SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ૧૧૭ श्रुत्वा च वज्रमायान्तम्, पाटलीपुत्रपार्थिवः । तत्कालं सपरीवारोऽभ्यगाद्धयाँ गरिष्ठयाँ ॥२५२॥ अन्वय :- आयान्तं च वजं श्रुत्वा सपरीवार: पाटलीपुत्रपार्थिवः गरिष्ठया ऋद्ध्या तत्कालम् अभ्यगाद् । समास :- (१) पाटलीपुत्रपार्थिवः - पाटलीपुत्रस्य पार्थिवः इति __पाटलीपुत्रपार्थिवः । (ष.त.पु.) (२) सपरीवारः - पूर्ववत् । इतश्चेतश्च वैज्रर्षेन्दीभूतान् महामुनीन् । दर्शाऽऽगच्छतो राजा, राजमानांस्तपःश्रियाँ ॥२५३॥ अन्वय :- राजा इतः च इतः च वज्रर्षेः तपःश्रिया राजमानान् वृन्दीभूतान् आगच्छतः महामुनीन् ददर्श । समास :- (१) वज्रर्षेः - पूर्ववत् । (२) वृन्दीभूतान् - (A) न वृन्दम् इति अवृन्दम् । (नञ्.त.पु.) (B) अवृन्दं वृन्दम् इव भूताः इति वृन्दीभूताः, तान् ___ वृन्दीभूतान् । (गति.त.पु.) (३) महामुनीन् - महामुनयः-पूर्ववत्, तान् महामुनीन्। (४) तपःश्रिया - तपः एव श्रीः इति तप:श्रीः, तया तपःश्रिया । (अव.पू.क.) दृष्ट्वा तास्तु निदध्यौं च, सर्वेऽमी द्युतिशालिनः । सर्वेऽपि मधुराकारीः, सर्वेऽपि विकसन्मुखौंः ॥२५४॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy