SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४४ अन्वय :- मायाविना अनेन कियत् चिरं वयं मोहिताः स्म इति तदा मिथ्यादृशाम् अपि मनः मलिन्यभूत् । समास :- (१) मायाविना - माया अस्ति अस्य इति मायावी, तेन मायाविना । (तद्धित)। (२) मलिन्यभूत् - (A) न मलिनम् इति अमलिनम् । (नब्.त.पु.) (B) अमलिनं मलिनम् अभूत् इति मलिन्यभूत् । (गति.त.पु.) (३) मिथ्यादृशाम् - मिथ्यादृशः - पूर्ववत्, तेषां मिथ्या दृशाम्। दत्तताले च तत्कालम्, जने तुमुलकारिणि । आचार्या अपि तत्राऽऽगुः, श्रुतस्कन्धधुरन्धराः ॥१३॥ अन्वय :- तत्कालं दत्तताले तुमुलकारिणि च जने तत्र श्रुतस्कन्ध धुरन्धराः आचार्याः अपि आगुः। समास :- (१) दत्तताले - दत्तं तालं येन सः इति दत्ततालः, तस्मिन् दत्तताले । (समा. ब. वी.) (२) तत्कालम् - स चासौ कालश्च इति तत्कालः, तं तत्कालम् । (वि.पू.क.) (३) तुमुलकारिणि - तुमुलं करोति इति तुमुलकारी, तस्मिन् तुमुलकारिणि । (उप. त. पु.) (४) श्रुतस्कन्धधुरन्धराः - (A) श्रुतमेव स्कन्धः इति श्रुतस्कन्धः । (अव.पू.क.) (B) श्रुतस्कन्धस्य धूः इति श्रुतस्कन्धधूः । (ष.त.पु.) (C) श्रुतस्कन्धधुरं धरन्ति इति श्रुतस्कन्ध धुरन्धराः । (उप.. त. पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy