SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ समास :- (१) तटद्वये - तटयोः द्वयम् इति तटद्वयम्, तस्मिन् तटद्वये। (ष. त. पु.) (२) सपरीवारः - परीवारेण सह वर्तते यः सः इति सपरीवारः । (सह. ब. वी.) (३) परतीरभुवम् – (A) परं च तद् तीरञ्च इति परतीरम् । (वि.पू.क.) (B) परतीरस्य भूः इति परतीरभूः, तां परतीरभुवम् । (ष. त. पु.) आचार्यैदशितं तं चातिशयं प्रेक्ष्य तापसाः । सर्वेऽपि संविविजिरें, तद्भक्तश्चार्खिलो जनः ॥९७॥ अन्वय :- आचार्यैः च दर्शितं तम् अतिशयं प्रेक्ष्य सर्वे अपि तापसाः अखिलः च तद्भक्तः जनः संविविजिरे । समास :- (१) तद्भक्तः - तेषां भक्तः इति तद्भक्तः । (ष. त. पु.) आचार्यस्यार्यशमितस्यौन्तिके प्रावजन्नर्थ । सर्वे मथितमिथ्यात्वांस्तापसा एकचेतसः ॥९८॥ अन्वय :- अथ आचार्यस्य आर्यशमितस्य अन्तिके एकचेतसः मथितमिथ्यात्वाः सर्वे तापसाः प्राव्रजन् । समास :- (१) मथितमिथ्यात्वाः - मथितं मिथ्यात्वं यैः ते इति मथितमिथ्यात्वाः । (समा. ब. वी.) (२) एकचेतसः - एकं चेतः येषां ते इति एकचेतसः । (समा. ब. वी.) तें ब्रह्मद्वीपवास्तव्या, इति जातास्तदन्वयें । ब्रह्मद्वीपिकनामान:, श्रमर्णा आगमोदिताः ॥१९॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy