SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४० तदस्माननुगृहौवम्, निस्तारयितुमर्हसि । स्खलयन्ति महात्मानों,भक्ति भक्तिमतां न हि ॥८४॥ अन्वय :- तद् एवम् अनुगृह्य अस्मान् निस्तारयितुम् अर्हसि हि महात्मानः भक्तिमतां भक्तिं न स्खलयन्ति । समास :- (१) महात्मानः - महान् आत्मा येषां ते इति महात्मानः । (समा.ब.वी.) (२) भक्तिमताम् - भक्तिः अस्ति येषां ते इति भक्तिमन्तः, तेषां भक्तिमताम् । अनिच्छतोऽपि ताथ, श्रावकस्तापसस्य सः । क्षालयामास पादौ च,पादुके चोष्णवारिणा ॥८५॥ अन्वय :- अथ सः श्रावकः अनिच्छतः अपि तस्य तापसस्य पादौ च पादुके च उष्णवारिणा क्षालयामास । समास :- (१) अनिच्छतः - न इच्छन् इति अनिच्छन्, तस्य अनिच्छतः । (ष. त. पु.) (२) उष्णवारिणा - उष्णं च तद् वारि च इति उष्णवारि, तेन उष्णवारिणा । (वि. पू. क.) तत्पादपादुकाशौचर्मकार्षीत्स' तथा यथा । तत्र प्रलेपगन्धोऽपि, नीस्थानीचेऽनुरागवत् ॥८६॥ अन्वय :- सः तथा तत्पादपादुकाशौचम् अकार्षीत् यथा नीचे अनुरागवत् तत्र प्रलेपगन्धः अपि न अस्थात् । समास :- (१) तत्पादपादुकाशौचम् - (A) पादौ च पादुके च इति पादपादुकाः । (इ.द्व.) (B) तस्य पादपादुकाः इति तत्पादपादुकाः । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy