________________
૧૨૭
अन्वय :- राज्ञ्यः प्रोचुः वयम् अपि स्वयं तं विवन्दिषवः यद् अत्र त्वदाज्ञा अपि अभूत् तद् तृषितैः सरित् प्राप्ता । समास :- (१) वन्दितुम् इच्छवः इति विवन्दिषव: । (सन्+उ) (२) त्वदाज्ञा तव आज्ञा इति त्वदाज्ञा । (ष.त.पु.) तर्तश्चांनुज्ञया राज्ञों, राज्यों वज्रविभूषितम् । याप्ययानाधिरूढस्तस्तर्दुद्यानवर" यर्युः ॥ २७२ ॥
अन्वय :- तत: च राज्ञः अनुज्ञया याप्ययानाधिरूढाः ताः राज्ञ्यः वज्रविभूषितं तद् उद्यानवरं ययुः ।
याप्ययानम् - सुखासनम् ।
समास :- (१) वज्रविभूषितम् वज्रेण विभूषितम् इति वज्रविभूषितम्, तद् वज्रविभूषितम् । (तृ. त.पु.)
(२) याप्ययानाधिरूढाः
(A) याप्यस्य ( अशक्तस्य)
यानम् इति याप्ययानम् । (ष. त.पु.)
(B) याप्ययाने अधिरूढाः इति याप्ययानाधिरूढाः ।
(स.त.पु.)
(३) उद्यानवरम् - उद्यानं च तद् वरं च इति उद्यानवरम्, तद् उद्यानवरम् । (वि. उत्त.क.)
वज्रमांगतमाकर्ण्य, रुक्मिण्यपिं जनोक्तिभिः । तमेव चिन्तयन्त्यस्थादात्मानमिवै योगिनीं ॥२७३॥ अन्वय :- जनोक्तिभिः आगतं वज्रम् आकर्ण्य तम् एव आत्मानं चिन्तयन्ती रुक्मिणी अपि योगिनी इव अस्थाद् ।