________________
૧૨૯ (C) आभिजात्यस्य सखी इति आभिजात्यसखी,
ताम् आभिजात्यसखीम् । (ष.त.पु.) (२) मत्पुण्यैः - मम पुण्यानि इति मत्पुण्यानि, तैः
मत्पुण्यैः । (ष.त.पु.) एष प्रायेणं ने स्थास्तुद्यैवैह गच्छति । किं ज्ञायते कदाऽप्येति भूयोऽप्युड्डीनपक्षिवत् ॥२७७॥ अन्वय :- प्रायेण एष न स्थास्नुः यदि अद्य एव गच्छति भूयः
अपि कदा अपि उड्डीनपक्षिवत् इह एति किं ज्ञायते । समास :- (१) स्थास्नु:-तिष्ठति इत्येवंशीलः इति स्थास्नुः ।
(उप.त.पु.) (२) उड्डीनपक्षिवत्- (A) उड्डीनश्चासौ पक्षी च इति
उड्डीनपक्षी । (वि.पू.क.)
(B) उड्डीनपक्षी इव इति उड्डीनपक्षिवत् । (तद्धित) तस्मादल विलम्बेन, देहि वज्रार्य तातं ! माम् । चिरकौमारदीनां माम्, पश्यन्कि में हिँ दूयसें ॥२७८॥ अन्वय :- तात ! तस्माद् विलम्बेन अलं मां वज्राय देहि हि
चिरकौमारदीनां मां पश्यन् किं न दूयसे । समास :- (१) चिरकौमारदीनाम् - (A) कुमार्याः भावः इति
कौमारम् । (तद्धित) (B) चिरात् कौमारम् इति चिरकौमारम् । (प्रा.
कर्म.) (C) चिरकौमारेण दीना इति चिरकौमारदीना, तां
चिरकौमारदीनाम् । (तृ.त.पु.)