________________
૨૪
शिशोस्तस्योतिभारेण, सद्यः सिंहगिरैर्गुरोः । नमति स्म महीपीठम्", वार्यादित्सॉरिवाञ्जलिः ॥५१॥ अन्वय :- तस्य शिशोः अतिभारेण वारि आदित्सोः इव सिंहगिरेः
___ गुरोः अञ्जलिः सद्यः महीपीठं नमति स्म । समास :- (१) अतिभारेण - अतिशयः भारः इति अतिभारः, तेन
अतिभारेण । (प्रादि.कर्म.) (२) महीपीठम् - मह्याः पीठः इति महीपीठः, तं
महीपीठम् । (ष. त. पु.) (३) आदित्सोः - आदातुम् इच्छुः इति आदित्सुः, तस्य
आदित्सोः। (इच्छर्थक सन्+3) सन्-भिक्षा० ५।२।३३
उप्रत्ययः । तद्भारभङ्गुरकरो', गुरुरूचे सविस्मयः। अहाँ! पुंरू पभृद्वमिदं धर्तुं न शक्यते" ॥५२॥ अन्वय :- तद्भारभङ्गुरकरः सविस्मयः गुरुः ऊचे अहो ।
पुंरूपभृद् इदं वज्रं धर्तुं न शक्यते । समास :- (१) तद्भारभङ्गुरकर:- (A) तस्य भारः इति तद्भारः ।
(ष.त.पु.) (B) तद्भारेण भङ्गरौ करौ यस्य सः इति तद्भार
____भङ्गरकरः । (व्य. ब. प. ब. वी.) (२) सविस्मयः - विस्मयेन सह वर्तते यः सः इति
सविस्मयः । (सह. ब. वी.)