SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ૧૨૮ समास :- (१) जनोक्तिभिः - जनानाम् उक्तयः इति जनोक्तयः, ताभिः जनोक्तिभिः । (ष.त.पु.) द्वितीये वासरे रुक्मिण्युवाच पितरं निजम् । वज्रस्वाम्यागतोऽस्तीह, यं वुवू म्यहं सदा ॥२७४॥ अन्वय :- रुक्मिणी द्वितीये वासरे निजं पितरम् उवाच अहं सदा यं वुवूर्षामि (सः) वज्रस्वामी इह आगतः अस्ति । समास :- (१) वज्रस्वामी - पूर्ववत् । तन्मां वज्रकुमाराय, सम्प्रदत्तान्या तुं में । मरणं शरणं तातं !, ग्राणिं रेखैवं गीरियम् ॥२७५॥ अन्वय :- तात! तद् मां वज्रकुमाराय सम्प्रदत्त अन्यथा तु मे मरणं शरणं ग्राव्णि रेखा इव इयम् गीः।। समास :- (१) वज्रकुमाराय - वज्रश्चासौ कुमारश्च इति वज्रकुमारः, ____ तस्मै वज्रकुमाराय । (वि.उत्त.क.) आभिजात्यसखीं लज्जाम्', विहाँयैवं ब्रवीमि यत् । तंत्रेदं कारणं वज्रों, मत्पुण्यैरर्यमागतः ॥२७॥ अन्वय :- आभिजात्यसखीं लज्जां विहाय एवं ब्रवीमि तत्र इदं कारणं यत् मत्पुण्यैः अयं वज्रः आगतः । आभिजात्यसखीम् - उत्तमकुलजातसखीम् । समास :- (१) आभिजात्यसखीम् - (A) अभिमतं (प्रशस्तं) जातं (जन्म) यस्य तद् इति अभिजातम् । (प्रादि.ब.वी.) (B) अभिजातस्य भावः इति आभिजात्यम् । (तद्धित)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy