________________
૧૩૧ (२) जातधी:- जाता धीः यस्य सः इति जातधीः ।
___ (समा.ब.वी.) तदहा शस्तने चाहि, वजे कुर्वति देशनाम् । भक्तिमानागरों लोकः, परस्परमंदोऽवदत् ॥२८१॥ अन्वय :- तदहात् ह्यस्तने च अह्नि वजे देशनां कुर्वति भक्तिमान्
____ नागरः लोकः परस्परम् अदः अवदत् । समास :- (१) तदहात् - तच्च तद् अहश्च इति तदहम्, तस्मात्
तदहात् । (वि.पू.क.) (२) ह्यस्तने - ह्यः भवः इति शस्तनः, तस्मिन् ह्यस्तने ।
(तद्धित) अहो! वज्रस्य सौस्वर्यम्', यदीयां धर्मदेशनाम् । आकाऽऽनन्दमग्नानाम्, मुक्त्यवस्थेवं जायते ॥२८२॥ अन्वय :- अहो ! वज्रस्य सौस्वर्यं यदीयां धर्मदेशनाम् आकर्ण्य
आनन्दमग्नानां मुक्त्यवस्था इव जायते । समास :- (१) सौस्वर्यम् - (A) शोभनः स्वरः इति सुस्वरः ।
(सु.पू.क.)
(B) सुस्वरस्य भावः इति सौस्वर्यम् । (तद्धित) (२) यदीयाम् - यस्य इयम् इति यदीया, तां यदीयाम् ।
(तद्धित) (३) धर्मदेशनाम् - पूर्ववत् ।