________________
૧૩૦ एवं धनोऽतिनिर्बन्धादुपवजं निनार्य ताम् । सद्यः कृत्वा विवाहार्हसर्वालङ्कारभूषिताम् ॥२७९॥ अन्वय :- एवं धनः अतिनिर्बन्धात् सद्यः तां विवाहार्हसर्वालङ्कार
भूषितां कृत्वा उपवजं निनाय। समास :- (१) अतिनिर्बन्धात् - अतिशयेन निर्बन्धः इति अति
निर्बन्धः, तस्मात् अतिनिर्बन्धात् । (प्रा.कर्म.) (२) उपवज्रम् - वज्रस्य समीपे इति उपवज्रम्, तद्
उपवज्रम् । (अव्य.भा.) (३) विवाहार्हसर्वालङ्कारभूषिताम् - (A) विवाहमर्हन्ति इति
विवाहाहः । (उप.त.पु.) (B) सर्वे च ते अलङ्काराश्च इति सर्वालङ्काराः ।
(वि.पू.क.) (C) विवाहाश्चि ते सर्वालङ्काराश्च इति विवाहार्हस
लिङ्काराः । (वि.पू.क.) (D) विवाहार्हसर्वालङ्कारैः भूषिता इति विवाहार्ह
सर्वालङ्कारभूषिता, तां विवाहार्हसर्वालङ्कार
भूषिताम् । (तृ.त.पु.) पुत्र्या सममनैषीच्च, धनकोटीनेकशः । प्रलोभनं वरयितुर्या स्याँदिति जातीः ॥२८०॥ अन्वय :- यथा वरयितुः प्रलोभनं स्याद् इति जातधीः पुत्र्या समम्
अनेकशः च धनकोटी: अनैषीद् । समास :- (१) धनकोटी:- धनानां कोट्यः इति धनकोट्यः, ताः
धनकोटीः । (ष.त.पु.)