________________
४३ लेपाश्रयः स्याद॑द्यापि, कोऽपीत्यल्पमतिः स तु । अलीकसाहसं कृत्वा, प्राग्वत्प्राविशदैम्भसि ॥९०॥ अन्वय :- अद्यापि कोऽपि लेपाश्रयः स्याद् इति अल्पमतिः सः तु
अलीकसाहसं कृत्वा प्राग्वत् अम्भसि प्राविशद् । समास :- (१) लेपाश्रयः - लेपस्य आश्रयः इति लेपाश्रयः ।
(ष.त.पु.) (२) अल्पमतिः - अल्पा मतिः यस्य सः इति अल्पमतिः ।
(समा. ब. वी.) (३) अलीकसाहसम् - अलीकश्चासौ साहसश्च इति
अलीकसाहसः, तम् अलीकसाहसम् । (वि.पू.क.)
(४) प्राग्वत् - प्राग् इव इति प्राग्वत् । (तद्धित) ततः कमण्डलुंरिवे, कुर्वन बुडबुडारवम् । बुडति स्म सरित्तीरे, स तापसकुमारकः ॥९१॥ अन्वय :- ततः कमण्डलुः इव बुडबुडारवं कुर्वन् सः तापस
कुमारकः सरित्तीरे ब्रुडति स्म । समास :- (१) बुड्बुडारवम् - बुड् बुड् आरवः इति बुडबुडारवः,
तं बुडबुडारवम् । (वि. पू. क.) (२) सरित्तीरे - पूर्ववत् । (३) तापसकुमारकः - तापसश्चासौ कुमारकश्च इति
तापसकुमारकः । (वि. उत्त. क.) वयं मायाविनाऽनेनं, मोहिताः स्म कियैच्चिरम् । मलिन्यभूदिति मनस्तदा मिथ्यामिपि ॥१२॥