________________
૪૧
(C) तत्पादपादुकानां शौचम् इति तत्पादपादुका
शौचम्, तद् तत्पादपादुका-शौचम् । (ष.त.पु.) (२) प्रलेपगन्धः - प्रलेपस्य गन्धः इति प्रलेपगन्धः ।
(ष.त.पु.)
(३) अनुरागवत्-अनुरागः इव इति अनुरागवत् । (तद्धित) महत्या प्रतिपत्त्या तम्, तापसं' श्रावकाग्रणीः । अभोजयत् कार्यवशात्,पूज्या मिथ्यादृशोऽपि हि ॥८७॥ अन्वय :- श्रावकाग्रणी: महत्या प्रतिपत्त्या तं तापसम् अभोजयत्
हि मिथ्यादृशः अपि कार्यवशात् पूज्याः (भवन्ति)। समास :- (१) श्रावकाग्रणी: - (A) अग्रं नयति इति अग्रणीः ।
(उप. त. पु.)
(B) श्रावकेषु अग्रणीः इति श्रावकाग्रणीः । (स.त.पु.) (२) कार्यवशात् - कार्यस्य वशम् इति कार्यवशम्,
तस्मात् कार्यवशात् । (ष. त. पु.) (३) मिथ्यादृशः - मिथ्या दृक् येषां ते इति मिथ्यादृशः ।
(अव्य. ब.वी.) तेन लेपापहारेण, तापसो दुर्मनायितः । नाँवेदीद्भोजनास्वादम्, विगोपागमशङ्कया' ॥८८॥ अन्वय :- तेन लेपापहारेण विगोपागमशङ्कया दुर्मनायितः तापसः
भोजनास्वादं न अवेदीत् ।. समास :- (१) लेपापहारेण - लेपस्य अपहारः इति लेपापहारः,
तेन लेपापहारेण । (ष.त.पु.)