________________
૧૧૫
(B) सौभाग्यस्य कथा इति सौभाग्यकथा, तां
___सौभाग्यकथाम् । (ष.त.पु.) (२) पतीयन्ती - पतिम् इच्छन्ती इति पतीयन्ती । (नाम
धातु) ("अमाव्ययात् क्यन् च" ३/४/२३ क्यन् +
अत् (शतृ) + ई (ङी.)) वज्रः स्याद्यदि में भर्ता, भोक्ष्ये भोगानह तर्दा । अन्यों तु कृतं भोगै:, कि भोगै र्दयितं विनों ॥२४७॥ अन्वय :- यदि मे भर्ता वज्रः स्याद् तदा अहं भोगान् भोक्ष्ये अन्यथा
तु भोगैः कृतं दयितं विना भोगैः किम् ।
दयितम्-प्रियपतिम् । तस्यां वरयितारश्च, ये केचिदुपतस्थिरें । सा प्रत्यषेधत्तान् सर्वान, मुखमोटनलीलयाँ ॥२४८॥ अन्वय :- ये केचित् तस्याः वरयितारः उपतस्थिरे सा च
मुखमोटनलीलया तान् सर्वान् प्रत्यषेधत् । समास :- (१) मुखमोटनलीलया - (A) मुखस्य मोटनम् इति
मुखमोटनम् । (ष.त.पु.) (B) मुखमोटनस्य लीला इति मुखमोटनलीला,
____ तया मुखमोटनलीलया । (ष.त.पु.) प्रव्रजिताच तां प्रोचुंरयि ! मुग्धाऽसि रुक्मिणि!। वीतराग प्रव्रजितम्, यद्वन्नं तं वुवर्षसि ॥२४९॥ अन्वय :- प्रव्रजिताः च तां प्रोचुः अयि ! रुक्मिणि ! मुग्धा असि
यद् वीतरागं प्रव्रजितं तं वज्रं वुवर्षसि ।