________________
૧૧૬
समास :- (१) वीतरागम् - वीतः रागः यस्मात् सः इति वीतरागः,
___तं वीतरागम् । (समा.ब.वी.) रुक्मियभिदधे वज्रों, यदि प्रवजितस्तदा । प्रव्रजिष्याम्यहमपि, या गतिस्तस्यै सैंव में ॥२५०॥ अन्वय :- रुक्मिणी अभिदधे यदि वज्रः प्रव्रजितः तदा अहम्
___ अपि प्रव्रजिष्यामि या तस्य गतिः सा एव मे (गतिः)। इतथे भगवान वज्रः, पाटलीपुत्रपत्तने । विहारेण ययौं धर्मदेशनावारिवारिदैः ॥२५१॥ अन्वय :- इतः च धर्मदेशनावारिवारिदः भगवान् वज्रः विहारेण
पाटलीपुत्रपत्तने ययौ। समास :- (१) पाटलीपुत्रपत्तने - (A) पाटलीपुत्रः नाम यस्य तद्
इति पाटलीपुत्रनाम । (समा.ब.वी.) । (B) पाटलीपुत्रनाम पत्तनम् इति पाटलीपुत्रपत्तनम्,
___ तस्मिन् पाटलीपुत्रपत्तने । (म.प.लो.क.) (२) धर्मदेशनावारिवारिदः - (A) धर्मस्य देशना इति
धर्मदेशना । (ष.त.पु.) (B) धर्मदेशना एव वारि इति धर्मदेशनावारि ।
(अव.पू.क.) (C) वारि ददाति इति वारिदः । (उप.त.पु.) (D) धर्मदेशनावारि वर्षतीति धर्मदेशनावारि
वर्षकः। (उप.त.पु.) (E) धर्मदेशनावारिवर्षक: वारिदः इति धर्मदेशना
वारिवारिदः । (म.प.लो.क.)