् । समासः- (१) तन्मध्ये - तस्य मध्यम् इति तन्मध्यम्, तस्मिन्
तन्मध्ये । (ष.त.पु.) (२) श्रीदेव्यर्पितम् - (A) श्रीदेवी-पूर्ववत् ।।
(B) श्रीदेव्या अर्पितम् इति श्रीदेव्यर्पितम् तद्
___ श्रीदेव्यर्पितम् । (तृ.त.पु.) (३) अम्बुजम् - पूर्ववत् ।। (४) पुष्पलक्षाणि - पुष्पाणां लक्षाणि इति पुष्पलक्षाणि,
__तानि पुष्पलक्षाणि । (ष.त.पु.) स्मरति स्म तदा वज्रो, भगवाञम्भकामरान् । ते वज्रं वज्रिणमिवे, तत्क्षणीच्चोंपतस्थिरे ॥३७८॥ अन्वयः- तदा भगवान् वज्रः जृम्भकामरान् स्मरति स्म ते च वज्रिणम्
इव वजं तत्क्षणात् उपतस्थिरे । समासः- (१) जृम्भकामरान्- जृम्भकामराः - पूर्ववत्, तान्
जृम्भकामरान्। (२) वज्रिणम् - वज्रः अस्ति यस्य इति वज्री, तं वज्रिणम् ।
(तद्धित) (३) तत्क्षणात् - स चासौ क्षणश्च इति तत्क्षणः, तस्मात्
तत्क्षणात् । (वि.पू.क.) ....
Page #197
--------------------------------------------------------------------------
________________
૧૮૮ छत्रस्य॒वाम्बुजस्याँधो , धनगिर्यामभूर्मुनिः । निषद्य व्योमयानाय, विमानवरमादिशत् ॥३७९॥ अन्वयः- धनगिर्यात्मभूः मुनिः छत्रस्य इव अम्बुजस्य अधः निषद्य
विमानवरं व्योमयानाय आदिशत् । समासः- (१) अम्बुजस्य - पूर्ववत् ।
(२) धनगिर्यात्मभूः - (A) आत्मभूः - पूर्ववत् । (B) धनगिरेः आत्मभूः इति धनगिर्यात्मभूः ।
(ष.त.पु.) (३) व्योमयानाय - व्योम्नि यानम् इति व्योमयानम्. तस्मै
व्योमयानाय । (स.त.पु.) (४) विमानवरम् - विमानश्चासौ वरश्च इति विमानवरः, तं
__ विमानवरम् । (वि.उत्त.क.) तस्मिन् विमाने चलिते, जृम्भको अपिँ नाकिनः । चेलुर्विमानारूढास्ते, गीतवाद्यादिपूर्वकम् ॥३८०॥ अन्वयः- तस्मिन् विमाने चलिते विमानारूढाः ते जृम्भकाः नाकिनः
अपि गीतवाद्यादिपूर्वकं चेलुः । समासः- (१) विमानारूढाः - विमाने आरूढाः इति विमानारूढाः ।
(स.त.पु.) (२) गीतवाद्यादिपूर्वकम् - (A) गीतं वाद्यम् आदौ यस्मिन्
तद् इति गीतवाद्यादि । (व्यधि.ब.प.ब.वी.) (B) गीतवाद्यादिना पूर्वकम् इति गीतवाद्यादि
पूर्वकम् तद् गीतवाद्यादिपूर्वकम् । (तृ.त.पु.)
