________________
स्थविराज्ञाभङ्गभीरुः, स्वशक्तिं चाप्रकाशयन् । अव्यक्तमुद्गृणन्किचित्, सोऽश्रौषीत्यठतोपरान् ॥१६४॥ अन्वय :- स्थविराज्ञाभङ्गभीरुः स्वशक्तिं च अप्रकाशयन् किंचित्
अव्यक्तम् उद्गृणन् सः पठतः अपरान् अश्रौषीद् । समास :- (१) स्थविराज्ञाभङ्गभीरुः - (A) स्थविराणाम् आज्ञा इति
स्थविराज्ञा । (ष.त.पु.) (B) स्थविराज्ञायाः भङ्गः इति स्थविराज्ञाभङ्गः।
(ष.त.पु.) (C) स्थविराज्ञाभङ्गाद् भीरुः इति स्थविराज्ञाभङ्ग
भीरुः । (पं.त.पु.) (२) स्वशक्तिम् - स्वस्य शक्तिः इति स्वशक्तिः, तां
स्वशक्तिम् । (ष.त.पु.) (३) अप्रकाशयन् - न प्रकाशयन् इति अप्रकाशयन् ।
(नञ्.त.पु.) (४) अव्यक्तम् - न व्यक्तम् इति अव्यक्तम्, तद् अव्यक्तम्।
__ (नञ्.त.पु.) अन्यस्मिन्नह्रि मध्याह्ने , भिक्षार्थं साधवों ययुः । आचार्यमिश्रा अपि तें, बहिर्भूमौ विनिर्ययुः ॥१६५॥ अन्वय :- अन्यस्मिन् अह्नि मध्याह्ने साधवः भिक्षार्थं ययुः ते
आचार्यमिश्राः अपि बहिर्भूमौ विनिर्ययुः ।
मिश्रः-गौरववाची। समास :- (१) मध्याह्ने - अह्नः मध्यम् इति मध्याह्नः, तस्मिन्
मध्याह्ने । (ष.त.पु.)