________________
૧૩૨
(४) आनन्दमग्नानाम् - आनन्दे मग्नाः इति आनन्दमग्नाः, तेषाम् – आनन्दमग्नानाम् । (स.त.पु.)
-
(५) मुक्त्यवस्था - मुक्ते: अवस्था इति मुक्त्यवस्था । (ष. त.पु.) श्रीवज्रस्वामिनंः सर्वगुणरत्नमहोदधेः । गुणानुरूपं चेंद्रपम्, भर्वेदुच्यते तर्हि किम् ? ॥२८३॥ अन्वय :- सर्वगुणरत्नमहोदधेः श्रीवज्रस्वामिनः चेत् गुणानुरूपं रूपं भवेद् तर्हि किम् उच्यते ।
समास :- (१) श्रीवज्रस्वामिन: - पूर्ववत् ।
(२) सर्वगुणरत्नमहोदधे: - (A) सर्वे च ते गुणाश्च इति सर्वगुणा: । (वि.पू.क.)
(B) सर्वगुणाः एव रत्नानि इति सर्वगुणरत्नानि । (अव.पू.क.)
(C) महांश्चासौ उदधिश्च इति महोदधिः । (वि.पू.क.) (D) सर्वगुणरत्नानां महोदधिः इति सर्वगुणरत्नमहोदधिः । (षत.पु.)
(३) गुणानुरूपम् – (A) रूपस्य योग्यम् इति
-
अनुरूपम् । (अव्य.भा.)
(B) गुणानाम् अनुरूपम् इति गुणानुरूपम् । (ष. त.पु.)
1
वज्रर्षिणा चे नगरप्रवेशें रूपमात्मनः शक्त्यो संक्षिप्तमेवासीत् पुंरक्षोभाभिशङ्कया ॥ २८४॥