Page #198
--------------------------------------------------------------------------
________________
૧૮૯ वैमानिकैर्विमानस्थैविमानस्थः समावृतः । पुरीं नाम पुरीं प्रापं, वज्रस्तां बौद्धदूषिताम् ॥३८१॥ अन्वयः- विमानस्थैः वैमानिकैः समावृतः विमानस्थः वज्रः बौद्धदूषितां
तां पुरीं नाम पुरीं प्राप। समासः- (१) विमानस्थैः - विमाने तिष्ठन्ति इति विमानस्थाः, तैः
विमानस्थैः । (उप.त.पु.) (२) विमानस्थ:-पूर्ववत् । (३) वैमानिकैः - विमाने जाताः इति वैमानिकाः, तैः
वैमानिकैः । (तद्धित) (४) बौद्धदूषिताम् – (A) बौद्धाः - पूर्ववत् । (B) बौद्धैः दूषिता इति बौद्धदूषिता, तां
बौद्धदूषिताम् । (तृ.त.पु.) तत्पुरीवासिनो बौद्धा, विमानानि निरीक्ष्य छे ।
अभाषन्तैर्वमुत्पश्या, उत्पुप्लुषोद्यता इव ॥३८२॥ अन्वयः- खे विमानानि निरीक्ष्य उत्पुप्लुषोद्यताः इव उत्पश्याः
तत्पुरीवासिनः बौद्धाः एवम् अभाषन्त ।
"उत्पश्य उन्मुखः" । (४५७) इत्यभिधाने । समास:- (१) तत्पुरीवासिनः - (A) सा च सा पुरी च इति तत्पुरी।
(वि.पू.क.)
(B) तत्पुर्यां वसन्तीति तत्पुरीवासिमः । (उप.त.पु.) (२) उत्पश्याः- ऊर्ध्वं पश्यन्तीति उत्पश्याः । (उप.त.पु.)
'घ्राध्मा. ५/१/५८ श प्रत्ययः।
Page #199
--------------------------------------------------------------------------
________________
૧૯૦
(३) उत्पुप्लुषोद्यता:- (A) उत्प्लोतुम् इच्छा इति उत्पुप्लुषा ।
शंसि - प्र
- प्रत्ययात् ५/१/१०५ अ प्रत्ययः ।
(B) उत्पुप्लुषया उद्यता: इति उत्पुप्लुषोद्यताः । (तृ.त.पु.) सप्रभावमंहो ! बौद्धदर्शनं प्रेक्ष्यं नाकिनः । बुद्धपूजार्थमायान्ति, श्रीबुद्धाय नमोनमः ॥३८३ ॥ अन्वयः - अहो ! बौद्धदर्शनं सप्रभावं प्रेक्ष्य नाकिनः बुद्धपूजार्थम् आयान्ति । श्रीबुद्धाय नमः नमः | समास:- (१) सप्रभावम् प्रभावेन सह वर्तते यद् तद् इति
-
सप्रभावम्, तद् सप्रभावम् । ( सह.ब.व्री)
(२) बौद्धदर्शनम् - (A) बौद्धा: - पूर्ववत् ।
(B) बौद्धानां दर्शनम् इति बौद्धदर्शनम्, तद् बौद्धदर्शनम् । (ष.त.पु.)
(३) बुद्धपूजार्थम् (A) बुद्धस्य पूजा इति बुद्धपूजा । (ष. त.पु.)
(B) बुद्धपूजाया: अर्थम् इति बुद्धपूजार्थम् । (ष.त.पु.) (४) श्रीबुद्धाय - (A) श्रिया युक्तः इति श्रीयुक्त: । (तृ. त.पु.)
(B) श्रीयुक्त: बुद्ध: इति श्रीबुद्ध:, तस्मै श्रीबुद्धाय । (म.प.लो.क.)
