________________
૧૫ (२) दिवानिशम् - दिवा च निशा च एतयोः समाहारः
इति दिवानिशम्, तद् दिवानिशम् । (समा. द्वन्द्व) नै रागमधुरैर्गानैर्न क्रीडनकदर्शनैः। न वस्त्रदोलाप्रेडाभिन चाटुवचनैरपि ॥२९॥ नोत्सङ्गनृत्यलीलानि मुखातोद्यवादनँ । नं शिरश्चुम्बनेनापि, विशश्रीम स रोदनात् ॥३०॥
(युग्मम्) अन्वय :- रागमधुरैः गानैः न, क्रीडनकदर्शनैः न, वस्त्रदोलाप्रेङ्घाभिः
न, चाटुवचनैः अपि न, उत्सङ्गनृत्यलीलाभिः न, मुखातोद्यवादनैः न, शिरश्चुम्बनेन अपि सः रोदनात् न विशश्राम । क्रीडनकः - कन्दुकादिः। दोला - हिण्डोलकः । प्रेङ्खा - हिण्डोलनम् । “अथ दोला प्रेवादिका भवेत्"
इत्यभिधाने ॥७५८॥ समास :- (१) रागमधुरैः - रागेण मधुराणि इति रागमधुराणि, तैः
रागमधुरैः । (तृ त. पु.) (२) क्रीडनकदर्शनैः - क्रीडनकानां दर्शनानि इति
क्रीडनकदर्शनानि, तैः क्रीडनकदर्शनैः । (ष.त.पु.) (३) वस्त्रदोलाप्रेखाभिः - (A) वस्त्रेण निर्मिता इति
वस्त्रनिर्मिता । (तृ.त.पु.) (B) वस्त्रनिर्मिता दोला इति वस्त्रदोला । (म.प.लो.क.) (C) वस्त्रदोलया (कृताः) प्रेवाः इति वस्त्रदोलाप्रेवाः,
ताभिः वस्त्रदोलाप्रेडाभिः । (तृ. त. पु.)