________________
४५
ततश्चिकीर्षवः स्वस्य, दर्शनस्य प्रभावनाम् । आचार्याश्चिक्षिपुर्योगविशेषं सरिदन्तरा ॥९४॥ अन्वय :- ततः स्वस्य दर्शनस्य प्रभावनां चिकीर्षवः आचार्याः
सरिदन्तरा योगविशेष चिक्षिपुः । समास :- (१) चिकीर्षवः - कर्तुम् इच्छन्तीति चिकीर्षवः ।
(सन् + उ) (२) योगविशेषम् - विशिष्टः योगः इति योगविशेषः,
तं योगविशेषम् । (म.व्यं.क.) । (३) सरिदन्तरा - सरितः अन्तरा इति सरिदन्तरा ।
(ष.त.पु.) एहि पुत्र! यथा यामो, वयं परतटे तव । इति चावोचर्दाचार्यवर्यो धुर्यो" महात्मनाम् ॥१५॥ अन्वय :- पुत्र ! एहि यथा वयं तव परतटे यामः इति च महात्मनां
धुर्यः आचार्यवर्यः अवोचद् । समास :- (१) परतटे - परश्चासौ तटश्च इति परतटः, तस्मिन् परतटे ।
(वि. पू. क.) (२) आचार्यवर्यः - पूर्ववत् । । (३) महात्मनाम् - महात्मानः-पूर्ववत्, तेषां
___ महात्मनाम्। तटद्वये ततस्तस्याः', सरितो' मिलिते सति । आचार्यः सपरीवारः, परतीरभुवं ययौ ॥१६॥ अन्वय :- ततः तस्याः सरितः तटद्वये मिलिते सति सपरीवारः
आचार्यः परतीरभुवं ययौ। .