________________
૪૨
(२) दुर्मनायित: - (A) दुष्टं मन: यस्य सः इति दुर्मनाः ।
(प्रादि . ब. व्री.)
(B) दुर्मना इव आचरितः इति दुर्मनायितः । (क्यङ् + त (क्त) प्रत्ययान्त नामधातु) (३) भोजनास्वादम् - भोजनस्य आस्वादः इति भोजनास्वादः, तं भोजनास्वादम् । (ष. त.पु.) (४) विगोपागमशङ्कया – (A) विगोपस्य आगम: इति विगोपागमः । (ष. त.पु.)
(B) विगोपागमस्य शङ्का इति विगोपागमशङ्का, तया विगोपागमशङ्कया । (ष. त.पु.)
२
तापसो' भोजनं' कृत्वा', सरित्तीरं पुनर्ययौ । लोकैर्वृतो' जलस्तम्भकौतूहलदिदृक्षया ॥८९॥ अन्वय :- तापसः भोजनं कृत्वा जलस्तम्भकौतूहलदिदृक्षया लोकैः वृतः पुनः सरित्तीरं ययौ ।
समास :- (१) सरित्तीरम् - सरितः तीरम् इति सरित्तीरम्, तद् सरित्तीरम् । (ष.त.पु.)
(२) जलस्तम्भकौतूहलदिदृक्षया - (A) जले स्तम्भः इति
जलस्तम्भः । (स.त.पु.)
(B) कुतूहलस्य भाव इति कौतूहलम् । (तद्धित ) (C) जलस्तम्भस्य कौतूहलम् इति जलस्तम्भकौतूहलम् (ष.त.पु.)
(D) जलस्तम्भकौतूहलस्य दिदृक्षा इति
जलस्तम्भकौतूहलदिदृक्षा, तया जलस्तम्भकौतूहलदिदृक्षया । (ष. त.पु.)