________________
૨૩ अन्वय :- महाभाग ! त्वं भिक्षाभारेण आयासित इव असि मम तं
समर्पय तव भुजः विश्राम्यतु । समास :- (१) भिक्षाभारेण - भिक्षायाः भारः इति भिक्षाभारः,
तेन भिक्षाभारेण । (ष. त. पु.) (२) महाभाग! - महान् भागः यस्य सः इति महाभागः,
तत्सम्बोधनं महाभाग ! (समा.ब.वी.) इत्युपादाय यत्नेन', साधुः श्रीपात्रमर्भकम् । कान्त्या सुरकुमाराभम् , अर्पयामास तं गुरोः ॥४९॥ अन्वय :- इति साधुः यत्नेन उपादाय श्रीपात्रं कान्त्या सुरकुमाराभं तम्
अर्भकं गुरोः अर्पयामास । समास :- (१) श्रीपात्रम् - श्रियाः पात्रम् इति श्रीपात्रम्, तद्
श्रीपात्रम् । (ष.त.पु.) (२) सुरकुमाराभम् - (A) सुरश्चासौ कुमारश्च इति
सुरकुमारः । (वि.उ.क.) (B) सुरकुमारस्य आभा इव आभा यस्य सः इति
सुरकुमाराभः, तं सुरकुमाराभम् । (उप.ब.वी.) देदीप्यमानं तेजोभिरधिपं तेजसोमिव । आचार्यवर्यस्तं बालम्, पाणिभ्यां स्वयमाददे ॥५०॥ अन्वय :- आचार्यवर्यः तेजसाम् अधिपम् इव तेजोभिः देदीप्यमानं
तं बालं पाणिभ्यां स्वयम् आददे । समास :- (१) अधिपम् - अधिकं पाति इति अधिपः, तम् अधिपम् ।
(उप.त.पु.) स्था-पा-स्ना. ५।१।१४२ कप्रत्ययः । (२) आचार्यवर्यः - आचार्येषु वर्यः इति आचार्यवर्यः ।
(स.त.पु.)