११
तेषां च वदतामेवम्, वज्रऽर्हत्सदनं ययौ " । विमानैर्दर्शयन् व्योम्नि, गान्धर्वनगरश्रियम् ॥३८४॥
Page #200
--------------------------------------------------------------------------
________________
૧૯૧ अन्वयः- तेषां च एवं वदतां व्योम्नि विमानैः गान्धर्वनगरश्रियं दर्शयन्
वज्रः अर्हत्सदनं ययौ। समासः- (१) अर्हत्सदनम् - अर्हतां सदनम् इति अर्हत्सदनम्, तद्
अर्हत्सदनम् । (ष.त.पु.) (२) गान्धर्वनगरश्रियम् - (A) गान्धर्वाणां नगरम् इति
गान्धर्वनगरम् । (ष.त.पु.) (B) गान्धर्वनगरस्य श्रीः इति गान्धर्वनगरश्रीः, तां
__गान्धर्वनगरश्रियम् । (ष.त.पु.) पुर्नबौद्धैरभिदधे, मषीधौताननैरिव । अहो ! अर्हद्दर्शनेऽभूदियं दैवी प्रभावना ॥३८५॥ अन्वयः- मषीधौताननैः इव बौद्धैः पुनः अभिदधे अहो ! इयं दैवी
प्रभावना अर्हद्दर्शने अभूत् । समास :- (१) मषीधौताननैः (A) मष्या धौतम् इति मषीधौतम् ।
(तृ.त.पु.) (B) मषीधौतम् आननं येषां ते इति मषीधौताननाः,
तैः मषीधौताननैः । (समा.ब.वी.) (२) अर्हद्दर्शने - अर्हतां दर्शनम् इति अर्हद्दर्शनम्,
तस्मिन् अर्हद्दर्शने । (ष.त.पु.) (३) दैवी-देवैः कृता इति दैवी । (तद्धित) 'कृते' ६/३/
१९२ ।। अण् प्रत्ययः+ङी। चिन्तितमन्यथास्माभिरन्यथेदमुपस्थितम् । दृष्टिः प्रसारिताप्यस्था वायुनी नीतमञ्जनम् ॥३८६॥
Page #201
--------------------------------------------------------------------------
________________
૧૯૨ अन्वयः- अस्माभिः अन्यथा चिन्तितम् इदम् अन्यथा उपस्थितं दृष्टिः
प्रसारिता अस्थाद् अपि अञ्जनं वायुना नीतम् । ततः पर्युषणोपर्वण्यहदायतनेऽमरैः।। महीयोन्महिमाऽकारि, भूस्पृशां यों ने गोचरः ॥३८७॥ अन्वयः- ततः अमरैः पर्युषणापर्वणि अर्हदायतने महीयान् महिमा
अकारि यः भूस्पृशां न गोचरः (अस्ति)। समासः- (१) अमरैः - नास्ति मरः येषां ते इति अमराः, तैः अमरैः ।
(नञ्.ब.वी.) (२) पर्युषणापर्वणि - पर्युषणापर्व - पूर्ववत्,
तस्मिन् पर्युषणापर्वणि । (म.प.लो.क.) (३) अर्हदायतने - अर्हताम् आयतनम् इति अर्हदायतनम्,
तस्मिन् अर्हदायतने । (ष.त.पु.) (४) महीयान् - अयमनयोरतिशयेन महान् इति महीयान् ।
(तद्धित) ७/३/९ ईयसु प्रत्ययः । (५) भूस्पृशाम् - भुवं स्पृशन्तीति भूस्पृशः, तेषां भूस्पृशाम् ।
(उप.त.प.) जृम्भकामरकृतां प्रभावनामहतो भर्गवतो निरीक्ष्य ताम् । बौद्धभावमपहाय पार्थिव; सप्रजोऽपिंपरमार्हतोऽभवत् ॥३८८॥ अन्वयः- अर्हतः भगवतः जृम्भकामरकृतां तां प्रभावनां निरीक्ष्य
सप्रजः पार्थिवः अपि बौद्धभावम् अपहाय परमार्हतः अभवत् ।
Page #202
--------------------------------------------------------------------------
________________
१८३९
-
समास:- (१) जृम्भकामरकृताम् – (A) जृम्भकामरा:- पूर्ववत् । (B) जृम्भकामरैः कृता इति जृम्भकामरकृता, तां
जृम्भकामरकृताम्। (तृ. त.पु.) (२) बौद्धभावम् – (A) बौद्ध: - पूर्ववत् ।
(B) बौद्धस्य भावः इति बौद्धभावः, तं बौद्धभावम् । (ष. त.पु.)
(३) सप्रज:- प्रजया सह वर्तते यः सः इति सप्रजः । (सह.ब.व्री.)
(४) परमार्हतः - (A) अर्हन् देवता यस्य सः आर्हतः (तद्धित) 'देवता' ६ / २ / १०१... अण् प्रत्ययः । (B) परमश्च सः आर्हतश्च इति परमार्हतः । (वि.पू.क.)
इत्याचार्य श्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये वज्रस्वामिजन्म - व्रत- प्रभाववर्णनो नाम द्वादशः सर्गः ॥
समाप्त
Page #203
--------------------------------------------------------------------------
Page #204
--------------------------------------------------------------------------
________________ BHARAT GRAPHICS - Ahmedabad-1 Ph: 079-22134176, M: 9925020106